सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ।। १ ।।

।। पञ्चमोऽध्यायः ।।

अर्जुन उवाच–

सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ।। १ ।।

भाष्यम्

तृतीयाध्यायोक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेन । ‘यदृच्छालाभ-सन्तुष्टः’ (४.२२) इत्यादिना सन्न्यासम् । ‘कुरु कर्मैव’ (४.१५) इत्यादिना कर्मयोगं च ।।

भावप्रदीपिका

एतदध्यायप्रतिपाद्यार्थं दर्शयति– तृतीयेति ।। संन्यासं कर्मयोगं च शंससीति कुत्रोक्तमनुवदति ? इत्यत आह– यदृच्छेति ।। ज्ञानेन तल्लय-विवरणात्मकत्वस्याध्यायस्य चतुर्थत्वं स्यात् । न तदानन्तर्यमिति निरस्तम् । योगसंन्यास-कारयितृत्वात् तयोः ।।

भावप्रकाशिका

नन्वाद्यं षट्कं प्राधान्येन साधनपरम् । मोक्षसाधनं ज्ञानम्, तत्साधनं च कर्म सम्यगेवोक्तमतीताध्यायैः । अतः किं पञ्चमेन ? इत्याकाङ्क्षायामाह– तृतीयेति ।। ननु तृतीयसङ्गतस्याध्यायस्य चतुर्थानन्तर्ये को हेतुः ? इत्याकाङ्क्षां परिहरन्नेवाद्यं श्लोकं व्याख्यातुमुपक्रमते– यदृच्छेति ।। ‘यदृच्छालाभ..’ इत्यादिचतुर्थाध्यायोक्तकर्मसंन्यास-कर्मयोगविषयाकाङ्क्षोत्तरत्वेन तृतीयाध्यायोक्तप्रपञ्चात्मकत्वादस्य चतुर्थाध्यायानन्तर्यमिति भावः ।

प्रमेयदीपिका

पूर्वसङ्गतत्वेनैतदध्यायप्रतिपाद्यमर्थमाह– तृतीयेति ।। ‘कर्म-योगो नाम कर्माणि कृत्वा तेषां ब्रह्मात्मकत्वज्ञानम्’ इति कश्चित् । तद्व्यावर्तयितुमेवशब्दः । फलकामनादित्यागेनेश्वरार्पणबुद्ध्या वर्णाश्रमविहितकर्मानुष्ठानमेव कर्मयोगोऽत्र प्रपञ्च्यते । तस्यैव पूर्वमुक्तत्वात् । नान्यः । तस्याप्रकृतत्वात् । द्व्यंशश्चायं कर्मयोगः । कामादिवर्जनम्, ईश्वरार्पणबुद्ध्या कर्मानुष्ठानं चेति । तत्राद्यं सन्न्यासशब्दोक्तम् । द्वितीयमुपचारेण कर्मयोगशब्दोक्तम् । तदभिप्रायेण योगसन्न्यासयोर्लक्षणं स्पष्टयति’ इत्यन्यत्रोक्तमिति ।।

सन्न्यासम्’ इत्यादिना कुत्रोक्तमर्जुनोऽनुवदति? इत्यत आह– यदृच्छेति ।। ‘कर्मयोगम्’ इति वदता ‘कर्मणाम्’ इत्येतद्योगशब्देन सम्बद्ध्यत इत्युक्तं भवति । तथाच ‘कर्मणां सन्न्यासं त्यागम्’ इति व्याख्यानमसदिति सूचितम् ।। शंससि इत्यन्वयः ।।

चतुर्थाध्यायोक्तस्यार्थस्य एतदध्यायोत्थानबीजत्वात् तृतीयाध्यायप्रपञ्चनात्मकस्याप्यस्य चतुर्थानन्तर्यं युक्तमित्यप्यनेन ज्ञापितम् ।।

भावबोधः

।। उपचारेणेति ।। कर्मयोगशब्दमुख्यार्थभूतविशिष्टगतस्य ज्ञानसाधन-त्वादिगुणस्यैकदेशेऽपि विद्यमानत्वादुपचारेणेत्यर्थः ।।

