श्रीमद्भगवद्गीताभाष्यम्

।। श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकश्रीलक्ष्मीहयग्रीवाय नमः ।।

श्रीश्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं

श्रीमद्भगवद्गीता भाष्यम्

भाष्यम्

देवं नारायणं नत्वा सर्वदोषविवर्जितम् ।

परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि लेशतः ।।

श्रीपद्मनाभतीर्थकृता गीताभाष्यटीका

भावप्रदीपिका

गुणगणनिलयं प्रणम्य कृष्णं जगदघहननं च वासवीसूनुम् ।

गुरुकुलतिलकं सुपूर्णबोधं गुरुमपि विवृणोमि गीतिकाभाष्यम् ।।

श्रीमद्भगवद्गीतां व्याख्यातुकामो भगवानाचार्यः स्वेष्टदेवतात्वेन गुरुत्वेन च नारायणं नत्वा ग्रन्थारम्भं प्रतिजानीते– देवमिति ।। ‘आन् विष्णून्’ इति बहुवचनं गुरुत्वाभिप्रायेण । ‘मुख्यस्य निर्विशेषेण शब्दः’ इति वचनात् गीतेति भगवद्गीतोच्यते ।।

श्रीनरहरितीर्थविरचिता गीताभाष्य

भावप्रकाशिका

देवोऽपि द्योतनाद्यः सुररिपुविजयादुच्चकान्त्या स्तुतोऽयं

देवैस्तैरात्मभक्तैर्व्यवहितकरणात् सर्वगत्या च रत्या ।

सर्वैर्दोषैर्विहीनस्त्वमितगुणतनुः सर्वसामर्थ्यपूर्णः

श्रीमन्नारायणस्तं श्रुतिनुतिपरमं कृष्णगीतं नमामि ।। १ ।।

क्षीराब्धेरेत्य तीरं विधिहरमुखराशेषदेवेशनुत्या

प्रीतः प्राप्तः क्षितिं यः स्वखिलगुणतनुः भारतं भारताद्यः ।

चक्रे चक्राब्जलक्ष्मारुणकरचरणस्तं बदर्यां मुनीन्द्रैः

सेव्यं ब्रह्मादिविद्भिर्दशसुमतिगुरुं व्यासमीशं नमामि ।। २ ।।

तस्माच्छ्रुत्वा शुकान्तर्गतवरवपुषा भारतीड्यो सुविद्या-

माद्यां वायुः प्रधानः प्रधनमुपगतान् हन्ति विष्णुद्विषो यः ।

वाचा यद्वत् स्वदोष्णा स पुनरिह कलौ कृष्णगीतासुभाष्यं

चक्रे भूचक्रगस्तं शरणमहमगां श्रीमदानन्दतीर्थम् ।। ३ ।।

तत्कारुण्याप्तविद्याः सुभरितहरितः पद्मनाभार्यतीर्था-

दित्या यत्सम्भवन्तो हरिचरणगता मायिदैत्यान् क्षिपन्ति ।

तत्पादाब्जे प्रणम्य प्रणतसुसुखदे कृष्णगीतासुभाष्यं

व्याख्यास्ये तत्प्रसादान्मम मतिममलास्ते प्रसन्नाः पुनन्तु ।। ४ ।।

श्रीमद्भगवद्गीताभाष्यमारभमाणो भगवानाचार्यः तत्प्रतिपाद्यलक्षणं श्रीभगवन्तं नारायण-मिष्टदेवतां परां नमस्कृत्य, तत्प्रणेतृत्वात्, साक्षात्स्वोपदेष्टृत्वात्, हृद्गतत्वेन सर्वविद्या-प्रवर्तकत्वेन गुरुत्वेनापि तमेव श्रीबादरायणं पृथङ्नमस्कृत्य ग्रन्थारम्भं प्रतिजानीते– देवमिति ।। सर्वदाऽपि भगवत्प्रवणान्तःकरणैः कार्यविशेषात् पृथग्विशेषात् क्रियते । तत्कथनं सदाचारपरिपालनाय । आन् इति गुरुविशेषणम् । अकारवाच्यान् विष्णूनित्यर्थः । गीतेति कृष्णगीतैव उच्यते । तथा ‘मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः’ इति ।। तन्मुख्यत्वं च सर्वलोकसिद्धम् ।।

