न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता नच मे तस्मादन्यः प्रियतरो भुवि ।। ६९ ।।

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।

भविता नच मे तस्मादन्यः प्रियतरो भुवि ।। ६९ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- किञ्च तस्मात् गीताशास्त्रव्याख्यातुः अन्यो मनुष्येषु मे मम प्रियकृत्तमः अतिशयेन प्रियं कुर्वन् अस्ति आगामिनि कालेऽपि । तस्माद् व्याख्यातुरन्यः प्रियतरो न भविता न भविष्यति । ‘नासीत्’ इत्यपि द्रष्टव्यमिति स्वामिनः । अत्र ‘मनुष्येषु’ इत्युक्त्या मनुष्याणां व्याख्यातृत्वे कारणभूतानां देवानाम् इतोऽपि भगव-त्प्रियत्वमस्तीति ज्ञायते ।। ६९ ।।