असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ।। १४ ।।

असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।

ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी  ।। १४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु असौ परोक्षः शत्रुः मया हतः अपरानपि शत्रून् हनिष्ये । ईश्वरोऽहं ब्रह्माहमस्मि भोगी आतिशयनिक इनिः । सर्वातिशायी भोगशाली सिद्धः कृतकृत्यः न साधारणोऽहम्, किन्तु बलवान् सुखी चाहमेव ।। १४ ।।