पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ।। २४ ।।

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।

सेनानीनामहं स्कन्दः सरसामस्मि सागरः ।। २४ ।।

भावरत्नकोशः

पुरोधसामिति ।। पुरोधसां पुरोहितानां मध्ये बृहस्पतिं मां विद्धि जानीहि चिन्तय च । सेनानीनां नुडागमः छान्दसः । सेनान्याम् । यद्वा सेना-शब्दोपपदात् नयतेः औणादिके डिप्रत्यये ह्रस्वान्ततया नुडागमे, ‘नामि’ इति दीर्घे च ‘सेनानीनाम््’ इति रूपम् । देवसेनानायकानां स्कन्दोऽहम् । सरसां देवखातानां सागरः समुद्रोऽस्मि ।। २४ ।।