अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ।। ६ ।।
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ।। ६ ।।
भाष्यम्
न तर्ह्यनादिर्भवानित्यत आह– अजोऽपीति ।। अव्ययः आत्मा देहोऽ-पीति अव्ययात्मा । ‘अनन्तं विश्वतो मुखम्’ (११.११) इति हि रूप-विशेषणमुत्तरत्र ।‘एतन्नानावताराणां निधानं बीजमव्ययम्’ (भाग.१.३.५) इति च । ‘जगृहे’ (भाग.१.३.१) इति तु व्यक्तिः । युक्तयस्तूक्ताः । आत्माऽनादित्वं तु सर्वसमम् ।।
भावप्रदीपिका
यदि पूर्वजन्मनि विवस्वते प्रोक्तवानसि तर्हि तवानादित्वं न स्यात् । ज्ञानं जातिस्मरणवदित्याशङ्कोत्तरत्वेन श्लोकमवतारयति– न तर्हीति ।। नन्वनादित्वं जीवानामप्यस्त्यतः को विशेषो हरेः ? इत्यत आह– अव्यय इति ।। ननु देहानादित्वस्य युक्तिविरुद्धत्वात् कथमयं भगवदभिप्रायः ? इत्यत आह– अनन्तमिति ।।भगवतैव हरिदेहा-नाद्यन्तत्वोक्तेरयं तदभिप्रायो भवत्येवेत्यर्थः । ननु भगवतैव ‘जगृहे पौरुषं रूपम्’ इति भगव-द्देहस्योत्पत्तिरुक्तेत्यत आह– जगृह इति । कुतो व्यक्तिः ? उत्पत्तिरेव न कुतः ? इत्यत आह– युक्तय इति । इतश्च नेश्वरदेहस्योत्पत्तिमत्त्वमाह– आत्मेति । यदीश्वरोऽप्युत्पन्न-देहवान्, तर्हि न तस्य जीववैलक्षण्यम् । स्वरूपनित्यत्वस्य सर्वजीवेष्वपि साम्यात् । न च गुणान्तरे वैषम्यम् । उत्पत्तिमरणादिमतो गुणान्तरस्यासम्भवादित्यर्थः ।
भावप्रकाशिका
यदि जातिस्मरणवत् जन्मान्तरानुभूतस्मृतिमात्रेणोत्तरं भगवतः, तर्ह्यनादित्वं न स्यादिति भावेनाशङ्क्य, एतत्परिहाराय तदुत्तरं श्लोकमवतार्य व्याचष्टे– न तर्हीति । नन्वात्मस्वरूपाजत्वं जीवानामप्यस्ति, अतः को विशेषः सर्वेशस्य ? इत्याशङ्क्य, परिहारायोत्तरं पदं व्याचष्टे– अव्यय आत्मेति । ननु देहस्याविनश्वरत्व-मनुमानविरुद्धम् । अतः कथं भगवत्सम्मतं स्यात् ? इत्यत आह– अनन्तमिति । भगवतैव भगवद्रूपस्यानन्तत्वेन विशेष्यमाणत्वात् न तस्याव्ययत्वं भगवदसम्मतम् । न च देहित्वा-द्विनाशित्वम् । किन्त्वनन्तत्वेनानुक्तत्वादेवेति भावः ।
भागवतेऽपि भगवतैव भगवद्रूपस्याप्यव्ययत्वेनैव विशेषितत्वाच्च न तस्याप्यव्ययत्वं भगवदसम्मतमित्याह – एतदिति । ननु तत्रैव ‘पौरुषं रूपम्’ इति तस्य ग्रहणोक्तेर्ग्रहणं च त्यागशिरस्कमेव । अतः कथमव्ययता तस्येत्यत आह– जगृह इतीति ।
