लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधाऽऽयतात्मानः सर्वभूतहिते रताः ।। २५ ।।

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।

छिन्नद्वैधाऽऽयतात्मानः सर्वभूतहिते रताः ।। २५ ।।

भाष्यम्

पापक्षयाच्चैतद् भवतीत्याह– लभन्त इति ।। क्षीणकल्मषाः भूत्वा छिन्नद्वैधा यतात्मानः । द्वेधा भावो द्वैधम् । संशयो विपर्ययो वा ।।

भावप्रदीपिका

न केवलं ब्रह्मणि भूतत्वेन तज्ज्ञानम्, साधनान्तरं चास्ती-त्युत्तरश्लोकमवतारयति– पापेति ।। पापक्षयज्ञानयोः कार्यकारणभावं दर्शयति– क्षीणेति ।। ‘द्वैध’पदार्थमाह– द्वेधेति ।। तच्च किमित्यतः सप्रमाणमाह– संशय इति ।। वस्तुतत्वापेक्षया द्वितीयग्राहको विपर्ययः ।

भावप्रकाशिका

यज्ज्ञानिलक्षणमुक्तम् अन्तःसुखत्वादिकम्, तस्य कारण-विधानेन ज्ञानस्यैव कारणमुक्तम् । अथ तत्र कारणान्तरोक्तिपरत्वेनोत्तरं श्लोकमवतार्य व्याचष्टे– पापक्षयाच्चेति । ‘क्षीणकल्मषाः’ इत्यादिपदद्वयान्वयप्रदर्शनेन पापक्षयसाध्यत्वं ज्ञानस्य प्रकाशयति– क्षीणेति ।। ‘छिन्नद्वैध’पदार्थं सप्रमाणकं प्रदर्शयन्, तस्य ज्ञानस्य फलं प्रकाशयति– द्वेधेति ।।

प्रमेयदीपिका

उत्तरश्लोके ज्ञानिनो ब्रह्मप्राप्तिः पुनः किमर्थमुच्यते? इत्यत आह– पापेति ।। ब्रह्मभूतत्वेन सहास्य समुच्चयार्थश्चशब्दः । एतद् उक्तलक्षणं ज्ञानम् । अतो लभन्ते इत्यस्योपलभन्त इत्यर्थः । कथं तर्हि ज्ञानिलक्षणप्रपञ्चार्थत्वं श्लोकत्रयस्योक्तमिति । उच्यते । ज्ञानप्रतिबन्धकपापक्षयाख्यमसाधारणकारणं कार्यस्य लक्षणं भवत्येवेति । अत्र कार्यकारणभावो न प्रतीयत इत्यत आह– क्षीणेति ।। भवन्ति ततो ब्रह्मोपलभन्त इत्यर्थः । छिन्नद्वैधशब्दार्थं ज्ञापयन् द्वैधशब्दं व्याचष्टे– द्वैधेति ।। विषयापेक्षयाऽन्यप्रकारत्वम् अयथार्थत्वमिति यावत् । तेन च तद्वज्ज्ञानमुपलक्ष्यत इति भावेनाऽह– संशय इति ।। वाशब्दश्चार्थे ।।

भावदीपः

।। एतत् इत्यनुवादः, उक्तेत्यादि व्याख्या ।। अन्तर्भगवदेक-विषयकत्वादिरूपमित्यर्थः ।। अत इति ।। ज्ञानिनो भगवन्मोक्षोक्तिपरत्वादस्य श्लोकस्येत्यर्थः । आत्मानः इत्यनन्तरं भाष्ये शेषमाह– भवन्ति ततो ब्रह्मोपलभन्त इत्यर्थ इति ।। २५ ।।

भावरत्नकोशः

‘गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः’ इति ज्ञानिनो ब्रह्म-प्राप्तेरुक्तत्वादाह– पुनरिति । उक्तलक्षणकमिति । तद्बुद्धित्वादिसाधनजन्यम् अन्तःसुखत्वादि-कारणीभूतस्वरूपमिति, अन्तर्गतभगवदेकविषयत्वरूपलक्षणोपेतमिति वाऽर्थः । उपलभन्ते साक्षात्कुर्वन्ति । असाधारणकारणमिति । पापक्षयाख्यासाधारणकारणत्वं कार्यस्य ज्ञानस्या-साधारणधर्मत्वाल्लक्षणमिति युक्तं ज्ञानिलक्षणनिरूपणपरत्वमिति भावः ।

