गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाऽचरतःकर्म समग्रं प्रविलीयते ।। २३ ।।
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाऽचरतःकर्म समग्रं प्रविलीयते ।। २३ ।।
भाष्यम्
उपसंहरति– गतसङ्गस्येति ।। गतसङ्गस्य फलस्नेहरहितस्य । मुक्तस्य शरीराद्यनभिमानिनः । ज्ञानावस्थितचेतसः परमेश्वरज्ञानिनः ।।
भावप्रदीपिका
नोत्तरश्लोकस्य गतार्थतादोष इत्याह– उपसंहरतीति । श्लोकं व्याचष्टे– गतेति ।। २३ ।।
भावप्रकाशिका
न चोत्तरश्लोकस्य ‘यस्य’ इत्यादिना गतार्थता । उक्तार्थ-सङ्ग्रहात्मकत्वेनोपसंहाररूप-त्वात् । ‘अतः’शब्दाद्यभावेऽप्युपसंहारपरोऽयं श्लोक इति भावेनाह– उपेति ।। ‘यज्ञाय’ भगवते कुर्वतः ‘कर्म’ सह पूर्वोत्तराघाभ्यां प्रलीयते । यदनादिकर्म यावन्मोक्षं तत्सर्वं न बध्नातीत्यर्थः ।।
‘एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः ।
त एवात्मविनाशाय कल्प्यन्ते कल्पिताः परे ।।’ इत्यादेः, इति भाष्यशेषः ।।२३।।
प्रमेयदीपिका
यदुक्तं कामादिवर्जनं तदेव गतसङ्गस्य इत्यनेनोच्यते । ‘त्यक्तसर्वपरिग्रहः’ (४.२१) इत्येतत् ‘मुक्तस्य’ इत्यनेन, ‘कर्मणि’ (४.२०) इति ‘नित्यतृप्तः’ (४.२०) इति च ‘ज्ञानावस्थितचेतसः’ इत्यनेन । अतः पुनरुक्तिरित्यत आह– उपसंहरतीति ।। विक्षिप्तं पिण्डीकरोतीत्यर्थः । ‘गतसङ्गस्य’ इति विषयसापेक्षम् । अतस्त-त्प्रदर्शनेन व्याख्याति– गतेति।। ‘मुक्तस्य’ इत्येतत् साधके घटयति– मुक्तस्येति ।। अनेन ‘अभिमानान्मुक्तस्य’ इति वा ‘मुक्तसदृशस्य’ इति वा व्याख्यातं भवति । ज्ञानस्य विषय-सापेक्षत्वात्तं प्रदर्शयन् व्याचष्टे – ज्ञानेति ।। आत्मज्ञानस्याप्युपलक्षणमेतत् ।। २३ ।।
भावदीपः
।। साधक इति ।। साधनानुष्ठातरीत्यर्थः ।। आत्मज्ञानस्यापीति ।। भगवतः तत्प्रतिबिम्बत्वादिना तत्स्वरूपज्ञानिन इत्यर्थः ।। २३ ।।
भावरत्नकोशः
।। यदुक्तमिति ।। ‘यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः’ इत्यत्र, इति शेषः । ‘मुक्तस्येत्यनेन’ इत्यत्र ‘ज्ञानावस्थितचेतसः इत्यनेन च’ इत्यत्र च ‘उच्यते’ इत्यनुवर्तते । ‘नित्यतृप्तः’ इत्यस्य नित्यतृप्तेश्वरसरूपोऽस्मीति जानन्निति व्याख्यानात् पुनरुक्तिरिति द्रष्टव्यम् ।।
ननु ज्ञानावस्थितचेतस्त्वस्य ‘ब्रह्मार्पणम्’ इत्यनेन स्पष्टीकरणात् कथमनेनोपसंहार इत्युच्यत इत्यत आह– विक्षिप्तमिति ।। इति अनेनोक्तं कामादिविषयसापेक्षमिति । किंविषयः कामः ? किंविषयकश्च स्नेह इति तयोर्विषयनिरूप्यत्वादिति भावः । भाष्ये स्नेहशब्देन कामोऽपि ग्राह्यः । ‘यदुक्तं कामादिवर्जनम्’ इति टीकायां सङ्गपदार्थत्वेन कामस्यापि ग्र्रहणादित्यवधेयम् । ‘गत-सङ्गस्य’ इत्यादौ मोक्षस्य साधको विशेष्यते । मुक्तपदं तु सिद्धवाचीति साधकविशेषणं कथं स्यादिति शङ्कां परिहर्तुमाह– मुक्तस्येत्येतदिति ।। ‘स्वातन्त्र्याभिमानान्मुक्तस्य’ इति तात्पर्यं हृदि कृत्वाऽऽह– अनेनाभिमानादिति ।।