व्यक्तिरेव नोत्पत्तिरित्यत्र का युक्तिरित्यत आह– युक्तयस्त्विति । द्वितीयाध्यायान्ते विस्तारेणोक्तत्वात् नेह प्रपञ्च्यत इति भावः । अन्ये तु भगवत्यप्यात्मन एवानादित्वं
वर्णयन्ति । न तु तद्देहस्य तद्दूषयति– आत्मेति । तत्पक्षे जीवेभ्यो विशेषो न स्यादीश्वरस्येति भावः ।।
प्रमेयदीपिका
प्रश्नस्य परिहृतत्वात् ‘अजोऽपि’ इति किमर्थमित्यत आह– न तर्हीति ।। यदि जन्मानि व्यतीतानि तर्हीत्यर्थः । अनादिः देहतोऽपि । उपलक्षणं चैतत् । मरणरहितः, सर्वभूतानामीश्वरश्चेत्यपि द्रष्टव्यम् । तथाचोक्तविरोध इति भावः ।।
ननु देहतोऽप्यनादित्वादेराक्षेपेऽजत्वादिमात्रं कथमुच्यते? इत्यतः ‘अव्ययात्मा’ इत्येतावता देहतोऽप्यविनाशमाचष्टे । तत्साहचर्यात् अजोऽपि इत्येतदपि तथैव व्याख्येयमिति भावेनाऽह– अव्यय इति ।। अपिपदात्परम् ‘अस्य’ इत्यध्याहार्यम् । स्यादेवं व्याख्यानं यदि भगवद्विग्रह-स्याप्यव्ययत्वं गीताचार्यस्याभिमतं स्यात् । तदेव कुतः? इत्यत आह– अनन्तमिति ।। इति च रूपविशेषणमिति वर्तते ।।
एवं तर्हि कथं तत्रैव ‘जगृहे पौरुषं रूपम्’ इति रूपग्रहणमुच्यते? गृहीतस्य च त्यागो नियत एवेत्यत आह– जगृह इति ।। व्यक्तिः ‘उच्यते’ इति शेषः । कुत एवं कल्प्यते? इत्यत आह– युक्तय इति ।। युज्यत एभिरिति युक्तयः प्रमाणानि । असम्भावना(आदि) परिहारार्था अचिन्त्यशक्तित्वाद्या युक्तयो वा । उक्ताः द्वितीये ।।
अस्तु भगवद्विग्रहस्याप्यव्ययत्वम् । अत्र तु स्वरूपस्यैवोच्यत इति किं न स्यात्? इत्यत आह– आत्मेति ।। ‘आत्मनः स्वरूपस्य विग्रहस्याप्यव्ययत्वोपपादेनेनाजत्वमपि साहचर्या-त्तस्यैव’ इति योऽभिप्रायस्तं प्रकटयितुम् ‘अव्ययत्वम्’ उपक्रम्य ‘अनादित्वम्’ इत्युक्तम् । सर्वसमं जीवानमप्यस्ति । अतस्तद्विषयो नाक्षेपः परिहारो वा सम्भवतीति भावः। आत्म-शब्दोऽप्यन्यथा व्यर्थः । अस्मत्पक्षे स्वरूपदेहयोरुपादानार्थः । अत एव ‘देहोऽपि’ (भाग.११. १३.१७) इत्युक्तम् ।।
भावदीपः
गीतोक्ताव्ययात्मादिपदानुरोधेनाह– उपलक्षणञ्चैतदित्यादि ।। उक्तेति ।। ‘नत्वेवाहम्’ (२.१२) इत्यादिनोक्तेत्यर्थः ।। ‘अनन्तम्’ इति भाष्ये उत्तरत्र इत्यस्य एकादशेऽध्याये ‘दर्शयामास पार्थाय परमं रूपमैश्वरम्’ (११.९) इति पूर्वत्र प्रकृतरूपस्य ‘अनन्तं विश्वतो मुखम् । दर्शयामास’ इति देशकालगुणैरनन्तम् इति अनन्तत्वविशेषणोक्त्या विग्रहस्याव्ययत्वं ज्ञायते । तथा प्रथमस्कन्धे तृतीयेऽध्याये ‘जगृहे पौरुषं रूपम्’ इत्यस्येत्यर्थः ।।
