योऽन्तस्सुखोऽन्तरारामस्तथाऽन्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ।। २४ ।।
योऽन्तस्सुखोऽन्तरारामस्तथाऽन्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ।। २४ ।।
भाष्यम्
ज्ञानिलक्षणं प्रपञ्चयत्युत्तरश्लोकैः । आरामः परदर्शनादिनिमित्तं सुखम् । अत्र तु परमात्मदर्शनादिनिमित्तं तत् । सुखं तूपद्रवक्षये व्यक्तम् । अत्र तु कामादिक्षये व्यक्तमात्मसुखम् । स्वयञ्ज्योतिष्ट्वाद् भगवतः ।।
भावप्रदीपिका
ननु यदर्थं संन्यासयोगावावश्यकौ तज्ज्ञानं किंलक्षणमित्या-शङ्क्य, उत्तरश्लोकमवतारयति– ज्ञानीति । तत्र ‘आराम’‘सुख’शब्दौ सामान्यविशेषाभ्यां व्याचष्टे– आराम इति । ‘अन्तर्ज्योतिः’ इत्येतद्व्याचष्टे स्वयंज्योतिष्ट्वादिति ।
भावप्रकाशिका
यावत्पर्यन्तं मुमुक्षुणाऽवश्यकर्तव्यौ संन्यासयोगौ, अन्यथा न मुक्तिः, यत ऊर्ध्वं सिद्धेऽपि मोक्षे आनन्दवृद्ध्या एव क्रियते, तद्वतः किं लक्षणमित्या-काङ्क्षोत्तरत्वेनोत्तरं श्लोकमवतार्य व्याचष्टे– ज्ञानीति । ‘आराम’शब्दार्थं साधारणं प्रस्तुतं चाह– आराम इति । ‘सुख’शब्दार्थमपि तथैवाह– सुखं त्विति । अनन्यापेक्षद्युति-स्वरूपत्वात् स्वयंज्योतिर्भगवान् । ततोऽसौ स्वयमेवान्तर्व्यक्तो यस्य सोऽन्तर्ज्योतिः । नत्व-नन्यापेक्षद्युतिस्वरूपान्तरपदार्थज्ञानमात्रज्ञानीति भावेनान्तर्ज्योतिपदं व्याचष्टे– स्वयमिति ।।
प्रमेयदीपिका
ननु योगिनो ब्रह्माधिगतिः प्रागुक्ता (२.७०)। तत् किं पुन-रुच्यते? इत्यत आह– ज्ञानीति ।। द्वितीये कथितत्वात् (२.७०) प्रपञ्चयति इत्युक्तम् । यथा योगस्याधिक्यकथनं योगनिरूपणमेव, सन्न्यासार्थे निन्दास्तुती च सन्न्यासनिरूपणमेव । तथा ज्ञानिलक्षणकथनं च ज्ञानिनिरूपणमिति ।। आरामशब्दार्थं तावदाह– आराम इति ।। इदानीमन्तरारामशब्दलब्धमर्थमाह– अत्र त्विति ।। तत् सुखम् । एवं तर्हि अन्तस्सुखः इत्यनेनैव गतार्थमेतदित्याशङ्क्य सुखशब्दस्य तावदर्थभेदमाह– सुखं त्विति ।। व्यक्तमात्म-सुखमिति सम्बन्धः ।।
तर्हि अन्तस्सुखः इति कथम्? इत्यतस्तल्लब्धार्थमाह– अत्र त्विति ।। अनेनारामसुख-शब्दार्थान्तर्गतयोः परोपद्रवक्षययोः ‘अन्तः’ इत्येतत् सामर्थ्याद्विशेषणमित्युक्तं भवति ।। ज्योतिःशब्दार्थं तावदाह– स्वयमिति ।। ‘ज्योतिष्ट्वम्’ इति शेषः ।।
भावबोधः
।। परेत्येतद्दर्शनविषयप्रदर्शनार्थं स्वरूपकथनम् । एतदभिप्रायेणैव टीकायामारामशब्दार्थान्तर्गतत्वं परस्योक्तम् । नतु तच्छब्दार्थान्तर्गतत्वं परस्य । तथात्वे परेत्येतत्स्वरूपकथनमिति प्रागुक्तविरोधात् । ‘दर्शनस्पर्शसम्भाषादित्याद्यभिधानविरोधाच्चेति ज्ञातव्यम् ।।
भावदीपः