श्रीजयतीर्थमुनिविरचिता

प्रमेयदीपिका

गुणगणनिलयं पतिं रमायाः जगदघदहनं च वासवीसूनुम् ।

मुनिकुलतिलकं च पूर्णबोधं गुरुमपि परमं गुरुं च मे वन्दे ।। १ ।।

आनन्दतीर्थभगवत्पादाचार्यविनिर्मितम् ।

व्याख्यास्ये भगवद्गीताभाष्यं तत्करुणाबलात् ।। २ ।।

श्रीरघूत्तमतीर्थप्रणीता भावबोधाभिधा टिप्पणी

भावबोधः

नत्वा श्रीशं मध्वमुनिं जयार्यं गुरोर्गुरुं गुरुमप्यादरेण ।

श्रीमद्गीताभाष्यटीकासुभावं वक्ष्ये शक्त्या गुरुशिक्षानुसारात् ।।

श्रीमद्गीताभाष्यं व्याचिख्यासुर्जयतीर्थश्रीमच्चरणो विघ्नविघातादिप्रयोजनं स्वेष्टदेवतानमनरूपं मङ्गलमादावाचरति– गुणगणनिलयमिति ।। वासवीसूनुं चेति पूर्णबोधं चेति आद्यद्वितीयच-शब्दसम्बन्धः । रमापतौ वासवीसूनौ च प्रथमविशेषणसमुच्चयार्थश्चाद्यश्चशब्दः । वेदव्यासस्य रमापतित्वेऽपि व्याचिख्यासितभाष्यमूलभूतगीताकर्तृत्वेन पृथङ्नमनमिति ज्ञातव्यम् । रमापतिं वासवीसूनुमित्यनयोरेकं विशेषणमेकं विशेष्यमिति वा । ग्रन्थारम्भकाले सकलवाङ्मनस-नियामिकाया रमाया वन्दनेन भाव्यम् । तस्य च पृथक् कर्तुमयोग्यत्वाद्रमाया इत्युक्तम् ।।

श्रीराघवेन्द्रतीर्थविरचितः

भावदीपः

लक्ष्मीनारायणं नत्वा तथा मध्वादिदेशिकान् ।

प्रमेयदीपिका

भावदीपं कुर्यां यथामति ।। १ ।।

ग्रन्थादौ मङ्गलमाचरति– गुणगणेति ।। गुणगणपदेन ज्ञानानन्दबलौदार्यद्युतिप्रभृतयो भावधर्माः जरामरणाद्यभावरूपधर्माश्च गृह्यन्ते । प्रतिपाद्यदेवताया रमापतेः, गीताकर्तुर्व्यासस्य, भाष्यकर्तुः पूर्णबोधस्य च वन्द्यत्वोपपादनाय प्रत्येकं ‘गुण’ इत्यादि त्रीणि विशेषणानि । कृष्णार्जुनसंवादव्याजेन परापरतत्त्वोपदेशेन जगच्छब्दितसाधुलोकपापहारिणमित्यर्थः । मे गुरुम् अक्षोभ्यतीर्थम् । परमं गुरुं माधवतीर्थम् । चापिशब्दाः वन्द्यानामन्योन्यसमुच्चये ।।

व्याख्याने बीजं वदन् चिकीर्षितं प्रतिजानीते– आनन्दतीर्थेति ।। ‘भगवत्पाद’ इत्युक्त्या तत्कृतस्यात्युपादेयत्वं व्याख्यानबीजं सूचितम् ।।

श्रीपाण्डुरङ्गिकेशवाचार्यविरचितः

व्याकरणार्थस्पृष्टप्रमेयदीपिका

वाक्यार्थप्रदीपः

।। श्रीवेदव्यासाय नमः ।। श्रीगुरुराजो विजयतेतराम् ।।

यद्विद्याधीशगुरोः शुश्रूषान्या न रोचते तस्मात् ।।

अस्त्वेषा भक्तियुता श्रीविद्याधीशपादयोः सेवा ।। १ ।।

गुणगणनिलयमिति ।। गुणगणाश्रयत्वाद् गुणगणनिलयमित्यर्थः । निर् निश्चितमयते प्रवर्ततेऽस्मिन्निति । निरुपपदादयतेः अधिकरणपुंसि संज्ञायां घः प्रायेणेति घप्रत्ययः । नन्वेवं निरय इति स्यान्नतु निलय इति । ‘कृपो रो ल’ इति विशेषस्मरणेनात्र लत्वासम्भवात् । न चोपसर्गस्यायताविति सूत्र उपसर्गस्याप्ययतौ परे लत्वविधानादत्र तदुपपत्तिरिति वाच्यम् । निस्दुस् इत्येतयोः सान्तयोरुपसर्गयो रुत्वस्यासिद्धत्वाल्लत्वाप्राप्तिरिति वृत्तावुक्तत्वेनात्र उपसर्गस्यायतावित्यनेनापि लत्वाप्राप्तेरिति चेत् न । ‘रो ल’ इति योगविभागात्तदुपपत्तेः । तदुक्तं सुधायाम्– ‘रो ल इति योगविभागाल्लत्वम्’ इति । न च योगविभागाश्रयणेऽपि न लत्वसम्भवः । ससजुषोरुरिति रुत्वस्य पूर्वत्रासिद्धमिति लत्वं प्रत्यसिद्धत्वादिति वाच्यम् । योगविभागस्येष्टसिद्धार्थत्वेन तत्सामर्थ्येन रुत्वस्यासिद्धत्वाभावस्यापि सिद्धत्वात् । अन्यथा योगविभागाश्रयणानर्थक्यापातात् ।।

