मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ।। २५ ।।

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।

सर्वारम्भपरित्यागी गुणातीतः स उच्यते ।। २५ ।।

भाष्यम्

तुल्यत्वार्थ उक्तः पुरस्तात् ।। २३-२५ ।।

भावप्रदीपिका

प्रियादौ तुल्यत्वं न पूजादावित्याह– तुल्यत्वार्थ इति

।। २५ ।।

प्रमेयदीपिका

‘समदुःखसुखः’ (१४.२४) इत्यादिना सर्वथा सुखादौ तुल्यत्वबुद्धिरुच्यते’ इत्यन्यथाप्रतीतिनिरासार्थमाह– तुल्यत्वेति ।। तुल्यत्ववाचिनः शब्दस्यार्थ इत्यर्थः । ‘प्रायः सर्वान्’ (२.५५) इत्युक्तरीत्येति भावः ।। २३-२५ ।।

भावदीपः

।। ‘प्रायः सर्वान्’ इत्युक्तरीत्येति ।। द्वितीये ‘प्रजहाति यदा कामान्’ (२.५५) इत्यत्र भाष्योक्तरीत्येत्यर्थः । तत्र तुल्यशब्दाभावेऽपि तुल्यत्ववाचिनः ‘प्रजहाति कामान्’ इति ‘दुःखेष्वनुद्विग्नमनाः, सुखेषु विगतस्पृहः’ इत्यादिशब्दस्य सत्वात् ‘तुल्यत्ववाचिनः शब्दस्यार्थः’ इत्युक्तम् । अत एव भाष्येऽपि ‘तुल्यत्वार्थः’ इत्येवोक्तम् ।।२५।।

भावरत्नकोशः

तुल्यत्वस्यार्थरूपत्वेन ‘तस्यार्थः’ इत्यनन्वितम् । ‘समदुःख-सुखः’ इत्यादौ तुल्यशब्दाभावश्च इत्यतो लक्षणामाश्रित्य व्याचष्टे– तुल्यत्ववाचिन इति ।। तत्र द्वितीयाध्याये तुल्यसमादिशब्दाभाबेऽपि ‘दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः’ इत्यादौ सुखदुःखतुल्यत्वपर्यवसानस्याभिसंहितत्वाद् अत्र ‘समदुःखसुखः’ इत्यादौ समशब्दस्य तुल्य-शब्दस्य आहत्य श्रवणेन तत्रापि तदर्थस्य वक्तव्यत्वाच्च एवमुक्तिरिति आहुः । ‘पुरस्तात्’ इत्यस्य ‘द्वितीयाध्याये इत्यर्थं सिद्धवत्कृत्य तत्र स्थलं दर्शयति– प्रायः सर्वानित्याद्युक्त-रीत्येति ।। ‘प्रजहाति यदा कामान् इति गीतावाक्यावसरे’ इति शेषः ।।

गीताक्षरार्थस्तु प्रायेण मानापमानयोस्तुल्यः । ‘तुल्यो मित्रारिपक्षयोः’ इत्यत्रापि ‘प्रायेण’ इति योज्यम् । सर्वारम्भपरित्यागी प्रयोजनविशेषापेक्षयाऽपि अवैष्णवसर्वकर्मारम्भपरित्यागी यः सोपि गुणातीतः गुणान् अतीतः । ‘अतिक्रान्त’ इत्यत्र ‘द्वितीया श्रितातीत.’ इति द्वितीयासमासः ।। २५ ।।

भावदीपिका

तुल्यत्वरूपार्थस्यानुक्तेराह– तुल्यत्ववाचिनः शब्दस्येति ।। इत्यादीति ।। ‘प्रायः सर्वान् कामान् प्रजहाति’ इति द्वितीयाध्यायोक्तरीत्येत्यर्थः ।। २५ ।।

भावप्रकाशः

।। उक्तरीत्येति ।। ‘प्रजहाति यदा कामान्’ इति गीताव्याख्यानावसर इति शेषः ।। २५ ।।