भाष्यम्
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते।। १५ ।।
भाष्यम्
अतः प्रयोजनमाह– यं हीति ।। यम् एते मात्रास्पर्शा न व्यथयन्ति । पुरि शयमेव सन्तम् । शरीरसम्बन्धाभावे सर्वेषामपि व्यथाभावात् पुरुषम् इति विशेषणम् । कथं न व्यथयन्ति? समदुःखसुखत्वात् । तत्कथम्? धैर्येण ।। १५ ।।
भावप्रदीपिका
न केवलं मात्रास्पर्शसहनादैहिकदुःखाभावः फलम्, किन्तु मोक्ष एवेत्युत्तरश्लोकमवतार्य व्याचष्टे– अत इति ।। ‘पुरुष’ पदं न स्त्रीव्यावर्तकमित्याह– पुरुषमिति ।। ‘पुरुष’ शब्दार्थस्य प्रकृतोपयोगं दर्शयति– शरीरेति ।। १५ ।।
भावप्रकाशिका
एवं तावद्देहादावहङ्कारादिपरित्यागेन तद्गतशीतोष्णादिसहनात् तन्निमित्तदुःखाभाव-स्तात्कालिकः प्रयोजनमित्युक्तम् । अधुनैवंविधो दुःखाभावो न प्रयोजनमन्ततः । अपि तु साधयति च महत्फलं कैवल्याख्यमिति भावेनोत्तरं श्लोकमवतार्य व्याचष्टे– अतः प्रयोजन-मित्यादिना ।। अतः अस्माद्दुःखाभावादित्यवगन्तव्यम् । ‘यं न व्यथयन्ति सोऽमृतत्वाय’ इत्यन्वयात् ।।
ननु तन्वाभिमानाभावेनादुःखित्वं कथम्? विरिञ्चेतरेषां तन्वभिमानस्यापि भावात् । तथाहि शक्तिविवेके–
‘ब्रह्मा निरभिमानत्वात् शरीर्यप्यशरीरवान् ।
रुद्राद्यास्तन्वाभीमानात् बहिरर्थयुजस्तथा ।।’
इत्यभिप्रायेण पृच्छति– कथमिति ।। अस्त्वितरेषाम् ईषत्तन्वाभिमानात् दुःखित्वम् । तथाऽप्यतिव्यथाभावः समदुःखसुखानामिति भावेनावान्तरपदमवतारयति–समदुःखसुख-त्वादिति ।। नन्वनुकूलप्रतिकूलयोः सुखदुःखयोः कथं पुंसः समत्वम्? इत्याशङ्क्य, तदुत्तर-त्वेनोत्तरपदमवतारयति– तदित्यादिना ।। १५ ।।
प्रमेयदीपिका
अतो मात्रास्पर्शानां विफलीकरणतः भवत्प्रयोजनमाह– अत इति ।। ‘दुःखाभावस्य युद्धाकरणेनैव सम्भवात् किं तत् कृत्वा प्रसक्तदुःखाभावायाभिमानत्यागेन? इत्येतदाशङ्का-परिहाराय’ इति शेषः ।।
पूर्वश्लोके ‘तितिक्षस्व’ इति पदं ‘सहस्व’ इति कैश्चिद्व्याख्यातम् । तदसत् । तदनुवादेऽत्र विफलीकरणस्यैव प्रतीतेरिति भावेन आद्यपादं व्याख्याति– यमिति ।। न व्यथयन्ति न चालयन्ति । न शीतोष्णसुखदुःखलक्षणवैषम्यवन्तं कुर्वन्तीत्यर्थः ।।
स्त्रीणामप्येवंविधानां मैत्रेयीप्रमुखानाममृतत्वश्रवणात् ‘पुरुषम्’ इति विशेषणमयुक्तम् इत्यतोऽन्यथा व्याचष्टे– पुरीति ।। शरीरसम्बन्धिनम् एव सन्तम् शरीरदर्शनवन्तमित्यर्थः । एतदपि किमर्थं विशेषणम्? इत्यत आह– शरीरेति ।। सुप्त्यादौ सर्वेषां प्राकृतानाम् अपि अभिमानाभावेन व्यथाभावात् अमृतत्वप्रसक्तिरित्याशङ्कानिवृत्त्यर्थमित्यर्थः ।।