ननु निरिति रेफान्त उपसर्ग एवायम् । तस्य चोपसर्गस्यायतावित्यनेनैव लत्वसिद्धेरनर्थकं योगविभागाश्रयणम् । नच सान्तव्यतिरेकेण रेफान्त उपसर्ग एव नास्ति । तत्कथं तदाश्रयणे-नोक्तनिर्वाह इति वाच्यम् । ‘निरः कुषः’ इति सौत्रनिर्देशानुसारेण रेफान्तस्यापि तस्याकर एव स्थितत्वात् । यथोक्तम्–‘निरः कुष’ इति सूत्रव्याख्यानावसरे निसिति वक्तव्ये निरिति निर्देशेन रेफान्तमप्युसर्गान्तरमस्तीति ज्ञायते । तस्य च निलयनमिति उपसर्गस्यायताविति लत्वं भवति । निसो हि रुत्वस्य सिद्धत्वाल्लत्वं न स्यादिति । उक्तं च हरदत्तेन ‘उपसर्गस्यायतौ’ इति सूत्र-व्याख्यावसरे सकारान्तपरोऽयं ग्रन्थः । रेफान्तयोस्तु भवितव्यमेव लत्वेनेति । उक्तं च नव्येनापि । निरःकुषः सुदुरोरधिकरण इत्यादि निर्देशात् रेफान्तावप्युपसर्गौ स्तः । तयोस्तु भवितव्यमेव लत्वेनेति । तत्किमर्थं योगविभागाश्रयणमिति चेदुच्यते । प्रादिषु निस्दुसिति सान्तयोरेव पाठात् । तथा ‘निसस्तपतावनासेवन’ इति सान्ततया सौत्रनिर्देशात् । ‘अयोग-वाहानामविशेषण’ इति प्रकरणे निष्कृतमित्युदाहृत्य, ‘इगुपधस्य सकारस्य यो विसर्जनीय’ इति भाष्यकारोक्तेः, ‘उपसर्गस्यायतौ’ इति सूत्रे निस्–दुस् इत्येतयोः रुत्वस्यासिद्धत्वात् ‘निरयणं दुरयणमित्यत्र लत्वं न भवति’ इति वामनोक्तेश्च, सान्त एवायमुपसर्गः । ‘निरःकुष’ इति ‘सुदुरोरधिकरण’ इति रेफान्तयोरनयोः सौत्रनिर्देशेऽपि प्रादिष्वपाठात्, भाष्यकारा-नभिमतेश्च, न रेफान्तत्वमाश्रयितुमुचितम् । सौत्रनिर्देशस्त्वेकमुनिनिर्देशतया मुनिद्वयनिर्देशानु-सारेण छान्दस एव । हरदत्ताद्युक्तिस्तु भाष्यविरोधादयुक्तैवेत्यभिप्रायकत्वाद्योगविभागाश्रयण-स्यादोषत्वादिति । यद्वा निपूर्वात् लीङ् श्लेषण इत्यस्मात् निलीयतेऽस्मिन्निति अधिकरणेे घप्रत्यये सार्वधातुकेति गुणेऽयादेशे सति निलयशब्दनिष्पत्तिरिति द्रष्टव्यम् ।।

