निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाऽप्नोति किल्बिषम् ।। २१ ।।
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाऽप्नोति किल्बिषम् ।। २१ ।।
भाष्यम्
कामादित्यागोपायमाह– निराशीरिति ।। यतचित्तात्मा भूत्वा निराशी-रित्यर्थः । आत्मा मनः । परिग्रहत्यागोऽनभिमानम् ।।
भावप्रदीपिका
ननु त्याज्यमेव कामादि, तथाऽपि केनोपायेन त्यज्यते ? इत्याशङ्क्य, उत्तरश्लोकमवतार्य व्याचष्टे – कामादीति ।। ‘आत्म’शब्देन मन एव, न सेन्द्रियो देह इत्याह – आत्मेति ।। नन्वयं कामत्यागोपाय एवोच्यते न सङ्कल्पत्यागोपाय इत्यत आह– परिग्रहेति ।। तथाऽपि (विषय)स्मरणकारणचित्तनिग्रहे कामो नोदेति । सङ्कल्पात्मकमनोजये(नियमने-पां) सङ्कल्पत्यागो भवतीत्यर्थः ।।
भावप्रकाशिका
तत्त्यागोपायपरतयैतत् तृतीयं श्लोकमवतारयति– कामा-दीति ।। निराशीस्त्वं त्यक्तकामता । तत्र यतचित्तात्मत्वं साधनमिति भावेन योजयति– यतेति ।। नात्रात्मशब्देन सेन्द्रियो देह उच्यते । मनोनिरोधेनैव तन्निरोधसिद्धेः । अतो मन एवेति भावेनाह आत्मेति । ननु परिग्रहत्यागस्य कामादित्यागोपायत्वे परिग्रहिणां कामा-द्युपहतिः स्यादित्यत आह– परीति ।। तथा हि मोक्षधर्मे जनकवाक्यम्–
‘ससुखं बत जीवामि यस्य मे नास्ति किञ्चन ।
मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन ।।’ इति ।
प्रमेयदीपिका
मादिवर्जितत्वमेव निराशीः इत्यनेनोच्यत इत्यत आह– कामादीति ।। आदिपदेन सङ्कल्पादिपरिग्रहः । कथम्? इत्यतो योजयति– यतेति ।। निराशीः ‘त्यक्तसर्वपरिग्रहश्च भवति’ इति शेषः । ‘सेन्द्रियं शरीरमात्मा’ इत्यसत् । अन्तःकरणवृत्ति-नियमेनैव तन्नियमसिद्धेरिति भावेनाऽह– आत्मेति ।। ननु परिग्रहो देहादिः । तत्त्यागः कथं साधकस्य? इत्यत आह– परिग्रहेति ।। अनभिमानम् इति स्थितिः इत्यादिक्रियाविशेषणम् । अर्थाभावे अव्ययीभावो वाऽयम् । अभिमानाभाव इत्यर्थः ।।
भावबोधः
।। स्थितिरित्यादि क्रियाविशेषणमिति ।। आदिपदेन चक्षुषा दर्शनं श्रोत्रेण श्रवणमित्यादि समस्तेन्द्रियव्यापारस्य ग्रहणम् । एवंरूपक्रियाविशेषणमित्यर्थः । ततश्चा-नभिमानं यथा भवति, तथा शरीरे स्थितिः, चक्षुषा दर्शनमित्यादिरेव परिग्रहत्यागशब्दार्थ इत्•िभाष्यार्थ इति भावः । अव्ययीभावो वाऽयमिति ।। तथा च ‘अनभिमानम्’ इति नपुंसको-पपत्तिरिति भावः ।।
भावदीपः
