यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति ।। २० ।।

यत्रोपरमते चित्तं निरुद्धं योगसेवया ।

यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति ।। २० ।।

भाष्यम्

आत्मना मनसा । आत्मनि देहे । आत्मानं भगवन्तं पश्यन् ।। २० ।।

भावप्रदीपिका

यत्र चैवात्मना इत्यात्मशब्दत्रयार्थमाह – आत्मनेति ।।२०।।

भावप्रकाशिका

‘यत्र चैवात्मना’ इत्यर्धगतात्मशब्दत्रितयार्थानाह आत्म-नेत्यादिना । न चात्र ‘आत्मानम्’ इत्यत्र जीवपरमात्मैक्यं प्रतीयते, नापि युज्यते पूर्वोक्तदोषात् । अत्र केनचिद्भगवतश्चतुर्भुजाद्याकारध्याने ‘समं काय..’ इत्यादिप्रकरणविरोध इत्युक्तम् । तदसत् । समं कायशिरोग्रीवं धारयताऽपि साकारध्यानाविरोधात् । सकलैश्वर्य-युक्तब्रह्मस्वरूपाकारस्य द्वितीयाध्याये समर्थितत्वान्न कश्चिद्दोषः ।। २० ।।

प्रमेयदीपिका

यत्र चैवाऽऽत्मना इत्यत्र पदत्रयं व्याख्याति – आत्मनेति ।। अन्वयापेक्षया व्युत्क्रमः। पश्यन् इति स्थानविवेकार्थमुक्तम् ।। २० ।।

भावबोधः

।। स्थानविवेकार्थमिति ।। ‘यत्र चैव’ इति वाक्यगत‘आत्मना’ इति तृतीयान्तपदव्याख्यानानन्तरं द्वितीयान्तसप्तम्यन्तपदयोर्व्युत्क्रमेण व्याख्याने आत्मन्येव वशं नयेत्, युञ्जन्नेवं सदात्मानमित्युत्तरवाक्यगतात्मशब्दव्याख्यानमिति विज्ञायेत । तन्मा विज्ञायीति ‘पश्यन्’ इति पदसमभिव्याहृतद्वितीयान्तसप्तम्यन्तयोरेवात्मपदयोरिति व्याख्यानमिति स्थानविवेकार्थमित्यर्थः

।। २० ।।

भावदीपः

।। व्युत्क्रमः ।। गीताक्रमव्यत्यासो भाष्यक्रम इत्यर्थः ।। ‘पश्यन्’ इति पदार्थे विगानाभावेन व्याख्यानाकरणाद् भाष्ये तदनुवादो व्यर्थ इत्यत आह– स्थानेति ।। पश्यन् इत्यत्र कर्मतया श्रुताऽत्मपदस्य भगवन्तम् इति व्याख्येति ज्ञापनार्थमित्यर्थः ।। २० ।।

भावरत्नकोशः

।। पदत्रयम् ‘आत्मना’ ‘आत्मानम्’ ‘आत्मनि’ इति पदत्रयम् । ननु ‘आत्मानम्’ इति द्वितीयान्तं व्याख्याय ‘आत्मनि’ इति सप्तम्यन्तं व्याख्येयम् । गीतानुसारात् । तत्किमिति व्युत्क्रमेण व्याख्यातमित्यत आह– अन्वयापेक्षयेति ।। ‘आत्मन्यात्मानम्’ इत्यन्वय-प्रदर्शनार्थमित्यर्थः । ननु ‘पश्यन्’ इति पदस्य विगानाभावाद् अव्याख्येयस्याप्यनुवादः किमर्थमित्यत आह– स्थानेति ।। ‘यत्र चैवात्मना’ इति तृतीयान्तपदव्याख्यानानन्तरं द्वितीयान्तसप्तम्यन्तयो-र्व्युत्क्रमेण व्याख्यानप्रस्तावाद् ‘आत्मन्येव वशं नयेत्’ ‘युञ्जन्नेवं सदाऽऽत्मानम्’ इत्युत्तरवाक्य-गतात्मशब्दयोर्व्याख्यानमेतदिति प्रतीतिः स्यात् । तद्व्यावर्तनेन प्रदेशविशेषज्ञापनार्थमित्यर्थः ।।

किञ्च योगसेवया योगाभ्यासेन निरुद्धं चित्तं यत्र समाधौ उपरमते अन्यत्र उपरतव्यापारं भवति, यत्र च समाधियोगे आत्मना मनसा आत्मनि देहे आत्मानं भगवन्तं पश्यन् तुष्यति तोषं प्राप्नोति ।। २० ।।

भावदीपिका

।। पदत्रयमिति ।। तृतीयान्तं, सप्तम्यन्तं्, द्वितीयान्तं चात्मपद-मित्यर्थः । ननु गीतानुसारेण तृतीयान्तत्मशब्दव्याख्यानानन्तरं द्वितीयान्तात्मशब्दं व्याख्याय, अनन्तरं सप्तम्यन्तात्मशब्दो व्याख्येयः । तत्कुतो व्युत्क्रमेण व्याख्यातमित्यत आह– अन्वयेति ।। आत्मना आत्मनि आत्मानं पश्ययन्नित्यन्वयस्य विवक्षितत्वेन तदपेक्षयैवं व्युत्क्रमेण व्याख्यानमिति भावः । स्थानेति ।। ‘आत्मन्येव वशं नयेत्’ इत्यत्रत्यसप्तम्यन्तात्मशब्दव्याख्यानमिदं नेति सूचयितुं व्याख्येयात्मशब्दस्थानविवेकाय ‘पश्यन्’ इत्युक्तमित्यर्थः ।। २० ।।

भावप्रकाशः

।। स्थानविवेकार्थमिति ।। ‘यत्र चैवात्मना’ इति तृतीयान्तपद-व्याख्यानान्तरं द्वितीयान्तसप्तम्यन्तयोः व्युत्क्रमेण व्याख्यानकरणात् ‘आत्मन्येव वशं नयेत्’ ‘युञ्जन्नेवं सदाऽत्मानम्’ इत्युत्तरवाक्यगतात्मशब्दयोर्व्याख्यानमिति प्रतीतिः स्यात् । तद्व्यावृत्त्यर्थ-मित्यर्थः ।। २० ।।