ननु यस्य देहादावभिमानो नास्ति तस्य दुःखं सुखं च नास्तीत्युक्तम् । तस्य कथं ‘समदुःखसुखम्’, ‘धीरम्’ इति विशेषणद्वयम्? अस्य पूर्वकक्ष्यागतत्वादित्याशङ्क्य तदुपाय-प्रदर्शनार्थं पूर्वावस्थानुवादोऽयमिति क्रमेण पृच्छापूर्वकमाशयमाह– कथमिति ।। येन अभिमानत्यागेन मात्रास्पर्शा न व्यथयन्ति स कथं केनोपायेन भवतीत्यर्थः ।। दुःखं यथाऽनुपादेयम् अपुरुषार्थत्वात् तथा वैषयिकं सुखमप्यमृतत्वविरोधित्वाद् अनुपादेयं यस्य स समदुःखसुखः । एवम्भावे च कथं सुखहेतुषु शोभनाध्यासलक्षणः, तद्विरोधिषु द्वेषलक्षणोऽभि-मानः स्यात्? इति भावः ।। ‘तत्’ समदुःखसुखत्वमेव,‘कथं’ केनोपायेन भवतीत्यर्थः ।। धैर्येणेति ।। सुखे दुःखे च प्राप्ते सति तत्कार्ययोरुत्सेकविषादयोः स्तम्भकेन प्रयत्नेनेत्यर्थः ।।१५।।
भावबोधः
ननु ‘मात्रास्पर्शा’ इति श्लोके केवलमात्रास्पर्शाः शीतोष्णाद्यनुभवद्वारा सुखदुःखहेतवो न भवन्तीत्युक्तम् । अत्र साक्षाद्दुःखमात्रकारणत्वाभाव उच्यते । तत्कथं ‘यं हि’ इति पादः तदनुवादरूप इत्यत आह– न व्यथयन्तीति ।। अत्र शीतोष्णपदं शीतोष्णाद्यनुभवलक्षकम् । तथा च गीतायां भाष्ये च व्यथापदं शीतोष्णाद्यनुभवद्वारकं सुखदुःखरूपवैषम्यपरमिति नानु-वादत्वानुपपत्तिरिति भावः ।। पूर्वकक्ष्येति ।। अभिमानत्यागहेतोः समदुःखत्वादेः तत्सम्पादनेन चरितार्थत्वादित्यर्थः । यद्वा पूर्वावस्थागतत्वादित्यर्थः । अत एव पूर्वावस्थानुवादोऽयमित्युत्तर-वाक्यम् ।। १५ ।।
भावदीपः
एवंविधानामिति ।। अभिमानहीनानामित्यर्थः ।। श्रवणात् बृहदारण्यक इति भावः ।। पूर्वकक्ष्येति ।। अभिमानत्यागात् पूर्वकक्ष्यास्थत्वसमदुःखसुखत्वादेः तदुत्तरकालं सुखादेरेव अभाव इति पूर्वार्ध एवोक्तेः नेदं विशेषणद्वयमभिमानत्यागिनो युक्तमित्याशङ्केत्यर्थः ।। १५ ।।
भावरत्नकोशः
उपसंहारत्वभ्रमनिरासाय भाष्यस्थातःपदमनूद्य तदर्थं वदन् प्रयोजनमित्यत्राध्याहार्यमाह– अतो मात्रास्पर्शानां विफलीकरणतो भवदिति ।। ‘आह’ इति भाष्यपदमनूद्यातःपरं वाक्य-मध्याहरति आह– दुःखाभावस्येत्यादि ।। क्वचिदाहेत्यनन्तरमत इतीति पाठः । तत्राऽहेत्य-नन्तरम् इत्याहेति शेषः । किं तत् कृत्वा युद्धं कृत्वा? ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति न्यायादिति भावः । अनुवाद इति ।। यच्छब्दयोगादिति भावः । अत्र प्रथमपादे । ननु पूर्वश्लोके अभिमानत्यागे विषयसम्बन्धाः विषयानुभवद्वारा दुःखादिहेतवो न भवन्ती-त्युक्तम् । अत्र पादे व्यथाशब्दितदुःखमात्राहेतुत्वं प्रतीयते । तत् कथमयं तस्यानुवाद इत्या-शङ्कयाऽह– न चालयन्तीति ।। नान्यथयन्तीत्यर्थः ।।
एवमपि प्रकृतोपयोगाय तत्तात्पर्यमाह– न शीतोष्णेति ।। गीताभाष्ययोः व्यथधातु-र्विषयानुभवद्वारकसुखदुःखादिवैषम्यपर इत्युक्तानुवादत्वमुपपन्नमिति भावः । एवंविधानां मात्रा-स्पर्शकृतचलनहीनानां समदुःखसुखानां धीराणां चेत्यर्थः । श्रवणात् बृहदारण्यके । विशेषणं पुरुषशब्देन यच्छब्दार्थस्याधिकारिणः स्त्र्यादिभ्यो व्यावर्तनम् । अन्यथा पुरुषत्वरूपधर्मोप-स्थापनमन्तरा देहसम्बन्धित्वप्रकारेण । तथा चात्र स्त्रीणामपि ग्रहणे न दोष इति भावः । सुप्त्यादौ शरीरसम्बन्धे सत्यपि व्यथाऽप्रसक्तेर्निषेधायोग इत्यत आह–शरीरदर्शनवन्तमिति ।।
