येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ।। २३ ।।
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ।। २३ ।।
भाष्यम्
तर्हि ‘अहं क्रतुः’इत्याद्यसत्यमित्यत आह– येऽपीति ।।
भावप्रदीपिका
ननु यदि त्रैविद्यानामल्पफलम् । तर्हि न भगवतः सर्वयज्ञभोक्तृत्वादीत्याशङ्क्योत्तरत्वेनोत्तरश्लोकमवतारयति– तर्हीति ।। २३ ।।
प्रमेयदीपिका
उक्तप्रश्नस्योत्तरं जातम् । तत्किमुत्तरेण? इत्यतः प्रश्नाभिसन्ध्युद्घाटनस्येदमुत्तरमित्याह– तर्हीति ।। भगवद्भोगनिमित्तं हि फलम् । स चेत् सर्वत्र समः, तदा सर्वेषां फलसाम्येन भाव्यम् । तदभावश्चेत् तर्हि ‘अहं क्रतुः’इत्युक्तं सर्वत्र भगवतः भोक्तृत्वमपि असत्यमित्यर्थः ।। २३ ।।
भावरत्नकोशः
अभिसन्ध्युद्घाटनं दर्शयति– भगवद्भोगनिमित्तं हीति ।। स चेत् भोगश्चेत् । तदभावश्चेत् फलसाम्याभावो यद्यभ्युपगत इत्यर्थः । सर्वत्र त्रैविद्यभागवता-नुष्ठितयज्ञेषु ।।
‘येऽप्यन्यदेवताभक्ताः’ इत्यादिषट्श्लोक्या अक्षरार्थस्तु भगवद्भोगनिमित्तं हि फलम् । स चेत् सर्वत्र समस्तदा सर्वेषां फलसाम्येन भाव्यम् । तदभावश्चेत् तर्हि ‘अहं क्रतुः’ इत्युक्तं सर्वत्र भगवतो भोक्तृत्वमप्यसत्यम् ? इत्यत उच्यते– येऽपीति ।। ‘यजन्ते अन्यदेवताः’ इति विभज्य संयोज्यम् । तेऽपि मामेव यजन्ति तद्यज्ञभोक्ताऽप्यहमेवेति फलितोऽर्थः ।। २३ ।।
भावदीपिका
।। प्रश्नस्येति ।। यदि सर्वत्र भोक्ता भगवान्, तर्हि भागवतानां त्रैविद्यानां फलसाम्यमेवेति प्रश्नस्येत्यर्थः । स चेदिति ।। भगवद्भोग इत्यर्थः । तदभावश्चेदिति ।। ‘त्रैविद्या माम्’ इत्यादिना फलसाम्याभावस्योक्तत्वादिति भावः ।। २३ ।।