ननु प्रतिबन्धकाभावस्य कारणत्वाभ्युपगमे सिद्धान्तविरोधः । सुधायाम् ‘तर्हि दोषाभावः कारणमित्यायातमिति चेन्न । तथा सत्युत्सर्गापवादयोः क्वाप्यभावप्रसङ्गात्’ इति । विष्णुतत्त्व-निर्णयटीकायां च दोषाभावोऽपि न प्रामाण्यकारणम्, यादृच्छिकसंवादिषु सत्यपि दोषे प्रमाण-ज्ञानोदयात्’ इति प्रतिबन्धकाभावस्य कारणत्वनिरासादिति चेन्न । अत्र कारणशब्दस्य यद्घटं प्रति कुलालपित्रादिसाधारणं तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वरूपं प्रयोजकत्वम्, तन्मात्रतात्पर्य-कत्वात् ।

न च पापे सति ज्ञानानुदयः, पापक्षये तु तदुदयः

निश्शेषगतदोषाणां बहुभिः जन्मभिः पुनः । स्यादापरोक्ष्यं हि हरेः’ इति ।

ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः’

इत्यादिदर्शनात्, इत्यनन्यथासिद्धान्वयव्यतिरेकित्वात् पापक्षयः कारणमेव किं न स्यादिति वाच्यम् । क्ऌप्तकारणतद्बुद्धित्वादिरूपं ब्रह्मभूतत्वमादायैव पापाभावस्य भगवज्ज्ञानं प्रति नियत-पूर्वभावित्वग्रहणेन दण्डत्ववत्, दण्डगतदार्ढ्यवत्, ‘शक्तिः कारणतावच्छेदिका’ इति पक्षे शक्तिवत्, ‘उपस्थितेष्टभेदाग्रहः प्रवर्तकः’ इत्यत्र उपस्थितिवत्, ‘विषयत्वेन विषयजन्यं ज्ञानं प्रत्यक्षम्’ इत्यत्र विषयत्ववच्च, तद्बुद्धित्वादिनिष्ठकारणतावच्छेदकत्वमात्रेणान्वयव्यतिरेकयोरुपपत्तौ पापक्षयस्य कारणतायाः, पापक्षयत्वे कारणतावच्छेदकतायाश्च कल्पने गौरवात् ।

विष्णुतत्त्वनिर्णयटीकायां ‘दोषाभावोऽपि न प्रामाण्यकारणम्, यादृच्छिकसंवादिषु सत्यपि दोषे प्रमाणज्ञानोदयात्’ इति प्रमासामान्यं प्रति प्रतिबन्धकाभावस्य व्यतिरेकव्यभिचारोक्त्या कारणत्वखण्डनाच्च । न चैवं ‘दोषाभावस्य कारणत्वे च नास्माकमनिष्टम्, तावताऽपौरुषेयत्वा-व्याघातात्’ इति भाष्यटीकाविरोध इति वाच्यम् । अत्रत्यकारणशब्दस्य प्रयोजकत्वमात्र-तात्पर्यकत्वात् । उक्तं हि–

तस्माद्गुणेभ्यो दोषाणामभावस्तदभावतः ।

 अप्रामाण्यद्वयाभावस्तेनोत्सर्गो न चोदितः ।।’ इति ।

प्रपञ्चितं चैतत्तर्कताण्डवे प्रमायां दोषाभावस्य हेतुत्वभङ्गे ।। ‘असाधारणं कारणम्’ इत्यसाधारणपदं च न पापक्षयस्यादृष्टादिरूपप्रयोजनमात्रसाधारण्यम्, किन्तु ततोऽप्यतिशयोऽस्तीति विभावनायेति ज्ञातव्यम् । यत्तु ‘प्रतिबन्धकाभावः कारणं न’ इत्युत्सर्गः । यत्र तु ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ इत्याद्यपवादः, तत्र प्रतिबन्धकाभावस्यापि कारणत्वमस्त्येव । तथा चोत्सर्गाभिप्रायेण सुधाप्रवृत्तेरविरोध इति व्याख्यातम्, तत्तूक्तविष्णुतत्त्वनिर्णयटीकया, प्रतिबन्धका-भावस्य हेतुप्रकारचतुष्टयं खण्डयित्रा तर्कताण्डवेन च विरुद्धम् इत्यनादरणीयमेवेत्यलम् । क्त्वा-प्रत्ययनिर्वाहाय भाष्ये शेषमुक्त्वा कार्यकारणभावं स्फोरयति– भवन्ति तत इति ।।

