कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते ।। २१ ।।

अर्जुन उवाच–

कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो ।

किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते ।। २१ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु  गुणानतीत्य’ इत्युक्तेऽर्जुनस्य ‘ज्ञीप्सा जातेत्युच्यते– अर्जुन उवाच कैरिति ।। हे प्रभो एतान् बन्धकत्वेनोक्तान् त्रीन् गुणान् सत्त्वादीन् अतीतः अतिक्रान्तवान् ज्ञानी कैर्लिङ्गैः लक्षणैः युक्तो भवति क आचारोऽस्य किमाचारः कीदृशाचारवान् कथं केनोपायेन एतांस्त्रीन् गुणानतिवर्तते अतिक्रामति ।। २१ ।।