मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ।। १६ ।।

मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।

भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ।। १६ ।।

भाष्यम्

सौम्यत्वम् अक्रौर्यम् । ‘अक्रूरः सौम्य उच्यते’ इत्यभिधानम् । मौनं मननशीलत्वम् । ‘बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः’ इति हि श्रुतिः । ‘एतेन हीदं सर्वम् मतं । यदनेन हीदं सर्वं मतं तस्मान्मुनिः तस्मान्मु-निरित्याचक्षते’ इति भाल्लवेयश्रुतिः । कथं चान्यथा मानसं तपः स्यात्?

।। १६ ।।

भावप्रदीपिका

मौनादिमत्वं कथं मानसं तप इत्यत आह– कथमिति

।। १६ ।।

प्रमेयदीपिका

नन्वङ्गसौष्टवं सौम्यत्वम् । तत्कथं मानसं तप उच्यते? इत्यत आह– सौम्यत्वमिति।। ‘मौनं वाङि्नयमनम्’ इत्यन्यथाप्रतीतिनिरासार्थमाह– मौनमिति ।। कुत एतत्? इत्यत आह – बाल्यमिति ।। युक्तिबलोपेतत्वं बाल्यम् । आगमज्ञत्वं पाण्डित्यम् । अथ मुनिः मननशीलो भवतीत्यर्थः । ‘एतेन हीदम्’ इत्युक्तमर्थं यदनेन इति हेतुत्वेनोपादत्ते ।यस्मादेवं मुनिस्तस्मात्तं मुनिरित्याचक्षते । ‘मन ज्ञाने’ (पा.धा.११,७६) इत्यतः इकारप्रत्ययः । उपधाया उकारश्च । मुनेर्भावश्च मौनम् । तच्च मननशीलत्वम् आगमार्थस्य युक्तिभिः अनुसन्धानम् । उक्तार्थानङ्गीकारे बाधकमाह– कथमिति ।। ‘मौनम्’ इति शेषः ।।

वाङ्नियम एव न मौनम् । किन्त्वत्र तत्कारणमनोनियमो लक्ष्यते’ इति कश्चित् । तदसत् । ‘आत्मविनिग्रहः’ इति पुनरुक्तिदोषात् । कथञ्चित् परिहारेऽपि मुख्यार्थसम्भवे लक्षणाश्रयणस्यैव दोषत्वात् ।। १६-२२ ।।

भावबोधः

ननु वाङि्नयमकारणत्वेनैव मौनपदेन मनोनियमो लक्ष्यते, आत्मनिग्रहपदेन तु चक्षुरादिनियमहेतुत्वेन विषयस्मरणनियमहेतुत्वेन वा मनोनियम उच्यते इति न पुनरुक्तिरित्यत आह– कथञ्चिदिति ।। सकृदुक्तमनोनियमस्यैव सर्वेन्द्रियव्यापारनियमहेतुत्वे विषयस्मरणनियमहेतुत्वे च सम्भवति एवं विवक्षायां गौरवमित्यभिप्रेत्य कथञ्चिदित्युक्तम्

।। १६ ।।

भावदीपः

‘तस्मान्मुनिः’ इत्ययं विधिरित्युपेत्य तदनन्तरमपेक्षितमध्या-हृत्योत्तरवाक्यं संयोजयति– ‘यस्मादेवं मुनिस्तस्मात्’ इत्यादिना ।। ‘मौनं मननशीलत्वम्’ इति भाष्यं कार्यकारणभावाभिप्रायमिति भावेनाऽह– तच्चेत्यादिना ।। ननु वाङ्नियमकारण-मनोनिग्रहो मौनपदेन, आत्मनिग्रहपदेन तु चक्षुरादीन्द्रियनियमनहेतुमनोनिग्रहो गृह्यत इत्यत आह– कथञ्चित्परिहारेऽपीति ।। एवेति ।। अस्मदुक्तार्थ एवेत्याहेत्यर्थः ।। १६ ।।

भावरत्नकोशः

।। अङ्गसौष्ठवमिति ।। ‘सौम्यं तु सुन्दरे सोमदैवते’ इत्यमरेण

उपाध्याये तु ना सौम्यः पुनः स्त्रीसोमदैवते ।

 सुन्दरे च पुमांस्त्वेष वत्सरे च बुधग्रहे ।।’