भाष्ये शरीरसम्बन्धशब्देन तत्कार्यबाह्यज्ञानं लक्षयित्वा तस्याभावः शरीरिणोऽवस्थाविशेष एव विवक्षित इति भावेनाऽह– सुप्त्यादाविति ।। सुप्तिमूर्च्छाऽसम्प्रज्ञातसमाधिष्वित्यर्थः । अमृतत्वप्रसक्तिरित्याद्येव शेषोक्तिः । प्रथमपादं तात्पर्यतोऽनुवदन्नुत्तरभाष्यमवतारयितुं शङ्कते– ननु यस्येति ।। देहादौ देहेन्द्रियान्तःकरणविषयेषु । ‘इत्युक्तम्’ इत्यनन्तरं तथा सतीति शेषः । तस्य अभिमानत्यागवतः । अस्य समदुःखसुखत्वस्य । अभिमानत्यागहेतुत्वेन पूर्वकक्ष्या-गतत्वाद् अभिमानत्यागपूर्वभावित्वात् । धैर्यस्य च समदुःखसुखत्वं प्रति पूर्वभावित्वात् । तदुपायप्रदर्शनार्थम् अभिमानत्यागोपायप्रदर्शनार्थं समदुःखसुखत्वोपायप्रदर्शनार्थं च । पूर्वा-वस्थानुवाद इति ।। अभिमानं त्यक्ष्यतो धीरता समदुःखसुखता चावश्यम्भाविनीति अभिमानत्यागपूर्वभाविसाधनानुवाद इत्यर्थः । यावद् दुःखं तावत् सुखं यस्य सोऽयं समदुःख-सुखस्तत्त्वादित्यन्यथाप्रतीतिनिरासाय कृतपृच्छापरिहाराय च भाष्यभावमाह– दुःखं यथाऽनु-पादेयमिति ।। दुःखहेतुषु सुखाभावहेतुषु, तदुभयव्याप्यहेतुषु चानुगतद्वेष्यतावच्छेदकसम्पादनाय दुःखहेतुष्वित्यनुक्त्वा ‘तद्विरोधिषु’ इत्युक्तम् । ‘तत् कथम्’ इति भाष्ये तत्पदमनूद्य तदर्थमाह– तत् समदुःखसुखत्वमेवेति ।। उत्सेकविषादयोः उच्चत्वनीचत्वयोः ।। १५ ।।
गीताक्षरार्थस्तु– दुःखाभावस्य युद्धाकरणेनैव सम्भवात् किं तत् कृत्वा प्रसक्तदुःखाभावाय अभिमानत्यागेनेत्येतदाशङ्कापरिहाराय मात्रास्पर्शानां विफलीकरणतो भवत् प्रयोजनमुच्यते– यं हीति ।। एते मात्रास्पर्शाः पुरुषं पुरिशयमेव सन्तं शरीरदर्शनवन्तं शरीराभिमानिनमिति यावत् । एतच्च विशेषणं सुप्त्यादौ सर्वेषां प्राकृतानामप्यभिमानाभावेन व्यथाभावादमृतत्वप्रसक्तिरित्या-शङ्कानिवृत्त्यर्थम् । यं हि न व्यथयन्ति न चालयन्ति शीतोष्णसुखदुःखलक्षणवैषम्यवन्तं न कुर्वन्ति । येनाभिमानत्यागेन मात्रास्पर्शा न व्यथयन्ति स एव केनोपायेन भवतीत्यत उक्तम्– समदुःखसुखमिति ।। दुःखं यथाऽनुपादेयमपुरुषार्थत्वात् तथा वैषयिकसुखमप्यमृतत्व-विरोधित्वादनुपादेयं यस्य स समदुःखसुखः । एवम्भावे च कथं सुखहेतुषु शोभनाध्यासलक्षणः तद्विरोधिषु द्वेषलक्षणोऽभिमानः स्यादिति भावः । समदुःखसुखत्वमपि केनोपायेन भवतीत्यत
उक्तम्– धीरमिति ।। धैर्यवन्तं सुखे दुःखे च प्राप्ते सति तत्कार्ययोरुत्सेकविषादयोः यः स्तम्भकः प्रयत्नः स धैर्यशब्देन विवक्षितः । स चैवम्भूतः अमृतत्वाय कल्पते मुक्तो भवतीति ।। १५ ।।
भावदीपिका
