कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।। ४७ ।।
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।। ४७ ।।
भाष्यम्
कामात्मनां निन्दा कृता । कथम्? एषां ‘स्वर्गकामो यजेत’ इत्यादौ कामस्यापि विहितत्वादित्यत आह– कर्मण्येवेति ।।
भावप्रदीपिका
ननु ‘उपनीतोऽधीयीत’ इतिवत् ‘स्वर्गकामो यजेत’ इत्यादौ स्वर्गादिकामस्यापि विहित-त्वात् कथमेषां विहितमाचरतां काममनस्कानामविपश्चित इति निन्दा कृता? इत्याशङ्क्य, उत्तरत्वेन श्लोकमवतार्य व्याचष्टे– कामात्मनामिति ।।
भावप्रकाशिका
.....................निन्दा कृता । इतरफलकामे सति ईश्वरमनःसमाधानाभावेन अमुक्तिप्रसङ्गादिति ।। तन्न । ‘स्वर्गकामो यजेत’ इत्यादौ यागवत् कामस्यापि विहितत्वा-द्विहितमनुतिष्ठता मुक्त्यभावोऽपि गुण एव स्यात् । किं तया सुखादिहान्या? इति भावेना-शङ्क्य, तत्परिहारायोत्तरश्लोकमवतार्य व्याचष्टे– कामात्मनामिति ।।
प्रमेयदीपिका
‘ज्ञानिनां कर्माभावमुक्त्वा इदानीमज्ञानिनः कर्मोच्यते’ इत्यन्यथाव्याख्याननिरासायाऽह– कामात्मनामिति ।। एषां कर्मिणाम् । सकामतया कर्मकुर्वतां या निन्दा कृता ‘यामिमाम्’ (२.४२) इत्यादिना सा न युक्तेत्यर्थः । कुतः? ‘स्वर्गकामो यजेत’ इत्यादौ यजनवत् स्वर्गकामस्यापि विहितत्वात् । न हि विहितं कुर्वतां निन्द्यत्वम् । तथात्वे यजनस्यापि निन्द्यत्वप्रसङ्गादिति वदन् विशिष्टविधित्वं मन्यते पूर्वपक्षी ।।
भावदीपः
ननु यागकर्मयोर्द्वयोरपि विधौ वाक्यभेद इत्यत आह– विशिष्टविधित्वमिति ।। स्वर्गकामविशिष्टो यागः कार्य इति विशिष्टविधित्वमित्यर्थः ।।
भावरत्नकोशः
कथमित्याक्षेपार्थः सा नेति ।। कामस्यापीत्यपिपदेन यजनस्यापि ग्रहणे कामस्य यजनस्य च विधौ वाक्यभेद इत्यत उक्तम्– विशिष्टेति ।। स्वर्गकामविशिष्टो यागः कार्य इति विशिष्ट-विधित्वमित्यभिमान इत्यर्थः । ‘वायव्यं श्वेतमालभेत’ इत्यादौ विशिष्टविधिदर्शनादिति हृदयम् ।।
भावदीपिका
ननु यजेत इति यजनस्यैव विवक्षितत्वात् स्वर्गकामस्यापि कथं विहितत्वं वदतीत्यत उक्तम्– विशिष्टेति ।। सोमेन यजेत इत्यादिवत् स्वर्गकामविशिष्टं यजनं कर्तव्यमिति विधीयत इत्याशयः ।।