श्रीसुमतीन्द्रतीर्थविरचितः

भावरत्नकोशः

श्रीमन्तो जानकीजानेः पदपङ्कजपांसवः ।।

जयन्ति सीतावक्षोजकुङ्कुमश्रीविडम्बिनः ।। १ ।।

येनाखण्डि मुदैव खण्डपरशोरुद्दण्डकाण्डासनं

भूदेवीतनयाऽप्यलाभि सरसैरङ्गैरपाङ्गैरपि ।

सद्धर्मद्युतिहर्म्यनिर्मितलसन्नर्मोत्थशर्मोदयः

श्रीरामो मम मानसे विलसतात् सीतासहायस्सदा ।। २ ।।

सज्जनाम्भोरुहपुषे वेदव्यासाभिधाजुषे ।

तमस्तोममुषे तस्मै परस्मै ज्योतिषे नमः ।। ३ ।।

आमोदं यो व्यतानीद् रघुकुलतिलके सेवया श्रीहनूमान्

भीमात्मा कृष्णदेवे प्रबलधरणिपव्याजवैरीन्द्रहत्या ।

मध्वाख्यो ब्रम्हसूत्रप्रभृतिकृतिकृतान्योक्तभाष्यादिकृत्या

श्रीवेदव्यासदेवे स दिशतु सुदृशं श्रीमदानन्दतीर्थः ।। ४ ।।

यस्मादभ्युदगाद् दशप्रकरणीमन्दारवल्ली मणि-

श्रेणीमेयसुदीपिकादिकृतिरास्वाद्या बुधैस्सा सुधा ।

वादावल्यमृतांशुमूर्तिरमला तत्त्वप्रकाशेन्दिरा

भूयाच्छ्रीजयतीर्थदेशिकपयोम्भोधिर्विभूत्यै स मे ।। ५ ।।

श्रीमध्वशास्त्रदुग्धाब्धिमामथ्योद्धृतमादरात् ।

ग्रन्थत्रयामृतं येन व्यासराजं तमाश्रये ।। ६ ।।

श्रीराघवेन्द्रतीर्थश्रीचरणामरभूरुहम् ।

कामिताखिलकल्याणकलनोन्मुखमाभजे ।। ७ ।।

भूरिमनीषागमचितकरणान् श्रीजयतीर्थव्रतिकृतिशरणान् ।

सन्ततमीडे सुचरितवरणान् वेङ्कटनारायणगुरुचरणान् ।। ८ ।।

अथ तत्कृपया श्रीमज्जयतीर्थार्यनिर्मिताम् ।

श्रीमद्गीताभाष्यटीकामहं सेवे यथामति ।। ९ ।।

श्रीमान् जयतीर्थार्यवर्यः प्रारिप्सिताविघ्नपरिसमाप्त्यादिप्रयोजनं विशिष्टेष्टदेवतागुरुप्रणामरूपं मङ्गलं ग्रन्थादौ निबध्नाति– गुणगणेति ।। देवतावन्दनानन्तरं गुरुतारतम्यसीमानं वेदव्यासं वन्दते– वासवीसूनुमिति ।। वसोरपत्यं स्त्री वासवी सत्यवती । तस्यास्सूनुं सुतं वेदव्यास-मित्यर्थः । जगदघदहनं तत्त्वोपदेशेन सल्लोकमोक्षदमिति यावत् । चशब्दो गुणगणनिलयत्वस्य रमापतित्वस्य चानुकर्षणार्थः । पूर्णबोधं सर्वज्ञार्यम् । मे मम । गुरुम् अक्षोभ्यतीर्थम् । परमं गुरुं माधवतीर्थम् । इदं च पद्यं भाष्याद्यपद्यत्रिपादीव्याख्यानरूपम् । गुणगणनिलयमिति परिपूर्णपदस्य, रमायाः पतिमिति नारायणपदस्य, जगदघदहनमिति सर्वदोषविवर्जितपदस्य, वासवीसूनुमिति आनितिपदस्य, गुरुमपि परमं गुरुमिति गुरूनित्यस्य, वन्द इति नत्वेत्यस्य च स्पष्टीकरणात् । सकलवाङ्मनसदेवतायाः श्रीदेव्या ग्रन्थारम्भकाले वन्दनीयत्वात् पृथग् वन्दन-स्यानुचितत्वात् तद्वन्दनमपि भगवदुपसर्जनत्वेन कर्तव्यमिति दर्शयितुं रमायाः पतिमित्युक्तम् । व्याचिख्यासितभाष्यमूलभूतगीताकर्तृत्वेन मूलगुरुत्वेन च वासवीसूनुर्वन्दितः ।।

भाष्ये देवतागुरुप्रणामानन्तरं चिकीर्षितप्रतिज्ञादर्शनात् टीकाकारोऽपि स्वव्याख्येयभाष्य-प्रामाण्यादिकं सूचयंश्चिकीर्षितं प्रतिजानीते– आनन्दतीर्थेति ।। अत्र भगवत्पदेन भाष्यकारस्य विवक्षितार्थतत्त्वज्ञानाद्युक्त्या तत्प्रोक्तत्वेन भाष्यस्य प्रामाण्यं सूचितम् । गीताभाष्यमित्युक्त्या च गीताविषयाद्येवास्यापि विषयादीत्यपि । व्याख्यास्य इत्यत्र चक्षिङः ख्यादेशे तस्य ञित्वाद् व्याख्यानफलस्य पुण्यादेः कर्तृगामित्वाच्च आत्मनेपदम् । ‘स्वरितञितः कर्त्रभिप्राये क्रियाफले’ इत्युक्तेः । अत एव ख्याधातोः परस्मैपदित्वात् सार्वधातुकमात्रविषयत्वस्य वैयाकरणैरुक्तत्वाच्च कथं व्याख्यास्य इति प्रयोग इति निरस्तम् । तत्करुणाबलात् आनन्दतीर्थभगवत्पादाचार्य-करुणाबलादिति वदन् सर्वप्रज्ञप्रणीतभाष्यव्याख्याने स्वस्य सामग्रीसम्पत्तिमभिसन्धत्ते ।।

श्रीनिवासतीर्थविरचिता

भावदीपिका

नमामि तर्काभयचक्रशङ्खपाणी सदा मध्वकराभिपूज्यौ ।

श्रीव्यासकृष्णौ परिपूर्णबोधांस्तथा जयार्यानितरान् गुरूंश्च ।।

वेदेशयोगिनं वन्दे यादवार्यगुरोर्गुरुम् ।

छान्दोग्यभाष्यटीकायाः कर्तारमहमादरात् ।।

अध्यात्मदर्शने दक्षान् शापानुग्रहयोः पटून् ।

कृष्णनाम्नः पितॄन् वन्दे कृष्णपादाब्जदर्शिनः ।।

श्रीमन्न्यायसुधाया यैर्भावः सम्यक् प्रकाशितः ।

तान् वन्दे यादवाचार्यान् सदा विद्यागुरून् मम ।।

अथैतत्कृपया श्रीनिवासाख्यायुतसूरिणा ।

गीताभाष्यस्य टीकायाः क्रियते भावदीपिका ।।

बुधैरपि सुदुर्बोधे ग्रन्थे यन्मम साहसम् ।

तत् पारयन्तु निपुणा गुरुपादरजःकणाः ।।

सर्वज्ञकल्पाष्टीकाकारा जयतीर्थश्रीचरणाः श्रीमद्गीताभाष्यं यथावद् व्याख्यातुकामा विघ्न-विघातादिप्रयोजनं स्वेष्टदेवताया लक्ष्मीपतेस्तथा मूलगुरोरादिगुरोः परमगुरोः स्वगुरोश्च वन्दन-रूपमङ्गलं कृत्वा शिष्यशिक्षायै ग्रन्थादावुपनिबध्नन्ति– गुणगणनिलयमिति ।। वाङ्मनस-व्यापाररूपग्रन्थारम्भसमये सकलवाङ्मनसदेवताया रमाया वन्दनस्यावश्यं कर्तव्यत्वात् पृथग् वन्दनस्य च ‘क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्’ इत्यादिनोत्तरत्र भगवता निराकरणा-न्नारायणविशेषणत्वेनैव सा वन्दनीयेति सूचयितुं रमायाः पतिमित्युक्तम् ।। वासवीसूनुमिति ।। वसोरपत्यं स्त्री वासवी सत्यवती, तत्सूनुं कानीनं बादरायणमित्यर्थः । चशब्दाद् गुणगण-निलयमिति रमापतिविशेषणस्यात्राप्यनुकर्षः । व्याचिख्यासितभाष्यमूलभूतगीताकर्तृत्वोपाधिना पृथङ्नतिरिति द्रष्टव्यम् । व्याचिख्यासितभाष्यकर्तृत्वोपाधिना पूर्णबोधान् प्रणमति– मुनीति ।। मुनिमण्डलालङ्कारभूतम् । चशब्दाज्जगदघदहनमित्यस्य विशेषणस्यानुकर्षः । परमं गुरुं श्रीपद्मनाभतीर्थश्रीचरणम् । मे गुरुम् अक्षोभ्यतीर्थश्रीचरणम् ।। १ ।।

