तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ।। १७ ।।
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ।। १७ ।।
भाष्यम्
अपरोक्षज्ञानाव्यवहितसाधनमाह– तद्बुद्धय इति ।। १७ ।।
भावप्रदीपिका
नन्वपरोक्षज्ञानादेव तत्त्वदृष्टेः, अपरोक्षज्ञानस्य च परोक्षज्ञानेन सम्भवात् किमर्थं तद्बुद्धित्वाद्युच्यते ? इत्यत आह– अपरोक्षेति ।। परोक्षज्ञानस्यापरोक्ष-ज्ञानसाधनत्वेऽपि तद्बुद्धित्वादिकमन्तरङ्गसाधनतयोच्यत इत्यर्थः ।। १७ ।।
भावप्रकाशिका
ननु परोक्षज्ञानोत्पन्नमपरोक्षज्ञानं सर्वकल्मषापनोदेना-पुनरावर्तिं साधयत्येव । किं तत्र तद्बुद्धित्वादिसाधनान्तरेण ? इत्यत आह– अपरोक्षेति ।। सत्यम्, मुक्तावपरोक्षज्ञानं विना नान्यत् साधनमिति । तदुत्पत्तौ तु ध्यानादिव्यवहितपरोक्षज्ञानं विनाऽन्यदप्यस्त्यव्यवहितं साधनं तद्बुद्धित्वादिकम् । तथा हि- न सकृद्भगवत्परोक्षज्ञानेन चरितार्थाः, किन्तु पुनः तत्र बुद्धिर्येषां ते तद्बुद्धयः । स आत्मा आदानकर्ता स्वामी येषां ते तदात्मानः । न चासौ स्वामीति बुद्धिरपरं गच्छति येषामापद्यपि, अनापदि वा प्रतीकादिषु ते तन्निष्ठाः । सममेतावत् देवदैवमनुष्ययोः । अथ देवानामेव । स एव परमयनं येषां ते तत्परायणाः । तच्चक्षुराद्याश्रिता वयमिति ध्यायिन इत्यर्थः । यद्वा, स देवः परो येषां ते तत्पराः, अयनं तेषां गुर्वादित्वेन ते तत्परायणाः । ते चापरोक्षज्ञानेन निर्धूतकल्मषाः निर्धूत-पापाः, अपुनरावृत्तिं गच्छन्तीत्यर्थः ।। १७ ।।
प्रमेयदीपिका
तद्बुद्धित्वादिकं यद्यपुनरावृत्तिसाधनत्वेनोच्यते तदाऽपरोक्ष-ज्ञानादेव मोक्ष इति गतः पक्षः । अथ तद्बुद्धयो ज्ञाननिर्धूतकल्मषा इति ज्ञानसाधनत्वेन । तदसत् । ज्ञानेन इति परोक्षज्ञानस्य अपरोक्षज्ञानसाधनत्वेनोक्तत्वादित्यत आह– अपरोक्षेति ।। सत्यम् । परोक्षज्ञानम् अपरोक्षज्ञानसाधनम् । किन्तु व्यवहितम् । न हि श्रवणमननानन्तरमेवापरोक्षज्ञानमुत्पद्यते । इदं तु अव्यवहितसाधनमाह इत्यर्थः ।। १७ ।।
भावरत्नकोशः
।। अपरोक्षज्ञानादेव मोक्ष इतीति । ‘तमेवं विद्वानमृत इह भवति’ इत्यादिश्रुत्या, ‘विद्यैव तु निर्धारणात्’ इत्यादि शास्त्रैश्च सिद्धः’ इति शेषः । ज्ञानसाधन-त्वेन ‘तद्बुद्धित्वादिकमुच्यते’ इति वर्तते । परोक्षज्ञानस्येति । ‘ज्ञानेन तु तदज्ञानम्’ इत्यत्र ‘प्रथमज्ञानं परोक्षम्’ इत्यादिभाषणेन तस्यापरोक्षज्ञानसाधनत्वस्योक्तत्वेन तद्विरोधापत्तेरित्यर्थः । इदं तद्बुद्धित्वादिकम् अव्यवहितसाधनमिति ‘निदिध्यासनरूपम्’ इत्युपस्कर्तव्यम् । अत एव ‘श्रवणमननानन्तरमेव’ इत्युभयोरेवोक्तिः ।। १७ ।।
गीताक्षरार्थस्तु अपरोक्षज्ञानं प्रति परोक्षज्ञानरूपं व्यवहितं साधनमुक्तम् । इदानीं तत्प्रति अव्यवहितसाधनमुच्यते– तद्बुद्धय इति । न सकृत् परोक्षज्ञानेन चरितार्थम्, किन्तु तत्र बुद्धिर्येषां ते तद्बुद्धयः । स भगवान् आत्मा स्वामी येषां ते तदात्मानः । तन्निष्ठाः तस्मिन् परमात्मनि निष्ठा मम स्वामीति बुद्धेरनापदि आपद्यप्यचलनं येषां ते तथोक्ताः । सममेतद्देवमनुष्ययोः । अथ देवानामेव विशेष उच्यते तत्परायणा इति । स एव भगवान् परम् अयनं येषां ते तथोक्ताः । ‘चक्षुराद्याश्रिता वयम्’ इति ध्यायिन इत्यर्थः । यद्वा स एव परो येषां ते तत्पराः । ते अयनं येषां गुर्वादित्वेन ते तत्परायणाः । ते च अपरोक्षज्ञानेन निर्धूतकल्मषाः परिगतपापाः अपुनरावृत्तिं मुक्तिं गच्छन्ति इति प्राचीनटीकातोऽप्यवसेयः ।। १७ ।।
भावदीपिका
‘ज्ञानसाधनत्वेन’ इत्यनन्तरम् ‘तद्बुद्धित्वादिकं यद्युच्यते’ इत्यनुवर्तते । तथा च ‘तद्बुद्धयः’ इत्युक्तपरोक्षज्ञानवन्तोऽपरोक्षज्ञानवन्तो भूत्वा, तेन निर्धूत-कल्मषाः सन्तः, अपुनरावृत्तिं गच्छन्तीति योजना द्रष्टव्या ।। उक्तत्वादिति ।। तथा च पुनरुक्तिरिति भावः । व्यवहितसाधनत्वमुपपादयति – नहीति ।। श्रवणेति ।। गुरूपदेशे-नागमार्थावधारणाख्यपरोक्षज्ञानरूपश्रवणेत्यर्थः । ‘किन्तु ध्यानेनैव’ इति शेषः ।। इदं त्विति ।। ‘तद्बुद्धयः’ इति वाक्यम्, अपरोक्षज्ञानाव्यवहितपूर्वक्षणवृत्तिध्यानरूपं साधनमाहेत्यर्थः ।। १७ ।।
भावप्रकाशः
।। अव्यवहितसाधनमिति ।। ध्यानाख्यमिति शेषः ।। १७ ।।