बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेेन धनञ्जय ।। २९ ।।

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।

प्रोच्यमानमशेषेण पृथक्त्वेेन धनञ्जय ।। २९ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- इदानीं बुद्धेर्धृतेश्च गुणकृतो भेदः श्रावयितुः प्रतिज्ञायते– बुद्धेरिति ।। धनञ्जय अर्जुनो हि दिग्विजयकाले प्रभूतं धनं जितवान्, तेनासौ धनञ्जयः, तत्सम्बुद्धिः । बुद्धेः धृतेश्च गुणतः सत्त्वादिगुणतः प्राप्तं त्रिविधं भेदम् अशेषेण निरवशेषतः यथावदिति यावत् पृथक्त्वेन विभागेन मयैव प्रोच्यमाणं शृणु इति ।। २९ ।।