भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ।। २ ।।

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।

त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ।। २ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु अपि च हे कमलपत्राक्ष कमलस्य पत्रे इवाक्षिणी यस्येति बहुव्रीहौ अक्ष्णः षच् । त्वत्तः सार्वविभक्तिकस्तसिः, तव सकाशादेव भूतानां सशरीरजीवानां भवाप्ययौ सृष्टिप्रलयौ । ‘अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा’ इत्यादिना विस्तरशः विस्तरेण मया श्रुतौ अव्ययम्् अक्षयं माहात्म्यमपि ‘अव्यक्तं व्यक्तिमापन्नं मन्यन्ते’, ‘मया ततमिदं विश्वम्’, ‘न च मां तानि कर्माणि’, ‘समोऽहं सर्वभूतेषु’ इत्यादौ श्रुतम् ।।२।।