यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ।। ३५ ।।

यया स्वप्नं भयं शोकं विषादं मदमेव च ।

न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ।। ३५ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु ययेति ।। दुर्मेधाः दुष्टाविवेकपरिभूता मेधा प्रज्ञा यस्य स तथा । ‘नित्यमसिच् प्रजामेधयोः’ इत्यसुच्प्रत्ययः, पुमान् यया स्वप्नं निद्रां भयं त्रासं शोकं दुःखं विषादं सर्वव्यापारोपरमहेतुं मनोदौर्बल्यं मदं विषयसेवां च, उपलक्षणमिदं स्वप्नादिग्रहणं भगवद्द्वेषादिसर्वनिषिद्धस्य, न विमुञ्चति प्रत्युताचरति, तस्य सा धृतिः तामसी

।। ३५ ।।