चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ।। ११ ।।

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।

कामोपभोगपरमा एतावदिति निश्चिताः ।। ११ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु किञ्च अपरिमेयाम् परिमातुम् इयत्तया परिच्छेत्तुमशक्याम्, प्रलयान्तां मरणावसानां चिन्ताम् उपाश्रिताः मरणावधि दुर्विषयचिन्तापराः कामोपभोगपरमाः ‘काम्यन्ते’ इति कामाः विषयाः शब्दाद्याः, तेषामुपभोग एव परमः मुख्योऽर्थो येषां ते तथा, एतावदिति निश्चिताः एतत्परिमाणम् ऐहिकविषयसुखमेव श्रेयः, न आमुष्मिकमन्यच्छ्रेय इति कृतनिश्चयाः, ‘प्रवर्तन्ते’ इति पूर्वेण ‘अर्थसंचयान् ईहन्ते’ इति परेणान्वयः ।। ११ ।।