कृत्वेति ।। युद्धमिति शेषः ।। न चालयन्तीति ।। व्यथ भयसञ्चलनयोरिति धातु-व्याख्यानादिति भावः । ननु पूर्वश्लोके च तितिक्षस्वेत्यनेन चलनाभावस्यानुक्तत्वात् कथमस्य तदनुवादरूपत्वमित्यतस्तत्तात्पर्यमाह– न शीतोष्णेति ।। एवंविधानां शीतोष्णसुखदुःख-लक्षणरहितानाम् ।। अमृतत्वश्रवणादिति ।। ‘अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च’ इत्यारभ्य ‘सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान् वेद तदेव मे ब्रूहि’ इत्यादिना बृहदारण्यके श्रवणादित्यर्थः । ननु सुप्तानामपि शरीरसम्बन्धित्वेन मात्रास्पर्शकृतव्यथाभावसद्भावेनामृतत्वं स्यादित्यत आह शरीरदर्शनवन्त-मिति ।। सुप्तस्य तु शरीरसम्बन्धे सत्यपि तद्दर्शनं नास्तीति भावः ।।
प्राकृतानामपीति ।। मूर्खाणामपीत्यर्थः । कक्ष्याऽवस्था । अत एव पूर्वावस्थेत्युत्तरग्रन्थः । समदुःखसुखवतो धीरस्यैव ह्यभिमानत्यागोऽन्यथा तदनुपपत्तेरित्येव समदुःखसुखत्वधीरत्वयो-रभिमानत्यागापेक्षया पूर्वावस्थागतत्वादभिमानत्यागवत इदं विशेषणद्वयं कथमित्यर्थः ।। तदुपायेति ।। अभिमानत्यागोपायेत्यर्थः ।। पूर्वावस्थेति ।। अभिमानत्यागापेक्षया पूर्वावस्था समदुःखसुखत्वादिरूपा तदनुवाद इत्यर्थः । सुखदुःखयोर्विलक्षणत्वात् कथं साम्यमित्यत आह– दुःखं यथेति ।। अमृतत्वविरोधित्वादपुरुषार्थभूतं ततश्चानुपादेयमिति योज्यम् । तथा चानु-पादेयत्वेन तयोः साम्यमिति भावः । समदुःखसुखत्वस्याभिमानत्यागे हेतुत्वं दर्शयति– एवम्भावे चेति ।। समदुःखसुखत्वे सतीत्यर्थः । उत्सेक उच्चत्वम् । विषादो नीचता ।। १५ ।।
भावप्रकाशः
प्रयोजनमाहेति ।। इतः परमत इतीति क्वचित्पाठः । तत्र प्रयोजनमाहेत्यस्यानन्तर-मित्याहेति शेषः । किं तत्कृत्वेति ।। प्रक्षालनाद्धिपङ्कस्य दूरादस्पर्शनं वरमिति न्यायादिति भावः । सहस्वेतीति ।। ‘तिज– निशाने क्षमायाञ्चे’ति क्षमार्थात्तिजेः ‘गुप्तिज्किद्भ्यः सन्’ इति स्वार्थे सन्युक्तार्थलाभादिति भावः ।।
ननु तांस्तितिक्षस्वेत्यत्राभिमानत्यागे कृते मात्रास्पर्शा विषयानुभवद्वारा सुखादिहेतवो न भवन्तीत्युक्तम् । अत्र तु साक्षात् दःुखमात्राहेतुत्वमुच्यते । तत्कथमयमन्तिमपादस्तदनुवादरूप इत्यत आह– न चालयन्तीति ।। पर्यवसितमाह– न शीतोष्णेति ।। तथा च गीतायां भाष्ये च व्यथधातुर्विषयानुभवद्वारकसुखादिवैषम्यपर इत्यनुवादत्वोपपत्तिरिति भावः । अस्य पूर्व-कक्ष्यागतत्वादिति ।। समदुःखसुखत्वस्याभिमानत्यागहेतुत्वेन तत्पूर्वभावित्वात् । धैर्यस्य च समदुःखसुखत्वं प्रति पूर्वभावित्वादित्यर्थः । इदञ्च हेत्वन्तरम् । समदुःखसुखत्वं च न विशेषण-मित्यत्र सुखं दुःखं च नास्तीत्युक्तमित्यनेनैकस्य हेतोरुक्तत्वात् । न च चशब्दाभावो दोष अहरहर्नयमानो गामश्वं पुरुषं पशुमित्यादौ तदभावेऽपि समुच्चयावगमात् । दुःखं यावत् तावत् सुखं यस्येत्यन्यथाप्रतीतेः व्याचष्टे– दुःखं यथेति ।। दुःखहेतुषु सुखाभावहेतुषु चानुमत-द्वेष्यता-वच्छेदकलाभाय दुःखहेतुष्वित्यनुक्त्वा तद्विरोधिष्वित्युक्तम् । नतु सुखविरोधित्वेनैव दुःखहेतुषु द्वेषोत्पादप्रदर्शनार्थम् । दुःखस्य द्वेष्यत्वेन तद्धेतुत्वेनैव तत्र द्वेषोत्पादसम्भवादिति बोध्यम् ।।