अथैदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ।। ११ ।।

अथैदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।

सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ।। ११ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– एतत् मत्प्रीत्युद्देश्यकं कर्म मद्योगं योऽन्यदेवादिपूजनं कृत्वा हरावर्पयति । ‘स तु तद्योगमात्रवान््’ इति शास्त्रोक्तम् । अन्ते मयि समर्पणलक्षणं मत्कर्मत्वोपायम् । ततः तर्हि यतात्मवान् शुद्धचित्तः सन् सर्वकर्मफलत्यागं कुरु

।। ११ ।।