‘जगृहे पौरुषं रूपम्’ इति पूर्वत्र प्रकृतरूपस्य ‘अव्ययम्’ इति च विशेषणं युुक्तमित्यर्थः ।। द्वितीय इति ।। द्वितीयाध्यायान्त्यभागे ‘न च तद्ब्रह्मणो शरीरत्वादेतत् कल्प्यम्’ इत्यादिनेति भावः ।। ‘आत्मानादित्वम्’ इत्यत्र आत्मपदं षष्ठ्यन्तत्वेनानूद्यार्थमाह– आत्मन इति ।। तस्यैवेति ।। विग्रहस्यैवेत्यर्थः ।। योऽभिप्राय इति ।। ‘गीताचार्यस्य’ इत्यनुषङ्गः।। आक्षेप इति ।। न तर्ह्यनादिर्भवान् इत्येवाक्षेप इत्यर्थः ।। अत एवेति ।। आत्मपदे स्वरूपस्याप्यभिमतत्वादेव । भाष्ये स्वरूपसमुच्चयार्थं ‘देहोऽपि’ इत्युक्तं प्रागित्यर्थः ।।
भावरत्नकोशः
चेतनमात्रसाधारणतया प्रमितस्यानादित्वस्य कथं भगवत्याक्षेपः ? इत्यतः ‘अनादिः’ इति भाष्ये शेषमाह– अनादिर्देहतोऽपीति ।। ‘अजोऽपि’ इत्यत्र देहस्याप्य-नादित्वोक्तेस्तद्व्यावर्त्येयं शङ्का । विशेषणद्वयव्यावर्त्यां शङ्कां दर्शयितुमाह– उपलक्षणमिति ।। ‘ईश्वरश्च न’ इति भाष्येणान्वयः । अनादिर्मरणरहितो भूतानामीश्वरश्च न स्याद् इत्यत्रेष्टापत्ति-माशङ्क्याह तथा चेति ।। ‘न त्वेवाहम्’ ‘नासतो विद्यते भावः’, ‘अविनाशि तु तद्विद्धि’ इत्यादिना अनादिनित्यत्वस्य, ‘न मे पार्थास्ति कर्तव्यम्’ ‘नानवाप्तमवाप्तव्यम्’ इत्यादिनेश्वरत्वस्य चोक्तत्वात् तद्विरोधः स्यादित्यर्थः । ‘अनादित्वादेः’ इत्यत्र आदिपदेनानन्तत्वम् । अजत्वादिमात्रं स्वरूपतो जन्ममरणाभावः । देहत इति ।। ‘आत्मा देहे धृतौ बुद्धौ’ इत्यभिधानादिति भावः । तत्साहचर्यात् देहतोऽप्यविनाशावेदकाव्ययात्मपदसाहचर्यात् । बहुव्रीहित्वस्य सुबोधत्वायाह– अस्येत्यध्याहार्यमिति ।। एवं व्याख्यानम् अस्य देहोऽप्यव्यय इति भाषणम् । विग्रहस्यापि न केवलं स्वरूपस्येत्यपिशब्दः । कुतः प्रमाणात् ।।
अनन्तमितीति ।। एकादशाध्याये ‘सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्’ इति ‘अनन्तम्’ इति देशकालगुणापरिच्छिन्नत्वेन विशेषणात् देहस्य कालापरिच्छेदलक्षणमव्ययत्वं विज्ञायते । तत्र ‘देवम्’ इति भगवत एवाव्ययत्वमुच्यत इति न वक्तव्यम् । ‘देवम्’ इति रूपस्य ग्रहणादिति भावेनोक्तम्– रूपेति ।।
‘मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि’,
‘अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा’ ‘पश्यामि देवांस्तव देव देहे’