।। प्रागुक्तेति ।। ‘योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति’ (५.६) इत्यत्रोक्तेत्यर्थः ।। कथितत्वादिति ।। ‘प्रजहाति यदा कामान्’ (२.५५) इत्यादिनेति योज्यम् ।। ननु ‘सन्न्यासयोगज्ञानानि प्रपञ्चयत्यध्यायशेषेण’ इत्युक्तम् । तथाच ज्ञानिलक्षणोक्तिः कथं सङ्गता? इत्यत आह– यथेति ।। ‘बाह्यस्पर्षेषु’ (५.२१) इत्यनेन योगाधिक्यकथनं ‘ये हि संस्पर्शजाः’ ‘शक्नोतीहैव’ (५.२२,२३) इत्यादि श्लोकद्वयेन क्रमात् कामभोगनिन्दातत्त्यागस्तुतीत्यर्थः ।। ‘तत्’ इत्यनुवादः, ‘सुखम्’ इति व्याख्या ।।
आरामसुखशब्दार्थान्तर्गतयोरिति ।। ‘परदर्शनादिनिमित्तं सुखमारामः’ इति, ‘उपद्रवक्षयव्यक्तं तु सुखम्’ इति आरामसुखशब्दार्थान्तर्गतयोः पर इति उपद्रव इति विशेषणयोः ‘अन्तः’ इत्येतद् योग्यतावशाद् विशेषणम् । अन्तःस्थितो यः परः, अन्तःस्थितो यः कामाद्युपद्रव इत्येवमित्यर्थः । अत्र परत्वस्यारामशब्दार्थान्तत्वोक्तिरभ्युपगमवादेन । दर्शनजसुखस्यैव आरामशब्दार्थत्वस्याग्रतनाभिधाने व्यक्तत्वात् । द्वितीये ‘यत्स्वात्मरतिरेव’ इत्यत्र परेति स्वरूपकथनम् इति भाष्यार्थाक्तोश्चेति ज्ञेयम् । इदानीमिति तात्पर्योक्त्यनन्तरं ‘सर्वेषाम्’ इत्यादिना प्रयोजनमुच्यत इत्यर्थः ।।
भावरत्नकोशः
।। प्रागुक्तेति । ‘योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति’ इत्यत्रोक्तेत्यर्थः । सामान्यत उक्तस्य विस्तृत्य वर्णनं हि प्रपञ्चनम् । न च ज्ञानिलक्षणमत्राध्याये प्रागुक्तम् । अतः कथं ‘प्रपञ्चयति’ इत्युक्तमित्यत आह– द्वितीय इति ।। ‘प्रजहाति यदा कामान्’ इत्यादिना इति शेषः । ननु ‘संन्यासयोगज्ञानानि मेलयित्वा प्रपञ्चयति’ इत्यध्यायशेषप्रतिपाद्योऽर्थो भाषितः । ज्ञानिलक्षणं च न तृतीयान्तर्गतम् इति तत्कथनं कथं न विप्रतिषिद्धमित्यत आह– यथेति ।। ‘बाह्यस्पर्शेषु’ इति योगस्याधिक्यकथनम्, ‘ये हि संस्पर्शजाः’ ‘शक्नोतीहैव’ इति श्लोकद्वयेन कामभोगनिन्दातत्परित्यागस्तुती च तादर्थ्यात् तत्प्रपञ्चनमेव यथेत्यर्थः । ‘अतो नास्य प्रकृतासङ्गतिः शङ्क्येति भावः’ इति शेषः । ‘परदर्शनादि’ इति भाष्ये आदिशब्देन स्पर्शसम्भाषणे ग्राह्ये । परदर्शनादिनिमित्तं परदर्शनादिनिमित्तकम् । ‘तत्’ इत्यनुवादः । ‘सुखम्’ इति व्याख्या । एवं तर्हि आरामशब्देन सुखग्रहणे । इति सम्बन्ध इति । तथा च व्यक्तमात्मसुखमेव ‘अन्तःसुख’ इत्यत्र सुखशब्देन विविक्षितमिति न गतार्थमिति भावः । इति कथमिति । आत्मसुखस्यान्तरत्वा-व्यभिचाराद् व्यर्थम् ‘अन्तः’ इति सुखविशेषणमिति भावः ।
आरामसुखशब्दार्थान्तर्गतयोरिति । ‘परदर्शनादिनिमित्तकं सुखम्’ इत्यारामशब्दार्थान्तर्गतस्य परस्य, ‘उपद्रवक्षये व्यक्तमात्मसुखं सुखशब्दार्थः’ इति सुखशब्दार्थान्तर्गतस्योपद्रव्यस्य च ‘अन्तः यः परः’, ‘अन्तः यः उपद्रवः’ इत्येवम् ‘अन्तः’ इत्येतद्विशेषणम् । ‘नामार्थस्य नामार्थेनैवान्वयः, न तु तदेकदेशेन’ इति नियमात् कथमेतदित्यत उक्तम्– सामर्थ्यात् योग्यताबलाद् इति ।। ‘चैत्रनप्ता’ इत्यादौ चैत्रस्य पुत्रेणान्वयस्य