अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ।। ४२ ।।

अथवा योगिनामेव कुले भवति धीमताम् ।

एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ।। ४२ ।।

भावरत्नकोशः

धीमतां ज्ञानिनां योगिनामेव कुलेऽथवा भवति उत्पद्यते । अस्य फलत्वं घटयितुमुच्यते एतदिति । यदीदृशं जन्म इत्युक्तं विविधमपि जन्मेत्येतद् दुर्लभतरं दुःख-लभ्यतरम् । हि प्रसिद्धम् ।। ४२ ।।