यं यं वाऽपि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमैवैति कौन्तेय सदा तद्भावभावितः ।। ६ ।।

यं यं वाऽपि स्मरन् भावं त्यजत्यन्ते कलेवरम् ।

तं तमैवैति कौन्तेय सदा तद्भावभावितः ।। ६ ।।

गीताक्षरार्थस्तु- तत्स्मरणेन तद्भावप्राप्तिः कथम् । इत्यतो व्याप्तिरुच्यते यं यमिति । अन्ते स्मरन् यः कलेवरं त्यजति स तं तं भावं याति । अन्तकाले स्मरणोपायः कथ्यते सदेति । तस्मिन् भावः अन्तर्गतं मनः तेन भावितः अतिवासितः संस्कृतः निरन्तरचिन्ताजाततद्गोचरस्मृतिजनक-संस्कारशालीत्यर्थः ।। ६ ।।