अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ।। ४ ।।
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ।। ४ ।।
भाष्यम्
भूतानि सशरीरान् जीवानधिकृत्य यत् तत् अधिभूतम् । क्षरो भावः विनाशी कार्यपदार्थः । अव्यक्तान्तर्भावेऽपि तस्यापि अन्यथाभावाख्यो विनाशः अस्त्येव ।
भावप्रदीपिका
‘अधिभूतं क्षरो भावः’ इत्येतद्व्याचष्टे भूतानीति । नन्वव्यक्त-स्याप्यधिभूतत्वान्न तस्यास्ति विनाशिकार्यत्वमित्यत आह– अव्यक्तेति । अन्यथाभावाख्यः इति व्यक्तरूपं विहाय अव्यक्तरूपताख्यः । विनाशपदेन जन्मनोऽप्युपलक्षणम् । एवं सति, अन्यथाभावोऽव्यक्तस्य व्यक्तत्वप्राप्तिः ।
भावप्रकाशिका
ओहात्मोपकारिणो देहान्तस्याध्यात्मशब्दोक्तत्वात् सदेहा-त्मोपकार्यधिभूतशब्देन वक्तव्यम् । तच्चाव्यक्तान्तं जडमेव न हरिविरिञ्चादयो वा । तेषां ब्रह्माधिदैवशब्दाभ्यामुक्तेरिति भावेन ‘अधिभूतं च किम् ?’ इत्यस्योत्तरं विवृणोति भूता-नीत्यादिना । प्रागभावव्यावृत्त्यर्थो ‘भाव’शब्दः । ‘क्षर’शब्दस्तु परमात्मादिव्यावृत्त्यर्थः । स च विनाशिकार्यपदार्थ एवेत्यर्थः । ननु अधिभूतं जडं प्रोक्तम् इत्यादिवक्ष्यमाणपर्यालोचनया जगदुपादानस्याव्यक्तस्य विनाशिकार्यपदार्थत्वे न व्यवस्था स्यादित्याशङ्क्य, प्रलयेऽपि स शोको नानावस्थेति भावेनैतत् सप्रमाणकमाह– अव्यक्तेति । ब्रह्मैव परमं व्योम, तत्प्रलय-काले निष्क्रियं प्रापयति ।।
प्रमेयदीपिका
परिहारं सङ्गमयितुमधिभूतशब्दार्थं तावदाह– भूतानीति ।। अधिकृत्य तदुपकारित्वेन यत् वर्तते । ‘क्षरः सर्वाणि भूतानि’ इति वक्ष्यमाणं क्षरं व्यावर्तयितुं व्याचष्टे– क्षर इति ।। क्षरशब्दव्याख्या विनाशीति । भावशब्दस्यार्थद्वयं कार्यः इति, पदार्थः इति । भवत्युत्पद्यत इति भावः । ‘उत्पत्तिमान् पदार्थः’, ‘नाशवान् पदार्थः’ इति प्रत्येक-मुत्तरम् । सर्वभूतानामध्यात्मत्वान्न ग्रहणम् ।।
नन्वव्यक्तमपि सशरीरान् जीवानधिकृत्य वर्तत इति तस्याप्यधिभूतेऽन्तर्भावोऽस्त्येव । न चैतद् विनाशि कार्यं वा । ‘नासतः’ इत्युक्तत्वात् । ततोऽव्यापकमुत्तरमित्यत आह– अव्यक्तेति ।। ‘अव्यक्तस्याऽधिभूतान्तर्भावेऽपि नाव्यापकमुत्तरम्’ इति शेषः । कुतः? इत्यत आह– तस्यापीति ।। अन्यथाभावो वैषम्यपरित्यागेन साम्यावस्थापत्तिः। ‘यतः’ इति शेषः । तथा विक्रियालक्षणं जन्मचेत्यपि ग्राह्यम् ।।
भावबोधः
।। प्रत्येकमुत्तरमिति ।। अनेन क्षरो भवः । भावो भाव इति भाव-शब्दस्यावृत्तिरित्युक्तं भवति । ननु वक्ष्यमाणसर्वभूतलक्षणक्षरव्यावृत्तिः कुतः कर्तव्या । क्षरशब्द-वाच्यसर्वभूतानामेवाधिभूतत्वमस्तु इत्यत आह– सर्वभूतानामिति । ‘ब्रह्मादिजीवाः सर्वेऽपि शरीरक्षरणात्क्षराः’ इति सर्वभूतशब्दवाच्यानां जीवत्वोक्त्या जीवानां चात्माधिकारे यत्तदित्युक्त-रीत्याऽध्यात्मत्वादधिभूत्वाभावेन तत्प्रश्नोत्तरभूतक्षरशब्देन ग्रहणमित्यर्थः ।