ननु द्वेधाभावो नाम प्रकारद्वयावगाहित्वं चेत्, ‘घटो द्रव्यं पृथिवी’ इति प्रमायामतिव्याप्तम् । तत्परिहाराय ‘विरुद्धनानाप्रकारत्वम्’ इति विवक्षायां विपर्यये अव्याप्तमित्यत आह– विषयेति ।। विषयापेक्षया विषयिणि ज्ञानमात्रे ज्ञानत्वसविषयत्वाद्यन्यप्रकारत्वमस्तीति प्रमायामतिव्याप्तमित्यत आह– अयथार्थत्वमिति ।। नन्वयथार्थत्वं विशेष्यताव्यधिकरणप्रकारकत्वम्, तद् ज्ञानधर्मः, न ज्ञानिधर्मः । तत्र च कथं छिन्नत्वान्वयः । अप्रसक्तप्रतिषेधापत्तेरित्यत आह– तेन चेति ।। तद्वत् अथार्थत्ववत् । अनेन लक्षणाबीजसम्बन्ध उक्तः । ‘तदज्ञानविपर्ययौ संशयं च पराणुद्य’ इत्यादि-प्रमाणानुसारेणाह– वाशब्द इति ।।

भावदीपिका

।। उक्तेति ।। उक्ताद् ब्रह्मभूतत्वलक्षणाज्जायत इत्युक्त-लक्षणकमित्यर्थः ।। कथं तर्हीति ।। ज्ञानकारणकथनपरत्व इत्यर्थः । लक्षणम् ज्ञापकम् । असाधारणधर्मस्यापि लक्ष्यज्ञापकत्वादेव लक्षणत्वम्, एवमिहापि । यथा विशिष्टमेघोन्नतिर्वृष्टे-र्लक्षणमिति भावः । यद्वाऽसाधारणकारणकत्वं कार्यस्यैवासाधारणमिति युक्तं लक्षणत्वमित्याशयः । ज्ञानिलक्षणप्रपञ्चनार्थत्वेन प्रकृतसङ्गतिस्तु ‘पापक्षयो यस्य ज्ञानस्य कारणं तद्वान् एवंलक्षणक’ इत्युक्तरीत्या द्रष्टव्या । ‘भवन्ति’ इति भाष्येऽध्याहारः । ननु गीतायां ‘लभन्ते’ इत्यनेन पापक्षयादेर्ब्रह्मप्राप्तिसाधनत्वमेवोच्यते, न ज्ञानहेतुत्वम् इत्यतो ‘लभन्ते’ इत्यस्यार्थमाह– उपलभन्त इति ।। द्विशब्दात् प्रकारे धाप्रत्यये द्विप्रकारो द्वेधाशब्दार्थः । तत्र विपर्ययस्य द्विकोटिकत्वाभावात् कथमित्यतो ‘विषयापेक्षया’ इत्युक्तम् । धर्म्यपेक्षयेत्यर्थः ।।

भावप्रकाशः

।। पुनः किमर्थमिति ।। ‘गच्छन्त्यपुनरावृत्ति’मित्यनेन ज्ञानिनो ब्रह्मप्राप्तेरुक्तत्वात् पुनरित्युक्तम् । असाधारणकारणमिति ।। ननु प्रतिबन्धकाभावस्य कारणत्वोक्तौ सिद्धान्तविरोधः । सुधायां ‘तर्हि दोषाभावः कारणमित्यायातमिति चेन्न । तथा सति उत्सर्गापवादयोः क्वाप्यभावप्रसङ्गादि’त्यनेन प्रतिबन्धकाभावस्य कारणत्वनिरासादिति चेत् - उच्यते । प्रतिबन्धकाभावः कारणं नेत्युत्सर्गः । यत्र तु ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मण इत्याद्यपवादस्तत्र कारणत्वमेव । तथा चोत्सर्गाभिप्रायेण सुधाप्रवृत्तेः न विरोधः । अन्ये तु प्रतिबन्धकाभावस्य कारणत्वोक्तेः प्रयोजकत्वाभिप्रायकत्वान्न विरोध इत्याहुः ।।

ननु द्वेधाभावो नाम प्रकारद्वयवत्वम् । तच्च विपर्ययेऽव्याप्तमित्यत आह– विषयापेक्षयेति ।। ननु विषयापेक्षयाऽन्यप्रकारवत्वं नाम यदि तदपेक्षयाऽन्यधर्मवत्वं तदा प्रमायामतिव्याप्तिः । यदि त्वन्यप्रकारावगाहित्वं तदा विशेष्यान्यत्वविवक्षायां प्रमायामतिव्याप्तिः । प्रकारान्यत्वविवक्षायां चासम्भवः । प्रकारस्य प्रकारान्यत्वाभावादित्यत आह– अयथार्थत्वमिति ।। तर्हि संशयो विपर्ययो वेति कथमुक्तमित्यत आह– तेनेति ।। अयथार्थेच्छादिव्यावृत्त्यै ज्ञानमित्युक्तमिति बोध्यम् ।।

Load More