एवं देवतादिप्रणाममाचरित्वा स्वचिकीर्षितं प्रतिजानीते– आनन्दतीर्थेति ।। भगवच्छब्दः पूज्यार्थः । पादशब्दः स्वरूपवाची । ‘उत्तमानां स्वरूपं तु पादशब्देन भण्यते’ इति वचनात् । तथाचाऽनन्दतीर्थाख्या ये पूज्यस्वरूपवन्तः आचार्यास्तैर्विनिर्मितं विशेषेणेतरवैलक्षण्येन निर्मित- मित्यर्थः । भगवद्गीताभाष्यमिति सामान्योक्त्याऽन्यकृतभाष्यप्रसक्तौ सत्यां तत्परिहारायेदं विशेषणमिति ज्ञातव्यम् । तेषां पूर्ववन्दितानां करुणाबलात् ।।

उमर्जीकृष्णाचार्यविरचितः

भावप्रकाशः

श्रीशेषशयनं नौमि निःशेषगुणबृंहितम् ।

अशेेषदोषरहितं विशेषज्ञं विमुक्तिदम् ।। १ ।।

वेदयन् वेदसारार्थं खेदयन् हृद्गतं तमः ।

मोदयन् साधुसङ्घातं कृष्णोष्णांशुः प्रसीदतु ।। २ ।।

ध्वंसितान्यमतध्वान्तं श्रीमध्वब्रध्नमाश्रये ।

जयतीर्थं च सूक्तार्थं सत्सार्थात्यर्थसंस्तुतम् ।। ३ ।।

रघुनाथपदासक्तं रघूत्तममुनीश्वरम् ।

भावबोधकृतं वेदभावबोधप्रसिद्धये ।। ४ ।।

समस्तसल्लोकनुतोरुकीर्तिं प्रशस्तविद्यांशुसमेतमूर्तिम् ।

निरस्तनिःशेषजनान्तरार्तिं श्रीतिर्मलाचार्यमहं प्रपद्ये ।। ५ ।।

भावबोधकृदुक्तार्थं वदन्नेव तदुज्झितम् ।

वाक्यादि व्याकरिष्येऽहं सफलस्तेन मे श्रमः ।। ६ ।।

प्रारिप्सितग्रन्थाविघ्नपरिसमाप्त्याद्यर्थं कृतमिष्टदेवतादिस्तुतिनतिरूपं मङ्गलं शिष्यशिक्षार्थं ग्रन्थादौ निबध्नाति– गुणगणेति ।। ग्रन्थस्य वाङ्मुखव्यापारसाध्यत्वात्तद्देवतात्वेनावश्यं वन्दनीया रमा पृथङ् न वन्दनीयेति ज्ञापयितुं रमायाः पतिमित्युक्तम् । नारायणप्रणामवद्व्यास-प्रणामोऽप्यवश्वं कार्यः व्याचिख्यासितभाष्यमूलगीताकर्तृत्वादिति भावेनाह– जगदघदहन-ञ्चेति ।। वासवीसूनंु चेत्यन्वयः । अत्रापि पूर्वविशेषणं ग्राह्यमिति ग्राहयितुं विशेषणानन्तरं चशब्दप्रयोगः । परमगुरुमपि पद्मानाभतीर्थादिकं च । मे गुरुञ्च अक्षोभ्यतीर्थं चेत्यर्थः ।। १ ।।

व्याख्येयत्वोपयुक्तं प्रामाण्यं विषयादिकं च सूचयन्नेव चिकीर्षितं निर्दिशति– आनन्देति ।। अत्र भगवत्पदेन भाष्यकर्तुर्विवक्षितार्थतत्वज्ञानाद्युक्त्या आप्तोक्तत्वेन भाष्यस्य प्रामाण्यं सूचितम् । गीताभाष्यमित्यनेन गीताविषयादिकमेवास्य विषयादीति सूचितम् । व्याख्यास्ये इति ।। ‘चक्षिङ् व्यक्तायां वाची’त्यस्य ‘चक्षिङः ख्याञि’ति ख्याञादेशे तस्य ञित्वा-द्व्याख्यानफलस्य पुण्यादेः कर्तृगामित्वादात्मनेपदम्। ‘स्वरितञितः कर्त्रभिप्राये क्रियाफले’ इत्युक्तेरिति बोध्यम् । तेन ख्याधातोः परस्मैपदित्वात् सिद्धान्तकौमुद्यादौ सार्वधातुकमात्र-विषयत्वोक्तेश्च कथमेतत् रूपमित्यपास्तम् । यत्क्वचिद्व्याख्यास्यामीति प्रायोजि तत् क्रियाफलस्य कर्तृगामित्वाविवक्षयेति ।। २ ।।