सर्वसम्मततयोक्तनियम एवासिद्ध इति भावः । न च ‘रमणं परदर्शनादिनिमित्तं सुखम्’ इति तृतीयभाष्यव्याख्याऽवसरटीकायाम् ‘पर’ इति स्वरूप-कथनम्, न शब्दार्थान्तर्भूतम् इत्युक्तम् । अत्र तु ‘पर’ इत्यारामशब्दार्थान्तर्गतम् इत्युच्यत इति कथं विप्रतिषिद्धमुच्यत इति वाच्यम् । दर्शनजन्यसुखमेवाराम इति आरामशब्दार्थान्तर्गत-दर्शनविषयप्रदर्शनपरतया परिचायकरूपत्वाभिधानरूपं स्वरूपकथनं यत् ‘पर’ इति, तस्य ‘अन्तः’ इत्येतत् सामर्थ्याद्विशेषणम् इत्यभिप्रायात् । तृतीयटीकायाश्च सुखे ‘दर्शनादि’ इव ‘पर’ इत्येतदपि नाऽहत्य प्रविष्टमिति तात्पर्यादिति ।
भावदीपिका
।। कथितत्वादिति ।। ‘प्रजहाति इत्यादिना’ इति शेषः । संन्यासादित्रितयकथनान्तर्भावं ज्ञानिलक्षणकथनस्योपपादयितुमाह– यथेत्यादिना ।। कथमिति ।। ‘अन्त’ इत्येतद्व्यर्थम् । सुखस्यान्तस्थत्वाव्यभिचारादिति भावः ।। आरामसुखशब्दार्थान्तर्गतयो-रिति ।। अत्र भाष्ये दर्शनजन्यसुखमेवारामशब्दार्थः । ‘पर’ इत्येतद्दर्शनविषयप्रदर्शनार्थं स्वरूप-कथनम् । एतदभिप्रायेणैव परस्यारामशब्दार्थान्तर्गतत्वमुक्तं टीकायाम्, न तु तच्छब्दार्थान्तर्गतत्वं परस्य । तथात्वे ‘पर इत्येतत् स्वरूपकथनम्’ इति प्रागुक्तविरोधापत्तेः, ‘दर्शनस्पर्शसम्भाषात्’ इत्यभिधानविरोधाच्चेति ज्ञातव्यम् ।। अन्तरित्येतदिति ।। तथा चान्तःस्थितं यत्परं ब्रह्म तद्दर्शनादि-निमित्तं सुखम् आरामः । तथाऽन्तःस्थिता ये कामाद्युपद्रवास्तत्क्षये व्यक्तं यत्सुखं तदेव सुख-शब्देनोच्यत इत्यर्थो द्रष्टव्यः । परोपद्रवयोः ‘अन्त’ इत्येतद् विशेषणमिति कुत इत्यत उक्तम्– सामर्थ्यादिति ।। आकाङ्क्षापूर्तिरूपाद् योग्यतारूपाच्च सामर्थ्यादित्यर्थः ।
भावप्रकाशः
।। प्रागुक्तेति ।। योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छतीत्यत्रोक्ते-त्यर्थः । द्वितीय इति ।। ‘प्रजहाति यदा’ इत्यादिनेति शेषः । नन्वेवं सति सन्न्यासयोगज्ञानानि प्रपञ्चयतीति प्रागुक्तविरोध इत्यत आह– यथेति ।। अन्तःसुख इति कथमिति ।। सुखस्यान्तः-स्थत्वाव्यभिचाराद् ‘अन्त’रिति व्यर्थमित्यर्थः । आरामसुखशब्दार्थान्तर्गतयोरिति ।। नच ‘पर’ इत्यस्यारामशब्दार्थत्वमयुक्तम् । ‘पर’ इत्येतत्स्वरूपकथनमिति प्रागुक्तविरोधात् । अभिधान-विरोधाच्चेति वाच्यम् । आरामशब्दार्थान्तर्गतदर्शनविषयप्रदर्शनार्थं स्वरूपकथनं यत्‘पर’ इति तस्य‘अन्त’रिति विशेषणमित्यभिप्रायात् । विशेषणमिति ।। अन्तर्यः पर इति आन्तर्योपद्रव इति विशेषणमित्यर्थः । ननु ‘नामार्थस्य नामार्थेनैवान्वयो नत्वेकदेशेन’ इति नियमात् कथमन्त-रित्यस्यैकदेशान्वय इत्यत उक्तम्– सामर्थ्यादिति ।। योग्यत्वादित्यर्थः । चैत्रस्य नप्तेत्यादौ व्यभिचारादुक्तनियम एवासिद्ध इति भावः । ननु तर्हि शाब्दबोध आर्थिकबोधश्चेति बोधद्वयमापन्न-मित्यत आह– यद्वेति ।।