।। सङ्कल्पादिपरिग्रहः ।। सङ्कल्पफलस्नेहयोर्ग्रहणमित्यर्थः ।। कथ-मिति ।। त्यागोपायोक्तिः कथमित्यर्थः ।। नपुंसकत्वनिर्वाहायाऽह – स्थितिरित्यादीति ।। भाष्ये ‘स्थितिः दर्शनं स्पर्शनं श्रवणमाघ्राणम्’ इत्यादिक्रियाध्याहारः । अनभिमानं यथा भवति तथा देहादौ स्थितिः चक्षुरादिना रूपादिदर्शनादिकमित्यर्थः ।। द्वितीयाध्यायान्त्यपादे ‘स नपुंसकम्’ (पा.सू.२.४.१७) इत्यधिकारे ‘अव्ययीभावश्च’ (पा.सू.२.४.१८) इति सूत्रे ‘पथश्च सङ्ख्या-व्ययादेः क्रियाविशेषणानां द्वितीयैकवचनं नपुंसकम्’ इति वार्तिके क्रियाविशेषणस्य नपुंसकत्वैक-वद्भावयोरुक्तेरत्र नपुंसकत्वं साध्विति क्रियानध्याहारेणैव समाधिमाह – अर्थाभाव इति ।। ‘अव्ययं विभक्तिसमीपसमृद्धिवृद्ध्यर्थाभाव’ (पा.सू.२.१.६) इत्यादिसूत्रे ‘अर्थाभावे यदव्ययं तत्सुबन्तेन समस्यत सोऽव्ययीभावः’ इत्युक्तेः ‘विवादाभावोऽऽविवादम्’ इत्यादाविवाभिमानाभावोऽनभिमान-मित्यर्थः ।।
भावप्रदीपिका
ननु परिग्रहत्यागोऽनभिमान इति वक्तव्यम् । ‘अनभिमानम्’ इति कथम्? इत्यत आह– अनभिमानमितीति स्थितिः इत्यादिक्रियाध्याहारभिया पक्षान्तर-माह– अर्थाभाव इति ।। अव्ययीभावो वायमिति ।। तथाच नायम् ‘न अभिमानो अनभि-मान’ इति तत्पुरुषः । येन नपुंसकत्वानुपपत्तिः स्यात् । किं नाम ‘मक्षिकाणामभावो निर्मक्षिकम्’ इत्यादाविव ‘अव्ययं विभक्तिसमीपवृद्ध्यर्थाभाव’ इत्यादिना ‘अभिमानाभावोऽ-नभिमानम्’ इति ‘अर्थाभावोऽव्ययीभावसमास एव । तस्य च ‘अव्ययीभावश्च’ इति सूत्रेण नपुसंकत्वानुशासनादनभिमानम्’ इति यथास्थितमेवोपपन्नमिति भावः ।।
भावरत्नकोशः
‘कामना आशासनम्’ इत्यनर्थान्तरत्वादाह– कामेति ।। ‘सङ्कल्पादि’ इत्यादिपदेन स्नेहः ग्राह्यः ।। कथमिति ।। ‘निराशीः’ इत्यादेः कामा-दित्या-गोपायत्वोक्तित्वं कथमित्यर्थः । ‘निराशीः’ इत्यनूद्यानन्तरं शेषमाह– त्यक्तेति ।। ‘आत्मा बाह्यः कार्यकारणसङ्घातः’ इति सङ्करभाष्यमर्थतोऽनुवदति– सेन्द्रियमिति ।। परेणापि ‘चित्तम् अन्तःकरणम्’ इति भाषणादुक्तम्– अन्तःकरणेति ।। तन्नियमसिद्धेः शरीरनियमसिद्धेः ।।
नन्वत्र पक्षे ‘चित्तं च आत्मा मनश्च तौ । यतौ चित्तात्मानौ येन स यतचित्तात्मा’ इति हि व्युत्पत्तिरभिमता । तथाच पुनरुक्तिः स्यात् । चित्तमनःशब्दयोः पर्यायस्मरणादिति चेन्न । विषयस्मरणकारणचित्तनियमने कामो नोदेति । सङ्कल्पात्मकमनोनियमने सङ्कल्पत्यागो भवति’ इति भावप्रदीपिका
यां स्फुटमर्थभेदाभिधानात् । ‘चित्तं तु चेतो हृदयम्’ इत्यभिधानं तु तत्र विशेषाविवक्षया प्रवृत्तमिति ।। नन्वभिमानशब्दस्तावत्पुंलिङ्गः । अभिपूर्वात् ‘मन ज्ञाने’ इत्यतो घञि निष्पन्नत्वात् । तथाऽमरः ‘गर्वोऽभिमानोऽहङ्कारः’ इति । अभिमानशब्दस्य नञ्समासे नञ्तत्पुरुषस्यापि पुंस्त्वमेव । ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ इत्यनुशासनात् । तत्कथम् ‘अनभि-मानम्’ इति क्लीबत्वमित्यत आह– अनभिमानमितीति ।। क्रियाविशेषणस्य च ‘क्रियाविशेषणानां च’ इति वार्तिके नपुंसकत्वानुशासनाद् युक्तं भाष्यमिति भावः । क्रियैव नात्र श्रूयते, यद्विशेषणत्वेन क्लीबत्वम् इत्यत उक्तम्– स्थितिरित्यादीति ।। आदिपदेन चक्षुषा दर्शनम्, श्रोत्रेण श्रवण-मित्यादिरूपेण समस्तेन्द्रियव्यापारभूतदृष्टश्रुत्यादिग्रहणम् । ‘अध्याहृत’ इत्युपस्कर्तव्यम् ।
नन्वेवं सति ‘नास्त्यभिमानो यस्मिन् कर्मणि तद्यथा तथा’ इति बहुव्रीहिरङ्गीकृतः स्यात् । अन्यथा क्रियाविशेषणत्वानिर्वाहात् । तथा च वर्तिपदार्थप्रधानसमासपरित्यागेन अन्यपदार्थ-प्रधानसमासाभ्युपगमो दोषः । ‘स्थितिः’ इत्यादि अश्रुतक्रियाकल्पनम् । ‘परिग्रहत्यागोऽनभि-मानम्’ इति श्रुतसामानाधिकरण्यभङ्गश्चेत्यनुशयादाह– अर्थाभाव इति ।। ‘अव्ययं विभक्तिसमीप-समृद्धिव्यृद्धिअर्थाभाव’ इत्यादिसूत्रेण अर्थाभावे वर्तमानस्य नञाख्याव्ययस्य अभिमानपदेन अव्ययीभावसमासे ‘कृत्तद्धितसमासाश्च’ इति समासत्वेेन प्रातिपदिकत्वात् सुबुत्पत्तौ तस्य ‘नाव्ययीभावादतोऽम्त्वपञ्चम्याः’ इति लुक्प्रतिषेधेन अमादेशे ‘अव्ययीभावश्च’ इति नपुंसकत्वे च ‘अनभिमानम्’ इति रूपे अभिमानाभाव इत्यर्थः सम्पद्यते । देहादिरूपपरिग्रहे सत्यपि तदभिमानाभाव एव परिग्रहत्याग इति विवक्षित इति न कोऽपि दोष इति भावः । तथा च प्राचीनटीका । ‘तथा हि मोक्षधर्मे जनकवाक्यम्
ससुखं बत जीवामि यस्य मे नास्ति किञ्चन ।
मिथिलायां प्रदीप्तायां न मे किञ्चन दह्यते’ ।। इति ।
भावदीपिका
।। ‘सङ्कल्पादि’ इत्यत्राऽदिपदेन कर्मफलासङ्गपरिग्रहः ।। कथमिति ।। कामादित्यागोपायः कथमनेनोक्त इत्यर्थः । फलं कदा भविष्यतीति कालप्रतीक्षा आशेत्युच्यत इति आहुः । ‘निराशी’ इत्यनन्तरं शेषं पूरयति– त्यक्तेति ।। अन्तःकरणवृत्तीति ।। मनोवृत्तीत्यर्थः । तन्नियमनेति ।। सेन्द्रियशरीरनियमनेत्यर्थः ।। ‘यथा ह वै पञ्चधा व्यपदिश्यते मनोबुद्धिरहङ्कारश्चित्तं चेतना’ इति श्रुतेश्चित्तं मनःप्रभेद इति ज्ञातव्यम् ।।
‘अनभिमानम्’ इति नपुंसकोपपत्त्यर्थमाह– इति स्थितिरिति ।। ‘शरीरे’ इति शेषः । तथा चानभिमानं यथा स्यात्तथा शरीरे स्थितिरेव परिग्रहत्याग इति स्थितिरूपक्रियाविशेषणम् । ‘तथा’ इत्यादिपदाद् अनभिमानं यथा स्यात्तथा चक्षुषा दर्शनम्, श्रोत्रेण श्रवणमित्यादिसमस्तेन्द्रिय-व्यापारग्रहणेन दर्शनादिक्रियाविशेषणत्वेन नपुंसकत्वोपपत्तिरिति भावः । नपुंसकत्वोपपत्तये समाधानान्तरमाह– अर्थाभाव इति ।। ‘अव्ययं विभक्तिसमीपसमृद्धिवृद्धिअर्थाभाव’ इत्यादिसूत्रेण ‘अनभिमानम्’ इत्यर्थाभावेऽव्ययीभावसमासोऽयमित्यर्थः । तर्हि कथमर्थः सम्पन्न इत्यत आह– अभिमानाभाव इति ।। मक्षिकाणामभावो निर्मक्षिकमितिवद् अभिमानाभावोऽनभिमानमित्यर्थः। अभावेऽव्ययीभावसमासत्वे ‘अव्ययीभावश्च’ ‘अव्ययीभावो नपुंसकं स्यात्’ इति सूत्रेणाव्ययी-भावस्य नपुंसकत्वविधानात् ‘अनभिमानम्’ इति नपुंसकोपपत्तिरिति भावः ।।