इति केशवेन च सौम्यशब्दस्य अङ्गसौष्ठवशब्दितसौन्दर्यशालिवचनत्वाभिधानाद् अङ्गसौष्ठव-मेव सौम्यत्वमिति भावः । केचित्तु सोमः चन्द्र इव आह्लादकः सोमशब्दाद् इवार्थे ‘शाखादिभ्यो यः’ इति यप्रत्ययः । स एव प्रज्ञादिभावेन स्वार्थेऽणि सौम्यः सुन्दरः स हि आह्लादको भवति, तस्य भावः सौम्यत्वम् इत्यनेन अङ्गसौष्ठवं लभ्यत इति भावेन एवमुक्तमित्याहुः । भाष्ये अक्रौर्यं मनसः क्रोधात्मना परिणामाभावोऽभिमत इति मानसतपस्त्वोपपत्तिरिति द्रष्टव्यम् । वलशब्दाद् ‘उपेतम्’ इत्यर्थे ष्यञि बाल्यम् । बलं चात्र युक्तिरूपं विवक्षितम् । ‘बाल्यं युक्तिसहायता’ इति वचनादिति भावेनाह– युक्ताति ।। ‘पाण्डित्यम् आगमज्ञानम्’ इति वचनानुसारेण व्याचष्टे– आगमज्ञत्वमिति ।।

भाष्ये ‘निर्विद्य इत्यत्र ‘नितरां लब्ध्वा’ इत्यर्थः । ‘मननशीलत्वम् इति भाष्यानुसारेणाह– मुनिर्मननशील इति ।। ‘उपादत्ते’ इत्युक्तमेवाह– यस्मादेवमिति ।। एवं सर्वमन्तृत्वप्रकारेण मननं मुनिशब्देन यथा लभ्येत तथा व्युत्पादयति– मन ज्ञान इति ।। ‘मनेरुच्चोपाधायाः’ इति सूत्रेण मनेरिन्प्रत्ययः, उपधाया अकारस्योकार इति भावेन ‘इकारप्रत्ययः उकारश्च’ इत्युक्तम् । मुनिशब्देन ज्ञानित्वमात्रप्राप्तावपि मननशीलत्वलाभप्रकारमाह मुनेर्भावश्च मौनम्, तच्च मनन-शीलत्वाख्यम् । युक्तिभिरनुसन्धानमिति ।। आगमार्थस्य वेदवैदिकग्रन्थार्थस्य । आचार्योप-देशाद् उपजायमानं ज्ञानम् आगमजन्याख्यं श्रावणं तदेव पाण्डित्यं नाम । आगमार्थस्य श्रुतस्य युक्त्यनुगृहीतं ज्ञानं मननम् । तस्यैव मननस्य नैरन्तर्येण आपादनं मननशीलत्वाख्यं मौनमुच्यते । तदिदं वाङि्नयमनाद् अन्यत् मनःकार्यं मानसं तप इति युक्तमुक्तमिति भावः ।

यद्यपि ‘तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्, बाल्यं च पाण्डित्यं च निर्विद्य अथ मुनिः’ इति बृहदारण्यकश्रुतिः । ‘ब्राह्मणः ब्रह्म अणितुं योग्यः, पाण्डित्यम् आगमज्ञानम्, बाल्यं युक्तिसहितं बलयुक्तत्वात् मौनम् उपासनाजनितम्’ इति तद्भाष्यानुसारेण तत्त्वप्रकाशिकायाम् ‘यो ब्रह्मप्राप्तियोग्योऽसौ आगमजं ज्ञानं लब्ध्वा युक्तिजज्ञानमापादयेत् । तदुभयलाभानन्तरं ध्यानी भवति’ इति मुनिशब्देन ध्यानी व्याख्यातः । तथापि मुनिशब्दस्य मननशीलत्वम् अर्थान्तरमप्यत्राभिमतम् । अत एव ‘मननशीलत्वम्’ इति भाषितेऽर्थे ‘अथ मुनिः’ इति श्रुतिः सम्मतित्वेनोदाहृता । अत एव ‘सर्वं हेदं मतम्’ इति श्रुतिरपि मनन-शीलत्वमेव मुनिशब्दप्रवृत्तौ निमित्तमाहेति तदनुसारेणैव व्याख्यातमिति न विसंवादशङ्कावकाशः ।

केचित्तु ‘मननशीलः’ इत्यत्र मननशब्देन ध्यानमेव ग्राह्यम्, तत्त्वप्रकाशिकाऽनुसारात् । ध्यानमननयोरुभयोरपि मानसतपस्त्वसम्भवेन ध्यानग्रहणे बाधकाभावाच्च । बाल्यशब्देन युक्तिभिरनुचिन्तनरूपं प्रसिद्धं मननमेव विवक्षितम् । ‘आगमार्थस्य युक्तिभिरनुसन्धानम्’ इति टीकाऽपि । युक्तिभिरनु पश्चात् युक्तिभिरनुचिन्तनरूपमननानन्तरम्, आगमार्थस्य भगवतो विषये सन्धानं मनसः सम्यङि्नधानम् इति यावदिति व्याख्येयम् । एवं च न तत्त्वप्रकाशिकादि विरोध इत्याहुः । तत्र भाल्लवेयश्रुत्युदाहरणं भाष्यकारीयं मननमेव प्रसिद्धं मुनिशब्दवृत्ति-निमित्तम् इत्यर्थे क्रियमाणं नातीव चतुरस्रम् इत्यपरे ।