भाष्ये ‘मुक्तस्य शरीराद्यभिमानाद्’ इति वक्तुं शक्येऽपि ‘शरीराद्यनभिमानिनः’ इति षष्ठीश्रवणस्वारस्यानुरोधादाह– मुक्तसदृशस्येति वेति ।। मुक्तोे हि शरीराद्यभिमानशून्यः । साधकोऽपि तथाभावान्मुक्तपदेन ग्राह्य इति भावेन भाष्ये षष्ठीति भावः । ज्ञानस्येति ।। ज्ञानेऽव-स्थितम् अभिनिविष्टं चेतो यस्य स तथा, तस्येत्यत्र ज्ञानस्येत्यर्थः । ‘परमेश्वरज्ञानिनः’ इति तु फलितप्रदर्शनम् । परमेश्वरस्य सर्वकर्मकर्तृत्वस्वातन्त्र्यज्ञानिन इति तदर्थ इति भावः । ननु नित्य-तृप्तनिराश्रयेश्वरसरूपोऽस्मीति जानन् तथाविध इति जीवज्ञानस्याप्युक्तत्वात् कथं परमेश्वर-ज्ञानमात्रग्रहणमित्यत आह– आत्मज्ञानस्यापीति ।। उक्तरूपजीवज्ञानस्यापीत्यर्थः ।। २३ ।।
गीताक्षरार्थस्तु - विक्षिप्तं क्रोडीक्रियते– गतसङ्गस्येति ।। फलसङ्गादिरहितस्य मुक्तस्य अभिमानान्मुक्तस्य, शरीराद्यनभिमानसाम्यान्मुक्तसदृशस्य वा ज्ञानावस्थितचेतसः भगवद्विषय-ज्ञानाभिनिविष्टचित्तस्य नित्यतृप्तनिराश्रयेश्वरसरूपोऽस्मीति भगवत्प्रतिबिम्बत्वावबोधनिष्ठमानसस्येति वा यज्ञाय भगवते तत्प्रीत्यर्थम् आचरतः कुर्वतः कर्म सह पूर्वोत्तराभ्यां यदनादि यच्च यावन्मोक्षं तत् समग्रं सर्वं प्रविलीयते प्रलीनं भवति । न बन्धकं भवतीत्यर्थः । तदुक्तम्
‘एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः ।
त एवात्मविमोक्षाय कल्प्यन्ते कल्पिताः परे ।।’ इति ।
इत्युत्तरार्धः प्राचीनटीकायां व्याख्यातः । अत्र च ‘यदुक्तं कामादिवर्जनम्’ तदेव ‘गतसङ्गस्य’ इत्यनेन, ‘त्यक्तसर्वपरिग्रहः’ इत्येतद् ‘मुक्तः’ इत्यनेन, ‘कर्मण्यकर्म’ इति ‘नित्यतृप्तः’ इति च ‘ज्ञानावस्थितचेतसः’ इत्यनेन चोच्यते इति विक्षिप्तक्रोडीकरणं द्रष्टव्यमिति ।। २३ ।।
भावदीपिका
।। अतस्तत्प्रदर्शनेनेति ।। कस्मिन् विषये गतसङ्ग इति विषया-पेक्षायां तत्प्रदर्शनेनेत्यर्थः ।। मुक्तसदृशस्येति ।। शरीरानभिमानस्योभयत्रापि साम्यादिति भावः ।। आत्मज्ञानस्यापीति ।। नित्यतृप्तादिरूपेश्वरप्रतिबिम्बत्वादिना जीवज्ञानस्येत्यर्थः ।। २३ ।।
भावप्रकाशः
ननु ज्ञानावस्थितचेतस्त्वस्य ब्रह्मार्पणमित्यनेन प्रपञ्चनात् कथमुप-संहरतीत्युक्तमित्यत आह– विक्षिप्तमिति ।। विषयसापेक्षमिति ।। सङ्गपदोक्तकामस्नेहयो-र्विषय-निरूपपणात् इत्यर्थः । अभिमानपदाध्याहारे धर्मिकल्पनप्रसङ्गादाह– मुक्तसदृशस्येति ।। अनेन गौणीरूपधर्ममात्रकल्पनमित्युक्तं भवति । ननु नित्यतृप्त इत्यादिना जीवज्ञानस्याप्युक्तत्वात् कथं परमेश्वरज्ञानमात्रग्रहणमित्यत आह– आत्मज्ञानस्यापीति ।। जीवज्ञानस्यापीत्यर्थः ।। २३ ।।