भावदीपः

।। पूर्वमुक्तत्वादिति ।। ‘कर्मण्यकर्म यः पश्येत्’ इत्यादि-नोक्तत्वादित्यर्थः । यद्वा ‘यज्ञार्थात् कर्मणोऽन्यत्र’ इत्यादिनोक्तत्वादित्यर्थः ।। गीतातात्पर्य-विरोधं निराह– द्व्यंशश्चायमित्यादिना ।। उपचारेणेति ।। फलकामत्याग इत्यस्यैव मुख्यतः कर्मयोगशब्दार्थत्वादिति भावः ।। भाष्ये काङ्क्षितं पूरयति– शंससीत्यन्वय इति ।।

भावरत्नकोशः

एवशब्देन कस्यचिद्व्याख्याननिरासमुपपादयति– फलकाम-नादित्यागेनेति ।। पूर्वमुक्तत्वादिति ।। ‘यज्ञार्थात्कर्मणोऽन्यत्र’ इति ‘कर्मण्यकर्म यः पश्येद्’ इति वा पूर्वमुक्तत्वादित्यर्थः । नान्यः ‘ब्रह्मात्मकत्वज्ञानं कर्मयोगः’ इति परोक्तो न ग्राह्य इत्यर्थः । ननु पूर्वोक्तकर्मयोगप्रपञ्चनपरत्वोक्तौ ‘योगसंन्यासयोः लक्षणं स्पष्टयति’ इति गीतातात्पर्यविरोधः इत्याशङ्कां परिहर्तुमाह– द्व्यंशश्चायमिति ।। एतेन ‘संन्यासस्यापि प्रपञ्चनात् कर्मयोगमेव प्रपञ्चयतीति कथं भाषणम्’ इत्यपि निरस्तम् । उपचारेणेति ।। फलकामनादिवर्जनविशिष्टस्यैव कर्मयोगशब्दमुख्यार्थत्वेऽपि, अत्र ज्ञानसाधनादिमुख्यनिष्ठगुणयोगाद् गौण्या वृत्त्येत्यर्थः । ‘योग’ इत्यादितात्पर्यवाक्यार्थस्तु– पूर्वं समुच्चितः कर्मयोगो निरूपितः । स च योगसंन्यासभेदेन द्विविधः । द्विविधयोश्च स्वरूपं सङ्क्षेपेण ‘कुरु कर्माणि सङ्गं त्यक्त्वा’ इत्यादावुक्तम् । तदेवानेनाध्यायेन स्पष्टयतीति न्यायदीपिकातोऽवसेयः । इत्यादिना ‘संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि’ इत्यनेन । ‘इत्यादिना’ इत्यत्र ‘वाक्येन’ इति योज्यम् । संन्यासं कर्मयोगमिति भाष्यार्थः ।

कर्मणां संन्यासमवोचत्’ इति सङ्करेण भाषणादाह– इति व्याख्यानमिति ।। ‘ज्ञेयस्स नित्यसंन्यासी’ इति संन्यासशब्दस्य भगवतैवान्यथा व्याख्यानादिति दूषणहेतोर्वक्ष्यमाणत्वादिति भावः । कर्मणः क्रियासापेक्षत्वादाह– शंससीत्यन्वय इति ।। भाष्यगतसंन्यासयोगपदयोः द्वितीयान्तयोः गीतागतशंससिपदेनान्वय इत्यर्थः । ननु तृतीयाध्यायोक्तार्थप्रपञ्चनपरत्वेऽस्य तृतीयानन्तर्यमिति शङ्काऽपि, चतुर्थाध्यायगतस्य ‘यदृच्छालाभ’इत्यादिवाक्यस्य ग्रहणेन परिहृते-त्याह– चतुर्थाध्यायेति ।। उक्तवाक्यस्य पुरोवादस्याभावे ‘संन्यासम्’ इत्यादितदनुवादेन प्रश्नायोगेन नैतदध्यायोत्थानमिति, तस्याप्युपजीव्यत्वादिति भावः ।।