इत्यत्राभिहितस्य देहस्यैव ‘दर्शयामास पार्थाय परमं रूपमैश्वरम्’ इति रूपशब्देनावमर्शेन देहस्यैवाव्ययत्वमुक्तं भवतीति विमर्शसूचनाय हिशब्द इति भाष्यार्थः । तथा च ‘स्वभावाकृति सौन्दर्यवपुः सुश्लोकशब्दयोः रूपम्’ इति नैघण्टुकाः ।
प्राचीनटीकायां तु ‘भगवद्विग्रहो विनश्वरः विग्रहत्वाद् देवदत्तदेहवत्’ इत्यनुमानविरुद्धं देहस्यानन्तत्वमित्याशङ्क्योक्तम्– अनन्तमिति ।। भगवतैव भगवद्विग्रहस्यानन्तत्वेन विशेष्य-माणत्वात् न तस्याव्ययत्वं भगवदसम्मतम् । अनुमानं तु अनन्तत्वेनानुक्तत्वरूपोपाधिदूषितमिति भाव इति व्याख्यातम् । ‘इति च’ इति भाष्यस्यान्वयं दर्शयति– इति चेति ।। वर्तते इति । पूर्व-भाष्यादनुवर्त्य भाष्यं योजनीयमित्यर्थः । तथा हि । भागवतेऽपि भगवतैव भगवद्रूपस्याव्ययत्व-विशेषणाच्च नास्य भगवदसम्मतत्वमिति भावेनोक्तम्– एतदिति ।। ‘पश्यन्त्यदो रूपमदभ्रचक्षुषः’ इति यत्र क्षीरार्णवशायिपद्मनाभाभिधं रूपं प्रकृतमेतत् मत्स्यादीनामवताराणां बीजं व्यञ्जकम् । अन्ततोऽत्र सर्वावतारा निधीयन्ते एकीक्रियन्त इति निधानम् । न व्येतीत्यव्ययम् । यस्य पद्मनाभस्यांशांशेन सामर्थ्यैकदेशेन देवतिर्यङ्नरादयः सृज्यन्ते इत्यत्राव्ययमिति रूपं विशेषितमिति भगवद्विग्रहस्याप्यव्ययत्वं भगवदभिप्रेतमेवेति ।
एवं तर्हि भगवद्विग्रहस्याप्यव्ययत्वाभिप्राये । तत्रैव भागवत एव ।
‘जगृहे पौरुषं रूपं भगवान्महदादिभिः ।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया ।।’
इति रूपग्रहणमुच्यत इत्यर्थः ।
ननु रूपग्रहणोक्तावप्यव्ययत्वस्य को विरोध इत्यत आह– गृहीतस्येति ।। ग्रहणस्य त्याग-शिरस्कत्वादिति भावेनोक्तम्– नियत इति ।। तथा च तस्याव्ययत्वं दुर्लभमिति भावः । उच्यत इति । तथा च पूर्वमविद्यमानग्रहणाभावान्नोक्तचोद्यावकाश इति भावः । प्रमाणशब्दापेक्षया ‘एभिः’ इत्युक्तम्, आभिरित्यर्थः । तेन भगवतो जन्माभावे ‘न चायं राघवाज्जातो न चापि जमदग्नितः’ इत्याद्यागमानामुदाहृतत्वाद् ‘युक्तयः’ इति कथमुच्यत इति शङ्काऽनवकाशः । रूढिप्राबल्यमनु-रुन्धान आह– असम्भावनेति ।। ‘नित्यः सर्वगतः स्थाणुः’ इत्यत्र स्थाणुत्वेक्षितृत्वयोरसम्भावना-परिहारार्थाः, अचिन्त्यशक्तित्वोभयविधवाक्यान्यथाऽनुपपत्तिरूपे युक्ती उक्ते, तथा अध्यायान्ते ‘यत्र परावरभेदोऽवगम्यते’ इत्युक्तपरावरत्वे अचिन्त्यशक्तिः पदार्थवैचित्र्यं चेति युक्ती उक्ते इत्यर्थः । अत्र च ‘जगृहे’ इति वाक्ये व्यक्तिरेव ग्रहणशब्दार्थः, नान्यः । ‘अनन्तं विश्वतोमुखम्’ इति वाक्यस्यान्यथाऽनुपपत्तेः । न चेश्वरे विग्रहव्यक्तिरसम्भाविनी । अचिन्त्यशक्तेः न चान्यत्रा-दृष्ट्याऽपलापः । भूतचतुष्टयस्य पृथिवीत्वादृष्टेः पृथिव्या अपि पृथिवीत्वाभावप्रसङ्गात् ।
