एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह।। ९ ।।

सञ्जय उवाच

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह।। ९ ।।

भावरत्नकोशः

अक्षरार्थस्तु– एवमर्जुनेन भगवन्तं प्रति प्रकाशितोऽभिप्रायो धृतराष्ट्रं प्रति सञ्जयेन आवेदित इत्युच्यते सञ्जय उवाच– एवमुक्तवेति ।। हृषीकेशम् इन्द्रियनियामकम् । परन्तपः गुडाकेशः अर्जुनः ।। ९ ।।