ओ३म् तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ।। २३ ।।
ओ३म् तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ।। २३ ।।
भाष्यम्
पुनश्च कर्मादीतिकर्तव्यताविधानार्थमर्थवादमाह– ओ३म् तत्सत् इत्यादिना ।।
भावप्रदीपिका
ननु कथं गुणभेदकथनपराध्यायेऽन्यदुच्यत इत्यत आह– पुनश्चेति । ‘अफलाकाङ्क्षिभिः’ इत्यादिना सात्त्विककर्मणः स्वरूपमुक्तम्, तदेव सेतिकर्तव्यमुच्यत इत्यर्थः ।
प्रमेयदीपिका
ॐइत्यादिकं तु प्रकृतासङ्गतं कथमुच्यते? इत्यत आह– पुनश्चेति ।। कर्म इति यज्ञ उच्यते । आदिपदेन तपोदाने । इतिकर्तव्यता इत्थम्भावः । विधानार्थं प्रतिपादनार्थम् । ‘अफलाकाङ्क्षिभिः’ इत्यादिनोक्तत्वात् ‘पुनश्च’ इत्युक्तम् । यज्ञतपोदानानां सात्त्विकत्वादि हेतवो असाधारणधर्माः प्रागुक्ताः । साधारणांस्तु वक्तुं पुराकल्पादिरूपमर्थवादमाह इत्यर्थः ।।
भावबोधः
।। इत्थम्भाव इति ।। ‘ओ३म् तत् सत्’ इतिशब्दत्रयार्थ-भगवज्ज्ञानभक्त्यादिपूर्वकं फलानभिसन्धानेन ओमादिशब्दत्रयार्थभगवन्तमुद्दिश्य ब्राह्मणैः सह यज्ञतपोदानानुष्ठानं कार्यमित्येवं यज्ञास्तदनुष्ठानोपयुक्ताङ्गकलाप इत्यर्थः । अर्थाभावे विध्यभावात् कल्प्याविध्यभिप्रायं भाष्यमिति भावेनाऽह– प्रतिपादनार्थमिति ।। प्रागुक्ता इति ।। ‘अफला-काङ्क्षिभिः’ इत्यादिनोक्ता इत्यर्थः ।। साधारणांस्त्विति ।। ज्ञानभक्त्यादिरूपानित्यर्थः ।। पुराकल्पेति ।। अनेककर्तृकचरितानुवादमित्यर्थः ।। ‘मोक्षकाङ्क्षिभिः’इति बहुवचननिर्देशादिति भावः । आदिपदेन एककर्तृकचरितानुवादाख्यपराकृतिरूपमिति गृह्यते । तेन ‘विहिताः’ इति कर्तुरेकत्वप्रतीतेरिति ज्ञेयम् ।।
भावरत्नकोशः
।। प्रकृतेति ।। गुणनिमित्तकश्रद्धादिभेदस्यैव एतदध्याय-प्रतिपाद्यत्वेन प्रकृतत्वादिति भावः । ननु कर्मण एतदध्यायेऽप्रकृतत्वात् कर्मादेरितिकर्तव्यता-प्रतिपादनं प्रकृतासङ्गतम् इत्याशङ्कापरिहाराय कर्मादिशब्दार्थमाह– कर्मेति यज्ञ इति, तपोदान इति, इत्थम्भाव इति ।। ‘ओम् तत् सद्’ इति शब्दत्रयार्थभगवज्ज्ञानभक्त्यादिपूर्वकं फलानभिसन्धानेन ओमादिशब्दार्थं भगवन्तमुद्दिश्य ब्राह्मणैः सह यज्ञतपोदानान्यनुष्ठेयानि इत्येवं वक्ष्यमाणो यज्ञाद्युपयुक्ताङ्गकलाप इत्यर्थ इति स्वामिनः । आहत्य विधिप्रत्ययादर्शनादाह– प्रतिपादनार्थमिति ।। अर्थवादकल्प्यविध्यभिप्रायं भाष्ये विधानमिति भावः ।। उक्तत्वात् फलाभिसन्धानाभावमनःसमाधानादिरूपेतिकर्तव्यताया उक्तत्वात् । तर्हि पुनरुक्तिः इत्यत आह– यज्ञतपोदानानामिति ।। सात्त्विकत्वादिहेतवः सात्त्विकत्वराजसत्वतामसत्वप्रयोजकाः । प्राक् ‘अफलाकाङ्क्षिभिः’ इत्यत्र, ‘अभिसन्धाय तु’ इत्यत्र, ‘विधिहीनमसृष्टानम् इत्यत्र च यज्ञस्य । एवं तपोदानयोरपि द्रष्टव्यम् ।
साधारणान् ज्ञानभक्त्यादिरूपान् । पुराकल्पशब्देन अनेककर्तृकचरितानुवादरूपोऽर्थवादो गह्यते । ‘ब्रह्मवादिनाम्’ इति ‘मोक्षकाङ्क्षिभिः’ इति च बहुवचनश्रवणात् । आदिपदेन ‘अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते....’ इति निन्दार्थवादग्रहः । तेनापि श्रद्धापदोपलक्षितज्ञानभक्त्यादीतिकर्तव्यताया अवश्यम्भावावगमात् । ‘तेन ब्राह्मणा वेदा यज्ञाश्च विहिताः’ इति एककर्तृकचरितानुवादरूपपरकृतिशब्दितार्थवादो वा आदिपदार्थः ।
भावदीपिका
।। प्रकृतेति ।। गुणनिमित्तश्रद्धादीनां भेदमाश्रित्य जीवस्वरूपकथनं हि प्रकृतम्, तदसङ्गतमित्यर्थः । प्रकृतसङ्गतिमुपपादयति – यज्ञेत्यादिना ।। ‘अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते’ इति यज्ञे सात्त्विकत्वहेतवः अफलाकाङ्क्षिकृतत्व-विधिदृष्टत्वादयोऽसाधारणधर्मा उक्ताः । ‘श्रद्धया परया तप्तम्’ इति तपसि सात्त्विकत्वहेतुभूतः परश्रद्धावत्कृतत्वरूपोऽसाधारणधर्म उक्तः । ‘दातव्यमिति यद्दानं दीयतेऽनुपकारिणे’ इति दाने सात्त्विकत्वहेतुभूतोऽनुपकारिणं प्रति दातव्यमिति बुद्ध्या देयत्वरूपोऽसाधारणधर्म उक्त इत्यवधेयम् । साधारणान् ‘ओं तत्सत्’ इत्यादींश्च । ‘विहिताः पुरा’ इत्यनेन पुराकल्पः । आदिपदेन ‘क्रियन्ते मोक्षकाङ्क्षिभिः’ इत्यादिनोच्यमाना परकृतिर्ग्राह्या ।।
भावप्रकाशः
ननु कर्मशब्देनैव तप आदेर्लाभसम्भवादादिपदं व्यर्थमित्यत आह– कर्मेति यज्ञ इति ।। नन्वत्र यज्ञादीनां सात्विकत्वादिप्रयोजकमुच्यते न त्वङ्गम् । तत्कथमितिकर्तव्यतेत्युक्तमित्यत आह– इत्थम्भाव इति ।। धर्म इत्यर्थः । विधिप्रत्यया-दर्शनाद्विधानार्थमिति कथमुक्तमित्यत आह– प्रतिपादनार्थमिति ।। तर्हि पुनरुक्तिरित्यत आह– यज्ञतपोदानानामिति ।। पुराकल्पादीति ।। आदिपदेन ‘अश्रद्धया हुतम्’ इति निन्दासङ्ग्रहः ।