भावदीपः
।। प्रत्येकमुत्तरमिति ।। ‘किमधिभूतम्’ इति प्रश्नस्य ‘अधिभूतं क्षरो भावः तथाभावः कार्यभूतो भावः पदार्थः’ इति भावपदस्यासकृदावृत्त्या प्रत्येकमुत्तरमिति भावः । ‘क्षरः सर्वाणि भूतानि’ इति वक्ष्यमाणसर्वभूतानामत्र ग्रहणं कुतो न? इत्यत आह– सर्वभूता-नामिति ।। पूर्वोक्तव्याख्यानरीत्या अत्राध्यात्मपदेन प्राप्तत्वादित्यर्थः ।। नासत इतीति ।। ‘असतः कारणस्याव्यक्तस्य अभावः न विद्यते’ इत्युक्तत्वादित्यर्थः ।।
भावरत्नकोशः
।। परिहारम् ‘अधिभूतं च किम्’ इति प्रश्नस्य ‘यः क्षरो भावः’ इति परिहारः, तम् । ‘युक्ते क्ष्मादौ ऋते भूतं प्राण्यतीते समे त्रिषु’ इत्यमरकोशः । ‘प्राण्यतीते’ इत्यत्र ‘प्राणी’ इति प्रथमान्तं छित्त्वा सकलमपि शरीरि रूपभेदादेव नपुंसकलिङ्गभूतशब्द-वाच्यमिति सुभूतिचन्द्रो व्याचष्टे । ततो ‘भूतानि सशरीरान् जीवान्’ इति भाषणं भद्रम् । श्रूयते च ‘तं भूतान्यभ्यक्रोशन्’ इति । तत्र भाष्ये ल्यबन्वयाय शेषमाह– वर्तत इति । वक्ष्यमाणं पञ्चदशेऽध्याये ‘क्षर विनाशसन्ततदानयोः’ इति धातोराह क्षरशब्देति । भावशब्देन कथं कार्यस्य ग्रहणम् ? इत्यतो व्युत्पाद्य दर्शयति– भवत्युत्पद्यत इतीति । धातूनामनेकार्थत्वाद् उत्पत्त्यर्थाद् भवतेः कर्तरि णप्रत्यये ‘भावः’ इति रूपम् । तथा च वैयाकरणाः ‘धान्यानां भवने’ इति सूत्रे भवन्ति उत्पद्यन्ते धान्यानि अस्मिन्निति भवनमिति । सत्ताद्यर्थनिर्देश उपलक्षणम् । ‘यागात् स्वर्गो भवति’ इत्यादौ ‘उत्पद्यते’ इत्यर्थावगमादिति चेति द्रष्टव्यम् । ‘अधिभूतं किम्’ इति प्रश्नस्य ‘क्षरो भावः’ इत्युक्तं घटयितुं ‘विनाशी कार्यपदार्थः’ इति भाषितम् । नैतद्युक्तम् । शरीरप्रागभावस्य दुरितध्वंसस्य च शरीरजीवोपकारितयाऽधिभूतशब्दार्थान्तर्गतत्वेन तयोरपि विनाशिकार्यत्वा-भावेनाव्यापकत्वात्, इत्यत आह– उत्पत्तिमान् पदार्थ इति । अनेन ‘भावो भावः’ इति, ‘क्षरो भावः’ इति च भावशब्दावृत्तिः । उक्तप्रागभावध्वंसावपि विनाशोत्पत्तिमन्ताविति नाव्यापकतोत्तर-स्येत्युक्तं भवति । तदेव दर्शयति– प्रत्येकमिति । ‘क्षरो भावः’, ‘भावो भावः’ इति प्रत्येक-मित्यर्थः । ‘क्षरः सर्वाणि भूतानि’ इति वक्ष्यमाणक्षरव्यावृत्तिः कस्मात् क्रियते ? इत्यत आह– सर्वभूतानामिति । भूतशब्दितजीवानाम् ‘स्वाख्यो भावः’इति द्वितीययोजनायाम् अध्यात्मशब्द-वाच्यत्वेन प्राप्तानां क्षरशब्देन ग्रहणे पुनरुक्त्यापत्तेरिति भावः ।