 

भाष्यम्

प्रमेयदीपिका

प्रारिप्सितविघ्नविघातादिप्रयोजनं समुचितविशिष्टेष्टदेवतागुरुप्रणामं ग्रन्थारम्भप्रतिज्ञां चादौ निबध्नाति भगवान् भाष्यकारः– देवमिति ।। अत्र देवशब्दो देवताशब्दपर्यायः प्रतिपाद्यमाह । सन्निधानाच्च ‘भगवद्गीतायाः’ इति लभ्यते । तेनेदानीं नारायणस्य प्रणामे समुचिततामाचष्टे । अज्ञानपारतन्त्र्यादिभिः सर्वदोषैर्विशेषेण सर्वदा सर्वात्मना वर्जितं परितो देशतः कालतो गुणतश्च पूर्णमिति वैशिष्ट्यमाचष्टे । परमवैष्णवस्य भगवतो भाष्यकारस्य विष्णुरिष्टदेवतेति प्रसिद्धमेव ।।

भावबोधः

सन्निधानादिति ।। व्याचिख्यासितत्वेन बुद्धिसन्निधानात् गीतार्थमिति शाब्दसन्निधाना-च्चेत्यर्थः । वीत्युपसर्गार्थमाह– विशेषेणेति ।। तमेव स्पष्टयति– सर्वदेति ।। नम्यत्वे हेतुतया आवश्यकत्वेन समुचितत्वादिवदिष्टत्वं प्रतिज्ञातम् । तत्कुतो भाष्यकृता नोक्तमित्यत आह– परमेति ।।

भावदीपः

प्रारिप्सितेति ।। सम्भावितविघ्नानां शिष्यप्रभृतीनामिति योज्यम् ।। आदिपदेन प्रचयः ।

बहुव्रीहिः । प्रणामो विशेष्यम् ।। समुचितेति ।। सम्यग्योग्येत्यर्थः ।। देवताप्रणामस्य समुचितत्वे हेतवः– विशिष्टेष्टदेवतेति ।। तत्त्रयमग्रे व्यक्तम् ।। ‘आदौ’ इत्युक्त्या गुरुदेवता-प्रणामस्य ग्रन्थावयवत्वं सूचयति ।। मूले ‘नत्वा’ इत्युक्तावपि प्रकृष्टनतिरभिप्रेतेति ‘प्रणामम्’ इत्युक्तम् ।। ‘देवम्’ इत्यस्य कृत्याप्रतीतेराह– अत्र देवेति।। स्तुत्यर्थाद् दीव्यतेः कर्मणि घञ्प्रत्ययान्त इति भावः ।। सन्निधानाच्चेति ।। ‘गीतार्थम्’ इति गीतापदसन्निधानादित्यर्थः ।। गीतानां च वेणुभ्रमरभिक्षुगीतादिरूपेणानेकत्वाद् ‘भगवद्गीता’ इति विशेषणोक्तिः ।। तेनेति ।। गीताप्रतिपाद्यत्वविशेषणकथनेन ।। समुचिततामाचष्ट इति ।। प्रतिपाद्यस्य स्वविषयग्रन्थार्थाव-बोधसम्पादकत्वात् प्रणतदेवतैव तत्सम्पादनहेतुरिति भावः ।। ‘वि’ इत्युपसर्गार्थः– विशेषेणेति ।। तद्व्यनक्ति– सर्वदा सर्वात्मनेति ।। निश्शेषत इत्यर्थः ।। इतिवैशिष्ट्यमिति ।। ‘विशेषणद्वयेन भावाभावरूपेतरासाधारणधर्मवत्वमाचष्टे’ ।। वक्ति भाष्यकार इत्यर्थः । ‘तेन नारायणप्रणामस्य समुचिततामाचष्टे’ इत्यनुषङ्गः । विशिष्टदेवताया एव विघ्नविघातादौ शक्तत्वादिति भावः ।।

ननु भक्त्यादिप्रकर्षयुक्ता नतिरिष्टदेवतायामेव भवतीति प्रणामस्य समुचितत्वोपपादनाय इष्टता नारायणस्य कुतो नोक्ता? इत्यत आह– परमवैष्णवस्येति ।।

भावरत्नकोशः

भगवद्गीतां व्याचिख्यासुर्भाष्यकारः किमिति प्रथमश्लोकेन देवतागुरुप्रणाममाचरतीत्य-तस्तत्प्रयोजनं दर्शयन्नाह– प्रारिप्सितेति ।। शिष्याणां विघ्नसम्भावनयोक्तम्– विघ्नविघातेति ।। ननु नारायणस्य देवत्वाव्यभिचाराद् देवमिति विशेषणं नातीव प्रयोजनमावहतीत्यत आह– अत्र देवशब्द इति ।। ऋग्भाष्यटीकारीत्या दीव्यतेः स्तुत्यर्थात् कर्मणि घञि निष्पन्नो देवशब्दः स्तुत्यं प्रतिपाद्यं वक्तुमेव प्रवृत्तः । नतु देवत्वोपस्थापनाय । येन नातिप्रयोजनं विशेषणमिति शङ्केति भावः । ननु ‘या तेनोच्यते सा देवता’ इत्युक्तेः प्रतिपाद्ये देवताशब्दस्यैव दृष्टेः कथमसौ प्रतिपाद्यं ब्रूयादित्यत उक्तम्– देवताशब्दपर्याय इति ।। देवताशब्द एव समुदायशक्त्या प्रतिपाद्यार्थस्य वाचकः । देवशब्दश्च तत्पर्यायः । ‘देवात् तल्’ इत्यत्र ‘देवशब्दात् स्वार्थिक-तल्प्रत्यये देव एव देवता’ इति वृत्त्यादावुक्तत्वात् ‘स चेत्ता देवतापदम्’ इत्यत्र ‘देवताशब्दो देवशब्दपर्यायः’ इति ऋग्भाष्यटीकातश्च, ‘छन्दोऽनुष्टुप् तथा देवो भगवान् विश्वरूपधृक्’ इत्यादावपि देवशब्द एवमेव व्याख्यातव्यः । तथा च ‘अगि्नमीेे’ इत्यत्र यास्कः ‘यो देवस्सा देवता’ इति देवशब्दस्य देवताशब्दपर्यायत्वमाह । प्रयुक्तश्च देवतायां देवशब्दः ‘यच्चिद्धित्वं गृहे गृहे’ इत्यृग्भाष्ये ‘सोमामात्यो परो देवो वनस्पतिः’ इति ।।