एवं मननशीलत्वमेव मौनशब्दार्थः तर्हि तस्य मानसतपस्त्वं कथं स्यात् इति पृच्छति– किन्त्विति ।। उत्तरमाह– अत्रेति ।। ‘मौनमात्मविनिग्रहः’ इति गीतायाम् । लक्ष्यते मौनशब्देन । लक्षणाबीजसम्बन्धस्फोरणायोक्तं– तत्कारणमिति ।। ‘मनसा वा अग्रे सङ्कल्प-यति, अथ वाचा व्याहरति, तस्मात् मन एव पूर्वरूपम्, वागुत्तररूपम्’ इत्यादिना मनोव्यापारपूर्वकत्वावगमाद्वाग्व्यापारस्य तन्नियमे साऽपि नियता भवतीति भावः । कश्चित् शङ्करः । तथा च तदीयं भाष्यम् ‘वाक्संयमोऽपि मनःसंयमपूर्वको भवतीति कार्येण कारणमुपलक्ष्यते मनःसंयमो मौनमिति’ इति । ‘सर्वतः सामान्यरूप आत्मविनिग्रहः, वाग्विषय-स्यैव मनसः संयमो मौनमिति विशेषः’ इति शङ्करेण भाषितत्वान्न पुनरुक्तिः इत्यत आह– कथञ्चित् परिहारेऽपीति ।। आत्मनिग्रहपदेनैव मौनग्रहणे सम्भवति सामान्यविशेषाभावे पुनरुक्तिं परिहरतोऽकौशलमेवेति भावेन ‘कथञ्चित्’ इत्युक्तम् ।। १६ ।।

गीताक्षरार्थस्तु  मनः प्रसाद इति ।। मनःप्रसादः प्रसन्नता प्रायेण विषयेष्वप्रवृत्तिः । सौम्यत्वम् अक्रौर्यं मौनं मननशीलत्वं न त्वभाषणत्वम् । तस्य मानसत्वाभावादिति भाष्ये स्पष्टम् । आत्मविनिग्रहः विषयेभ्यो मनसः प्रत्याहारशब्दितो निरोधः । विषयेभ्यः प्रत्याहृतस्य मनसो हरौ स्थापनमित्यपि आहुः । भावसंशुद्धिः आशये नानारागराहित्यम् । व्यवहारे मायाराहित्यमिति अन्ये । इत्येतन्मानसं तप उच्यते ।। १६ ।।

भावदीपिका

।। यस्मादेवमिति ।। ‘यद् अनेन हीदं सर्वं मतं तस्मात् स मुनिः, यस्मात् स मुनिः तस्मत्तं मुनिरित्याचक्षते’ इत्यर्थः । मन ज्ञान इति ।। अत्र नकारस्थः अकार उच्चारणार्थः । ‘मन्’ इत्येव धातुः, तस्मात् इकारप्रत्यये उपधाभूतस्य मकार-स्थस्याकारस्य उकारादेशे मुनिरिति भवतीति द्रष्टव्यम् । मौनशब्दफलितार्थं दर्शयति– आगमार्थस्येति ।। कथं तर्हि मानसं तपः इति पृच्छति – किन्त्विति ।। उत्तरमाह– अत्रेति ।। ‘मुनिर्मननशीलो भवति’ इत्यत्र मननशब्देन प्रसिद्धमननविवक्षायां बाल्यशब्देन पुनरुक्त्यापत्तेः, अतो ‘युक्तिबलोपेतत्वं योग्यतारूपम्’, ‘मननशीलो भवति’ इति तु फलोपधानं व्याख्येयम् । एवं व्याख्याने तत्त्वप्रकाशिकाविरोधः । अतो मननशब्देन ध्यानं ग्राह्यम् । ध्यानमननयोरुभयोरपि मानसतपस्त्वसम्भवेन ध्यानग्रहणे बाधकाभावाद् बाल्यशब्देन प्रसिद्ध-मननमेवेति मन्तव्यम् । ‘आगमार्थस्य युक्तिभिरनुसन्धानम्’ इत्युत्तरवाक्यमपि युक्तिभिरनु चिन्तनरूपमननानन्तरम् आगमार्थस्य भगवतो विषये सन्धानं मनःसन्धानं ध्यानमिति यावदिति योज्यम् । तत्कारणमिति। वाङि्नयमे करणमित्यर्थः ।। ‘मनसा वा अग्रे सङ्कल्पयति, अथ वाचा व्याहरति’ इति श्रुतेर्मनोनियमनस्य वाङ्नियमकारणत्वादिति भावः । ‘कारणम्’ इति लक्षणाबीजसम्बन्धोपपादनायोक्तमिति द्रष्टव्यम् । मौनपदेन वाङ्नियमकारणमनोनियमो लक्ष्यते । ‘आत्मविनिग्रह’ इत्यनेन चक्षुरादीन्द्रियनियमोऽभिप्रेत इति न पुनरुक्तिः इत्यत आह– कथञ्चिदिति ।। वाङ्नियमहेतुत्वेन उक्तमनोनियमेनैव चक्षुरादीन्द्रियनियमनस्यापि लब्धत्वात् पृथक् न वक्तव्यमित्याशयेन ‘कथञ्चित्’ इत्युक्तम् । आत्मशब्दस्य चक्षुरादिवाचित्वाभावाभि-प्रायेण वा ‘कथञ्चित्’ इत्युक्तमिति द्रष्टव्यम् । मुख्यार्थेति ।। मौनशब्दस्य मननशीलत्व-रूपमुख्यार्थः ।। १६ ।।

