मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ।। ४७ ।।

श्रीभगवानुवाच–

मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ।

तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ।। ४७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु भक्त्यतिशयोत्पादनाय भगवता विश्वरूप-दर्शनस्य दौर्लभ्यमुच्यते– भगवानुवाच मयेति ।। आत्मयोगात् स्वसामर्थ्यात् तेजोमयम् अलौकिकतेजःस्वरूपं विश्वं पूर्णगुणम् अनन्तं देशकालापरिच्छिन्नं त्वदन्येन न दृष्टपूर्वम् इत्यनेन ‘तेनैवार्जुनेनेतःपूर्वमिन्द्रशरीरेण दृष्टम्’ इत्युच्यत इति ज्ञायते । ‘त्वदन्येन’ इत्यत्रान्यशब्देन ब्रह्मादिविश्वरूपदर्शिव्यतिरिक्ता अर्जुनादधमाः ग्राह्या इत्यन्यत्र स्पष्टम् । यद् रूपं तत् तव परं दर्शितम् इत्यन्वयः । तेन विश्वरूपेतरकृष्णादिरूपेष्वपरत्वशङ्का पराकृता भवति । यद्वा ‘परम् उत्तमम्’ इति विश्वरूपे परत्वोक्तिरज्ञानिविवक्षया, नतु ब्रह्मादिमहाज्ञानिविवक्षया । तेषां कृष्णादावपि परत्वप्रतीतेः इत्यन्यतोऽवसेयम् ।। ४७ ।।