एतेन क्रीडादिगुणविशिष्टार्थस्य विबुधत्वजात्याक्रान्तिमुपस्थापयन्नयं शब्दः प्रतिपाद्यं कथं ब्रूयादिति प्रत्युक्तम् । कर्मणि घञन्तस्य देवताशब्दबोध्यप्रतिपाद्यार्थकत्वादित्युक्तमेव । प्रतिपाद्यत्वस्य सप्रतियोगित्वादाह– सन्निधानाच्चेति ।। व्याचिख्यासितत्वेन, गीतार्थमिति गीताशब्देन च बुद्धौ विपरिवर्तनादित्यर्थः । लभ्यते चेति चशब्दसम्बन्धः ।।

यद्यपि गीतार्थं नारायणमित्यन्वये अर्थशब्दस्याभिधेयार्थत्वेन नारायणस्य गीतार्थत्वं लभ्यत इति तेन समुचिताख्यानं सम्भवति । सति चैवं देवताशब्दपर्यायत्वं, सन्निधानाच्च गीताया इति लभ्यत इति च नाऽदरणीयम् । तथाऽपि गीतार्थपदस्यातिदूरस्थत्वात्, वक्ष्यामीति क्रियान्वयि-समर्पकत्वादावृत्तिप्रसङ्गाद्, देवशब्ददेवताशब्दयोरतिभेदाभावात्, प्रतिपाद्यस्य सर्वप्राधान्य-ज्ञापनाय आदौ तद्ग्रहणस्यौचित्यात्, देवशब्दस्य माङ्गलिकत्वाच्च आदावुपादानमिति भावेनैव-मुक्तम् । तेन गीतायाः प्रतिपाद्यमित्यर्थकेन देवशब्देन । इदानीं गीताव्याख्यानप्रारम्भकाले । विशब्दार्थो विशेषेणेति । तस्यैव विवरणं सर्वदा सर्वात्मनेति ।। परिशब्दार्थ एव परितश्शब्दार्थ इति भावेन तदर्थमाह– परितो देशत इति ।। वैशिष्ट्यम् उत्तमत्वम् । पूर्णमित्यत्र चशब्दोऽनुवर्तनीयः । ‘समुचितविशिष्टेष्ट’ इत्यत्र प्रतिज्ञातमिष्टत्वं कुतो नोक्तमित्यत आह– परमेति ।। वैष्णवस्येति क्वचित् पाठः ।

भावदीपिका

नन्वाद्यपद्यं व्यर्थम् । नचेष्टदेवताप्रणामग्रन्थारम्भप्रतिज्ञयोः करणाय सार्थकमिति वाच्यम् । ग्रन्थारम्भप्रतिज्ञाया वक्ष्यमाणप्रयोजनाय कार्यत्वेऽपि न प्रणामस्य कर्तव्यता, प्रयोजनप्रमाणयोर- भावान्नम्यत्वप्रयोजकीभूतानां समुचितत्वादीनामभावाच्चेत्यत आह– प्रारिप्सितेति ।। अन्येषा-मिति शेषः । निरन्तरायत्वाद् भाष्यकाराणाम् । तथा च प्रारब्धुमिष्टं प्रारिप्सितम् । तत्र अन्येषां प्रतिबन्धकीभूता ये विघ्नास्तेषां यो विघातः स आदिः कारणं यस्याः समाप्तेः प्रचयस्य च (तस्याः तस्य च प्रयोजनं हेतुः । यद्वा सा च स च प्रयोजनं फलं यस्य तमिति ।) तत्तत्प्रयोजनमित्यर्थः । तथात्वेन शिष्टाचारपरम्परावगतमिति यावत् । अनेन प्रणामेन समाप्त्यादौ जननीये विघ्नध्वंसोऽवान्तरव्यापार इति सूचितं भवति ।।

समुचितत्वं नाम ग्रन्थप्रतिपाद्यत्वरूपमधिकृतत्वमिति ध्येयम् । वैशिष्ट्यं सर्वोत्तमत्वम् । प्रणामं कृतमिति शेषः । अन्यथाऽकृतस्य निबन्धे प्रतारकत्वप्रसङ्गात् । प्रणामं नतिस्तुतिरूपम् । असन्निहितशिष्यशिक्षायै इति पूरणीयम् ।। ग्रन्थारम्भप्रतिज्ञां च ।। वक्ष्यमाणप्रयोजनायेति शेषः । नम्यत्वप्रयोजकीभूतं समुचितत्वादिकं केन पदेन सूचितमित्यतस्तद् दर्शयति– अत्रेत्यादिना ।।