भावदीपिका

प्रणम्य यादवाचार्यगुरूणां पदपङ्कजे ।

पञ्चमाध्यायटीकायाः क्रियते भावदीपिका ।।

।। तस्याप्रकृतत्वादिति ।। कृतानां कर्मणां ब्रह्मात्मकत्वज्ञानरूपस्य कर्मयोगस्याप्रकृतत्वा-दित्यर्थः । नन्वेवम् एतदध्यायस्य तृतीयाध्यायोक्तकर्मयोगप्रपञ्चनात्मकत्वे ‘योगसंन्यासयोर्लक्षणं स्पष्टयत्यनेनाध्यायेन’ इति एतदध्यायप्रतिपादनपरेण गीतातात्पर्येण विरोधः स्यात्? इत्यतस्तं परिहर्तुमाह– द्व्यंशश्चेति ।। उपचारेणेति ।। विशिष्टे शक्तस्य कर्मयोगशब्दस्यैकदेशे उपचारः । कर्मयोगशब्दमुख्यार्थभूतविशिष्टगतस्य ज्ञानसाधनत्वादिगुणस्यैकदेशेऽपि सत्त्वादिति भावः ।। तदभिप्रायेणेति ।। द्व्यंशाभिप्रायेण तत्र प्रतिपाद्यमुक्तम् । अत्र तु विशिष्टाभिप्रायेण इत्यदोष इत्याशयः ।

भाष्ये ‘संन्यासम्’ ‘कर्मयोगम्’ इति द्वितीयाया अनन्वयमाशङ्क्य, गीतागतेन ‘शंससि’ इति पदेनान्वय इत्याह– शंससीति ।। नन्वेतदध्यायस्य तृतीयाध्यायोक्तार्थप्रपञ्चनात्मकत्वे तदानन्तर्यमेव स्यात्, चतुर्थाध्यायानन्तर्यं कुत इत्यत आह– चतुर्थाध्यायोक्तस्येति ।। तृतीयाध्याये कर्मयोगे निरूपिते, ‘यदृच्छालाभसन्तुष्ट’ इत्यादिना चतुर्थे संन्यासे च निरूपिते सति, ‘यच्छ्रेय एतयोरेकम्’ इत्यर्जुनशङ्कोत्थानसम्भवेन चतुर्थाध्यायोक्तस्यैतदध्यायोत्थानबीजत्वादित्यर्थः । अनेनेति ।। ‘यदृच्छालाभसन्तुष्ट इत्यादिना संन्यासम्’ इति वचनेनेत्यर्थः । वर्णविशेषः श्यामवर्णः ।।

भावप्रकाशः

ज्ञानसाधनकर्मणोऽभिहितत्वात् पुनरुक्तिरित्यत आह– अन्तरङ्ग-मिति ।। ज्ञानोत्पत्तावत्यावश्यकमित्यर्थः । नन्वेवं सति योगसन्न्यासयोः लक्षणं स्पष्टयतीति तात्पर्यनिर्णयविरोध इत्याशङ्कां परिहर्तुमाह– द्व्यंशश्चेति ।। एतेन सन्न्यासस्यापि प्रपञ्चनात् कर्मयोगं प्रपञ्चयतीत्ययुक्तमित्यप्यपास्तम् । उपचारेणेति ।। एकदेशेऽपि कर्मयोगशब्दवाच्यविशिष्टनिष्ठ-ज्ञानसाधनत्वादिति गुणयोगाद्गौण्या वृत्त्येत्यर्थः । शंससीत्यन्वय इति ।। भाष्यस्थसन्न्यासकर्मयोग-पदयोः गीतास्थशंससिपदेनान्वय इत्यर्थः ।।

ननु तृतीयप्रपञ्चनात्मकस्यास्य तदानन्तर्यं युक्तम् । तत्कथं चतुर्थानन्तर्यमित्यत आह– चतुर्थाध्यायेति ।। उत्थानबीजत्वादिति ।। ‘यदृच्छालाभससन्तुष्टः, कुरु कर्मैव’ इत्यादि चतुर्थाध्यायवाक्यानां पुरोवादत्वेन ‘सन्न्यास’मित्याद्यनुवादकारणत्वादिति भावः ।।।

 

Load More