अधिकृत्य ‘तदुपकारित्वेन’ इति वर्तते । उक्तत्वादिति ।। ‘असतः कारणस्याव्यक्तस्याभावो न विद्यते’ इति द्वितीये प्रागभावप्रध्वंसाभावयोरभावस्योक्तत्वादित्यर्थः । अव्यापकम् विवक्षित-सर्वार्थाविषयम् । ‘अव्यक्तस्याधिभूतान्तर्भावे’ इत्यन्तं व्याख्यानम् । ‘अपि’ इत्यादिशेषोक्तिः । अन्यशब्दः परवचनः, थाल्प्रत्ययश्च प्रकारार्थः, भावशब्दोऽवस्थापत्तिवाची, इत्यक्षरार्थमभिप्रेत्य परप्रतियोगिभूतपूर्वभावं वदन्, अन्यं च विवक्षितभावं दर्शयन्, ‘नाव्यापकम्’ इति साध्ये हेतुसमर्प-कत्वं च शेषोक्त्या आह– अन्यथेत्यादिना । ‘कार्यम् वा’ इति चोद्यं निरसितुं वक्ष्यमाण-प्रमाणद्वयानुसारेण भाष्यं संयोजयति तथा विक्रियेति । उभयत्र विनाशे जन्मनि च ।
भावदीपिका
।। परिहारमिति ।। ‘अधिभूतं च किं प्रोक्तम्’ इति प्रश्नस्य ‘अधिभूतं क्षरो भावः’ इति परिहारं सङ्गमयितुमित्यर्थः । प्रत्येकमिति ।। क्षरः विनाशी भावः पदार्थोऽधिभूतमिति प्रत्येकमुत्तरमित्यर्थः । तथा च ‘क्षरो भावः’, ‘भावो भावः’ इति भाव-शब्दस्यावृत्तिरित्युक्तं भवति ।
ननु ‘क्षरः सर्वाणि भूतानि’ इति वक्ष्यमाणसर्वभूतजीवलक्षणक्षरव्यावृत्तिः कुतः कर्तव्या ? क्षरशब्दवाच्यसर्वभूतानामेवाधिभूतत्वमस्तु, इत्यत आह– सर्वभूतानामिति ।। ‘ब्रह्मणि जीवाः सर्वेऽपि’, शरीरक्षरणात् क्षराः’ इति सर्वभूतशब्दवाच्यानां जीवत्वोक्त्या, जीवानां चात्माधिकारे ‘यत् तद्’ इत्युक्तरीत्याऽध्यात्मतया, अधिभूतत्वाभावेन तत्प्रश्नोत्तरभूतक्षरशब्देन न ग्रहणमित्यर्थः । अव्यापकमुत्तरमिति ।। ‘क्षरो भावः’ इत्युत्तरं लक्ष्यभूतसर्वाधिभूताव्यापीत्यर्थः । अधिभूतान्त-र्भावेऽपीति ।। अधिभूतशब्दार्थान्तर्भावेऽपीत्यर्थः । वैषम्यपरित्यागेन साम्यावस्थापत्तिरिति ।। सृष्टिकाले हि सत्त्वादीनां मध्ये यदुद्भवं बलीयस्तदङ्गीभूतम्, तदनुगुणतया स्थितमङ्गम् । एवं हि तेषां गुणप्रधानभावे सति महदादौ कार्ये प्रवृत्तिर्भवति । इदमेव च गुणवैषम्यम्, सृष्टिरिति यावत् । प्रलये तु नोक्तरीत्या गुणप्रधानभावेनावस्थानम् । किन्तु तत्परित्यागेन त्रयाणामपि प्रधान-भावेनैवावस्थितिः । ‘साम्यावस्था प्रलयः’ इति यावदित्यर्थः । केचित्तु सृष्टिकाले त्रयाणामपि सत्त्वाद् गुणवैषम्यमित्युच्यते । प्रलये तु रजोगुणनाशेन द्वयोरेव परिशिष्यमाणत्वात् गुणसाम्य-मित्युच्यत इत्याहुः । एतद्विस्तरस्तु तृतीयस्कन्धतात्पर्ये स्पष्टः ।
भावप्रकाशः
ननु क्षरः सर्वाणि भूतानि इत्युक्तक्षरः कुतो व्याव•र्त्य इत्यत आह– सर्वभूतानामिति ।। अध्यात्वत्वादिति ।। द्वितीययोजनायामध्यात्मशब्दवाच्यत्वा-दित्यर्थः ।। विकारोव्यक्तजन्म हि इत्यग्रिमवाक्यानुसारेणाह– तथा विक्रियेति ।।