श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयानन्ये इन्द्रियाग्निषु जुह्वति ।। २६ ।।

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।

शब्दादीन् विषयानन्ये इन्द्रियाग्निषु जुह्वति ।। २६ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु अन्ये योगिनः श्रोत्रादीनि ज्ञानेन्द्रियाणि संयमाग्निषु प्रतीन्द्रियं संयमो भिद्यत इति बहुवचनम् । संयमा एवाग्नयः, तेषु जुह्वति । प्रत्याहारेण भगवत्पूजात्वेनैवेन्द्रियसंयमनं कुर्वन्ति । अन्ये योगिनः शब्दादीन् शब्दस्पर्शरूपरसगन्धान् श्रोत्रादीन्द्रियाख्याग्निषु जुह्वति । भगवत्पूजात्वेन विषयान् इन्द्रियैर्भुञ्जत इत्यर्थः ।। २६ ।।