चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ।। ५७ ।।
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ।। ५७ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु यदि भगवदाश्रयतया विहितकर्म कुर्वतो मुक्तिः तर्हि त्रैविध्यस्यापि स स्यात् तस्यापि विहितकर्माणि कृत्वा भगवदर्पणसद्भावेन भगव-दाश्रितत्वाविशेषात् इत्यत उच्यते– चेतसेति ।। सर्वकर्माणि विहितानि सर्वाणि चेतसा मयि भगवति सन्न्यस्य समर्प्य मत्परः अहमेव सर्वस्मात् सर्वप्रकारेण सर्वदा परः उत्तम इति भावो यस्य स तथा बुद्धियोगं बुद्धेः ज्ञानस्य योगः प्रत्याहाराद्युपायः, तम् उपाश्रित्य अनन्यविषयतया समाश्रयणम् उपाश्रयः, तत् कृत्वा सततं मच्चित्तः मयि चित्तं निरुद्धं यस्य स तथा भव ।
अत्र भगवदाश्रितत्रैविध्ययोः विहितकरणादिसाम्येऽपि मोक्षभावाभावौ उपपद्येते । विहिताशेषकर्माणि चेतसा भगवति सन्न्यस्य भगवदाश्रितः करोति, न तथा त्रैविद्य इति तयोः चेतसैव विशेषसद्भावादिति भावयितुं ‘चेतसा’ इत्युक्तम् । ‘मत्परः’ इत्यत्र त्रैविद्यात् भागवतस्य विशेष उच्यते सर्वदा सर्वप्रकारेण सर्वस्माद् भगवान् परः’ इति भावो हि मत्परत्वम् । अस्ति चेदं भागवते, न तु त्रैविद्ये, इति तेनापि विशेषेण तयोर्विशेष इति न त्रैविद्यभागवतयोः साम्यमिति ज्ञायते । भगवति चित्तवृत्तिनिरोधोऽपि त्रैविद्याद् भागवतस्य विशेष इति भावेन ‘मच्चित्तः’ इत्युक्तम् ।। ५७ ।।