न च ‘अनन्तं विश्वतोमुखम्’ (११.११) ‘निधानं बीजमव्ययम्’ (भाग.१.३.५) इति वाक्यमुपचरितार्थं स्तुतिर्वेति शङ्क्यम् । ईश्वरेऽचिन्त्यशक्त्यैव मुख्यार्थोपपत्तावुपचारादिकल्पनाया अनुचितत्वादिति भाष्याभिप्राय इति भावः । ‘उक्ता’ इत्यनूद्य शेषमाह – उक्ता इति ।। उच्यते अव्ययत्वम् । आत्मनोऽनादित्वम् आत्मानादित्वमित्यत्र आत्मशब्दार्थमाह – आत्मन इति ।। देहतोऽप्यनादित्वादेराक्षेपे अजत्वादिमात्रं कथमुच्यते ? इति कृतचोद्यस्य ‘अजोऽपि’ इत्यत्र देहतोऽप्यजत्वं विवक्षितमिति परिहारं भाष्यारूढं कर्तुम्, प्रस्तुतत्वाद् ‘आत्माव्ययत्वम्’ इति भाषणीये यद् ‘आत्मानादित्वम्’ इति भाषितं तत्प्रयोजनमाह – विग्रहस्यापीति ।। तस्यैव विग्रहस्यैव । अभिप्रायः गीताचार्यस्य । अत्र तु स्वरूपस्यैवोच्यते इति किन्न स्यादिति चोद्यं परिहरति – अत इति ।। तद्विषयः स्वरूपानादित्वविषयः । आक्षेपः ‘न तर्ह्यनादिर्भवान्’ (गी.भा.४.६) इत्याक्षेपः । स्वयं दूषणान्तरमाह – आत्मशब्दोऽपीति ।। अन्यथा आक्षेपस्य स्वरूपानादित्वविषयत्वे । न केवलं स्वरूपानादित्वं सर्वजीवानामप्यस्तीत्युक्तदोष इत्यपिशब्दः । इत्युक्तम् ‘अव्यय आत्मा देहोऽपी’ति भाष्ये ।
भावदीपिका
।। यदीति ।। ‘बहूनि मे व्यतीतानि जन्मानि’ इत्युक्तत्वेन यदि ते जन्मानि व्यतीतानि तर्हीत्यर्थः ।। मरणेति ।। ‘अव्ययात्मा भूतानामीश्वरोऽपि सन्’ इति परिहारे उक्तत्वादिति भावः ।। उक्तविरोध इति ।। ‘न त्वेवाहम्’ इत्युक्तविरोध इत्यर्थः ।। कथमुच्यत इति ।। तस्य स्वरूपपरत्वेनापि सावकाशत्वादिति भावः । तथैव व्याख्येयमिति ।। देहतोऽ-प्युत्पत्तिरहित इति व्याख्येयम् । एवं व्याख्याने देहतोऽप्यनादित्वं लभ्यत इत्याशयः ।। गीताचार्यस्येति ।। गीतोपदेष्टुर्भगवतो वासुदेवस्येत्यर्थः । रूपशब्दो देहपरः । ननु ग्रहणम् अव्ययत्वाविरोधीति चेत्, तत्राऽह– गृहीतस्य चेति ।।