भावप्रकाशः
।। कामवर्जितत्वमेवेति ।। इदमुपलक्षणम् । ‘त्यक्तसर्वपरिग्रहः’ इत्यनेन सङ्कल्पवर्जितत्वं कर्मफलासङ्गत्यागश्चोच्यत इत्यपि ग्रह्यम् । ‘त्यक्तसर्वपरिग्रह’ इत्यस्य ‘अनभिमानम्’ इति व्याख्यानात् । अभिमानश्चानेकविधो ‘मात्रास्पर्शा’ इत्येतट्टीकायामुक्तः । तत्र यदा कर्मस्वातन्त्र्यभ्रमरूपकर्तृत्वाभिमानत्यागोऽनभिमानपदेन विवक्षितस्तदा सङ्कल्पवर्जितत्वस्य शोभनाध्यासनिमित्तकस्नेहरूपाभिमानविवक्षायां च कर्मफलासङ्गत्यागस्य च लाभादिति भावः । ममतातिशयहेतुकाविवेकरूपदेहाद्यभिमानत्यागोऽपि तत्पदेन लक्ष्यत इत्यन्यदेतत् । सङ्कल्पादीति ।। आदिपदेन कर्मफलस्नेहो विवक्षितः । फलेच्छाकामः कर्मसु स्वातन्त्र्यभ्रमः सङ्कल्पः ‘नैव किञ्चित् करोमि’ इत्येतट्टीकायां कर्तृत्वाभिमानत्यागस्य सङ्कल्पत्यागत्वोक्त्योक्तविधकर्तृत्वाभिमानः सङ्कल्प इति सूचनात् । दुष्फलस्नेहश्चान्तःकरणवृत्तिविशेषो विजातीय एवेति ज्ञेयम् ।
ननु ‘अनभिमानम्’ इति क्लीबत्वं कथम् । अभिमानशब्दस्य पंुस्त्वेन तद्घटितनञ्तत्पुरुषस्यापि तत्त्वावश्यम्भावात् । ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ इत्युक्तेरित्यत आह– अनभिमानमितीति ।। तथा च क्रियाविशेषणत्वात् क्लीबत्वम् । ‘क्रियाव्ययविशेषणानां क्लीबत्वमेकवचनान्तत्वं च वाच्यम्’ इत्युक्तेरिति भावः । क्रियाया अश्रवणात् कथं तद्विशेषणत्वम्?इत्यत उक्तम्– स्थितिरित्यादीति ।। आदिपदेन ‘चक्षुषा दर्शनम्’ इत्यादिरूपेण समस्तेन्द्रियव्यापारग्रहणम् । तथा च स्थित्यादि-क्रियाध्याहारादुक्तं युक्तमिति भावः ।।
नन्वेवं सति‘ अनभिमानम्’ इति बहुव्रीहिरित्यापन्नम् । अन्यथा क्रियाविशेषणत्वायोगात् । तथा च वर्तिपदार्थप्रधानसमासत्यागेनान्यपदार्थप्रधानसमासाङ्गीकारदोषः । ‘स्थितिः’ इत्यश्रुतपल्पनं परिग्रहत्यागः, ‘अनभिमानम्’ इति श्रुतसामानाधिकरण्यभङ्गश्चेत्यस्वरसादाह– अर्थाभाव इति ।। ‘अव्ययं विभक्ति’ इत्यादिसूत्रेणार्थाभावे वर्तमानस्य नञाख्याव्ययस्याभिमानपदेनाव्ययीभाव इत्यर्थः । ततश्चानभिमानशब्दस्य ‘कृत्तद्धितसमासाश्च’ इति प्रातिपदिकत्वात् सुबुत्पत्तौ तस्य ‘नाव्ययीभावाद् अतोम्त्वपञ्चम्याः’ इति लुक्प्रतिषेधेनामादेशे ‘अनभिमानम्’ इत्युपपन्नमिति भावः ।।