भावप्रकाशः

 ।। अङ्गसौष्ठवं सौम्यत्वमिति ।। ‘सौम्यं तु सुन्दरे प्रोक्तम्’ इत्यमरेण सौम्यशब्दस्य सुन्दरार्थकत्वोक्तेरिति भावः । भाष्ये ‘सौम्यत्वमक्रौर्यम्’ इति सोम इव सौम्यः इवार्थे ‘शाखादिभ्यो यः’ इति यः । ततः स्वार्थे प्रज्ञाद्यण् , तस्य भावः सौम्यत्वमिति बोध्यम् । ‘पाण्डित्यमागमज्ञानं बाल्यं युक्तिसहायता’ इति प्रमाणानुसारेण व्याचष्टे– युक्ती-त्यादिना ।। मननशील इति ।। यद्यपि ‘मौनं तूपासनासिद्धिः’ इत्युक्तेः ‘ध्यानमेव मौनम्’ इत्यन्यत्रोक्तम् । तथाऽपि मौनं मननशीलत्वमित्यर्थे श्रुतेरुक्तत्वात् तदानुकूल्यायैवं व्याख्यातम्, प्रकारान्तरत्वाच्च न विरोधः ।‘मनेरुच्चोपधायाः’ इति मनेरिन् उपधाकारस्य चोकार इत्याह– मनज्ञान इत्यादिना ।। अनुबन्धलोपाभिप्रायेणेकार इत्येवोक्तम् ।

ननु मुनिशब्दस्य मननशक्तिशीलार्थत्वेऽपि ‘मौनं मननशीलत्वम्’इत्यत्र कथं श्रुतिर्मानमित्यत आह– मुनेर्भाव इति ।। ननु ‘मन ज्ञाने’ इत्युक्तेर्ज्ञानमेव मननम्, । तस्य च मनोनियमः । तस्य च मनोमात्रजन्यत्वाभावात् मानसतपस्त्वं कथमित्यतो मननशीलत्वं निर्वक्ति– तच्चेति ।। अनुसन्धानस्य मनोमात्रजन्यत्वाद्युक्तमुक्तमिति भावः । तर्हि मानस-तपस्त्वं कथमिति पृच्छति– किन्त्विति ।। उत्तरमाह– अत्रेति ।। ननु मौनपदेन वानिङ्यमनकारणत्वेनैव मनोनियमो लक्ष्यते । आत्मविनिग्रहपदेन तु चक्षुरादिनियमहेतुत्वेन विषयस्मरणनियमहेतुत्वेन वा मनोनियमो लक्ष्यत इति न पुनरुक्तिरित्यत आह– कथञ्चि-दिति ।। यद्वा ननु वाग्विषयस्यैव मनसः संयमो मौनपदेन लक्ष्यते । आत्मविनिग्रहस्तु सर्वतो मनोविरोधात्मकत्वात् सामान्यरूप इति न पुनरुक्तिरित्यत आह– कथञ्चित्परिहारेऽपीति ।। आत्मविनिग्रहपदेन तल्लाभेऽपि सामान्यविशेषभावेन पुनरुक्तिं वदतो गौरवमित्यभिप्रेत्य कथञ्चिदित्युक्तम् ।। १६ ।।