ननु ‘या तेनोच्यते सा देवता’ इति वचनाद् देवताशब्दस्य प्रतिपाद्यार्थकत्वेऽपि न देवशब्दस्य तदर्थकत्वम् । नह्यत्र देवताशब्दः श्रूयत इत्यत आह– देवशब्दो देवताशब्दपर्याय इति ।। देवताशब्दो हि ‘या तेनोच्यते सा देवता’ इति निरुक्तिबलात् प्रतिपाद्यवाची । ‘रुद्रोऽहङ्कारदेवता’ इत्यादिवचनादभिमानिदेवतावाच्यपि भवति । एवं च प्रकृते देवशब्दो देवताशब्दपर्याय इत्येवोक्ते अभिमानिदेवतापरताऽपि प्रतीयेत । ततश्चासङ्गतिः स्यात् । अतः प्रतिपाद्यमाहेत्युक्तम् । देवशब्दः प्रतिपाद्यमाहेत्येवोक्ते देवशब्दस्य प्रतिपाद्यार्थकत्वाभावाद् देवताशब्दपर्याय इत्युक्तमिति ज्ञातव्यम् ।।

ननु प्रतिपाद्यत्वस्य सापेक्षत्वात् कस्य ग्रन्थस्य प्रतिपाद्यमिति न ज्ञायते । नच गीताया इति वाच्यम् । असन्निहितत्वात् तस्या इत्यत आह– सन्निधानाच्चेति ।। व्याचिख्यासितत्वेन बुद्धिसन्निधानात्, गीतार्थमिति शब्दसन्निधानाच्चेत्यर्थः ।। तेनेति ।। गीताया देवं प्रतिपाद्यमिति कथनेनेत्यर्थः । वीत्युपसर्गस्यार्थो विशेषेणेति ।। तमेव व्यनक्ति– सर्वदेत्यादिना ।। ननु नम्यत्वप्रयोजकीभूतसमुचितत्ववैशिष्ट्यवदिष्टत्वं कुतो नोक्तं भाष्यकृतेत्यत आह– परमवैष्णव-स्येति ।। तस्यैकान्तभक्तोत्तमत्वादिति भावः ।।

भावप्रकाशः

ननु विबुधवाचीदेवशब्दः कथं प्रतिपाद्यार्थ इत्यत उक्तम्– देवताशब्दपर्याय इति ।। तथा च पचाद्यजन्तो विबुधवाचकोऽस्तु । अत्र प्रयुक्तस्तु या तेनोच्यते सा देवतेत्युक्तेः प्रतिपाद्यार्थो यो देवताशब्दस्तत्पर्यायः कर्मणिघञन्तः । ततो युक्तं प्रतिपाद्यार्थत्वमिति भावः । दीव्यतेरनेकार्थत्वात् कर्मणिघञन्त इत्युक्ते न विवक्षितसिद्धिरित्यतः कर्मणिघञन्त इत्यनुक्त्वा देवताशब्दपर्याय इत्याहेति मन्तव्यम् ।।

केचित्तु नेदं पचाद्यजन्तव्यावर्तकं किन्तु प्रतिपाद्यार्थत्वे हेतुभूतं देवताशब्दपर्याय इति विशेषणम् । तदर्थस्तु स्वार्थिकप्रत्ययान्तदेवताशब्दप्रकृतिभूत इति । अयमाशयः । या तेनेत्युक्तेः देवताशब्दस्तावत् प्रतिपाद्यार्थः । स च देवात्तलिति स्वार्थे तलन्तो नत्वखण्डस्तद्धितान्ततायाः स्पष्टप्रतीतेः । अतो देवशब्दोऽपि प्रतिपाद्यार्थः । यः स्वार्थिकप्रत्ययान्तशब्दप्रकृतिभूतः स तत्समानार्थ इति सामान्यव्याप्तेः सौख्यादिशब्दसमानार्थे सुखादिशब्दे दृष्टत्वात् । तदयं प्रयोगः । देवशब्दो देवताशब्दवाच्यप्रतिपाद्यार्थकः स्वार्थिकप्रत्ययान्तदेवताशब्दप्रकृतित्वात् सामान्येन सुखादिशब्दवत् इति स्वार्थिकस्थले प्रकृतिप्रत्ययान्तयोः पर्यायत्वाभिप्रायेण पर्याय इत्युक्तम् । एतेन देवशब्दस्य देवताशब्दपर्यायत्वेन प्रतिपाद्यार्थत्वसाधने विबुधादिशब्दे व्यभिचारः देवशब्दः पुष्पार्थः सुमनः । शब्दसामानार्थत्वादित्याभाससाम्यं च निरस्तमित्याहुः ।।

सन्निधानादिति ।। व्याचिख्यासितत्वेन बुद्धिसन्निधानाद्गीतार्थमिति शाब्दसन्निधाना-च्चेत्यर्थः । वीत्युपसर्गार्थमाह– विशेषेणेति ।। विशेषमेव स्पष्टयति– सर्वदेति ।। ननु समुचित्वादिवत् प्रतिज्ञातमिष्टत्वं कुतो नोक्तमित्यत आह– परमेति ।।

Load More