सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।। १४ ।।

सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ।

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।। १४ ।।

भावरत्नकोशः

किञ्च तत् ब्रह्म सर्वतः पाणिपादम् । ‘सर्वतः’ इति सप्तम्यर्थे तसिः । पाणिपादशब्दौ तच्छक्तिलक्षकौ, अर्षआद्यजन्तौ च । केशादिसर्वावयवेषु पाणिपाद-शक्तिमत् । सर्वतोऽक्षिशिरोमुखं सर्वावयवेषु अक्षिशिरोमुखशक्तिमत् । सर्वतः श्रुतिमत् सर्वावयवेषु श्रवणशक्तिमत् । पाणिपादादिसर्वावयवयुक्तैः अणुतररूपैः सर्वत्र स्थितत्वाद्वा ‘सर्वतः पाणिपादम्’ इत्यादि । सर्वचेतनाचेतनात्मकं जगद् आवृत्य व्याप्य तिष्ठति ।। १४ ।।