ननु द्वितीयाध्यायान्तेऽत्रार्थे आगमानामेवोक्तत्वात् कथं युक्तय इत्युक्तम्? इत्यत आह– युज्यत इति ।। ‘अर्थ’ इति शेषः । युज्यते उपपन्नो भवतीत्यर्थः । प्रतिपाद्यत इत्यर्थ इत्यपि आहुः ।। असम्भावनेति ।। ‘अव्ययात्मत्वादिविषयक’ इति शेषः। अत्र त्विति ।। ‘अव्ययात्मा’ इत्यत्रेत्यर्थः । ननु ‘आत्माव्ययत्वम्’ इति वक्तव्ये ‘अनादित्वम्’ इत्युक्तिः कथमित्यत आह– विग्रहस्यापीति ।। तद्विषयः स्वरूपविषयः । ‘न तर्हि’ इत्याक्षेपः । ‘अजोऽपि’ इत्यादिपरिहारः ।। आत्मशब्दोऽ-पीति ।। स्वरूपाव्ययत्वप्रतिपादनस्य ‘अव्यय’ इत्यनेनैव सम्भवाद् आत्मशब्दो व्यर्थ इत्यर्थः ।।
भावप्रकाशः
‘अजोपी’त्यत्र देहस्याप्यनादित्वोक्तेः तद्व्यावृत्त्याशङ्कां दर्शयितु-माह– देहतोऽपीति ।। अव्ययात्मेत्यादिविशेषणद्वयनिवर्त्यशङ्कां दर्शयितुीमाह– उपलक्षणमिति ।। उक्तविरोध इति ।। नासतो विद्यते भाव इत्यादिनेश्वरानादिनित्यत्वस्यान्तवन्त इमे देहा इत्यत्र शरीरिण इति ईश्वरव्यावर्तकविशेषणबलेन तद्देहनित्यत्वस्य न मे पार्थास्ति कर्तव्यं नानवाप्त-मवाप्तव्यमित्यादिनेश्वरत्वस्य चोक्तत्वादिति भावः । बहुव्रीहित्वप्रदर्शनार्थमाह– अस्येत्यध्याहार्या-मिति ।। ननु भगवतो जन्माभावे ‘न चापि राघवाज्जात’ इत्याद्यागमानामुदाहृतत्वात् कथं युक्तय इत्युच्यत इत्यत आह – युज्यत एभिरितीति ।। यद्यपि स्त्रियां क्तिनो विधानात् आभिरिति वक्तव्यम् । तथाऽपि सामान्ये नपुंसकमित्येतदनुसृत्यैवमुक्तम् ।। असम्भावनादीति ।। आदिपदे-नौपचारकत्वस्तुतित्वयोः सङ्ग्रहः ।।
।। अचिन्त्यशक्तित्वाद्या इति ।। उभयविधवाक्यान्यथानुपपत्तिः । पदार्थवैचित्र्यं चादि-शब्दार्थः । अयमर्थः । उभयविधवाक्यान्यथानुपपत्त्या अनन्तमित्यादाव्ययत्वं ‘जगृहे’ इत्यत्र च व्यक्तिरुच्यत इति कल्प्यते । न चेश्वरस्य व्यक्तिरसम्भाविनी । अचिन्त्यशक्तेः । नचान्यत्रा-दृष्ट्याऽपलापः । तथा सति मूर्खे पाण्डित्यादृष्टेः पण्डितेऽपि तदभावप्रसङ्गात् । नच ‘अनन्तम््’ इत्यादिकमुपचरितार्था स्तुतिः वा स्तामिति वाच्यम् । ईश्वरे अचिन्त्यशक्त्या मुख्यार्थस्यैवोपपत्तौ उपचारादिकल्पनाऽनवकाशादिति ‘अव्ययात्मा’ इत्यव्ययत्वस्यैव प्रकृतत्वात् ‘आत्माव्ययत्वम्’ इति वक्तव्ये आत्मानादित्वमिति यदुक्तं तत्कृत्यमाह– देहस्यापीति ।। अनादिनित्यस्येति ।। यद्यप्यनादित्वस्य जन्मना सह परस्परविरहरूपत्वाख्यो व्याघातः, नतु नित्यत्वस्य । तथाऽपि परस्परविरहव्याप्यत्वात्मकविरोधोऽस्तीति सूचनाय नित्यत्वग्रहणम् ।।