मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ।। २६ ।।
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ।। २६ ।।
भाष्यम्
ब्रह्मवत् प्रकृतिवद् भगवत्प्रियत्वं ब्रह्मभूयम् । न तु तावत्प्रियत्वम् । किन्तु प्रियत्वमात्रम् । ‘बद्धो वाऽपि तु मुक्तो वा न रमावत् प्रियो हरेः’ इति पाद्मे । भूयाय भावाय ।। २६ ।।
भावप्रदीपिका
ब्रह्मभूयशब्दार्थमाह– ब्रह्मवदिति । भूयशब्दः कथं भगवत्प्रियत्वं वक्ति इत्यत आह– भूयायेति । पूर्वोक्तमार्थिकमित्यर्थः ।। २६ ।।
प्रमेयदीपिका
‘ब्रह्मभूयाय’ इत्यस्य ‘परब्रह्मत्वाय’ इति व्याख्यानं प्रमाणविरुद्धमिति भावेनान्यथा व्याचष्टे– ब्रह्मवदिति ।। नात्र ब्रह्मशब्दं परं ब्रह्म । किन्तु ‘मम योनिर्महद्ब्रह्म’ (१४.३) इति प्रकृता प्रकृतिरेव । ‘ब्रह्मणो हि प्रतिष्ठाऽहम्’ (१४.२७) इत्युत्तरवाक्यात् । तद्भूयं च न तादात्म्यम्, किन्तु तद्वद्भगवत्प्रियत्वमेव । अन्यस्यान्यभावायोगादिति भावः ।। तत्किं यावत् प्रकृतेः भगवत्प्रियत्वं तावद्गुणा-तीतस्य? इत्यतः सप्रमाणमाह– न त्विति ।। तत्किं भूयशब्दः प्रियत्ववाची ? येनैवं व्याख्यायत इत्यत आह– भूयायेति ।। ‘भुवो भावे’ इति वचनाद् भावो भवनं भूयशब्दार्थः । ब्रह्मवद् भावः ब्रह्मभूयम् । ‘वदः सुपि’ इति सुबन्तमात्रस्योपपद-स्यानुवृत्तेः । वत्यर्थस्य च वृत्तावन्तर्भावात् । मयूरव्यंसकादिवत् । वत्यर्थश्च प्रियत्वमिति तदुक्तमिति भावः ।। २६ ।।
भावबोधः
।। भुव इति ।। भुवो धातोर्भावे भवनरूपेऽर्थे क्यप्प्रत्ययविधाने कित्वाद्गुणभावे भूय इति रूपमित्यर्थः । ननु ‘भुवो भावः’ इत्यत्र ‘वदः सुपि’ इत्यतः सुपीत्यनुवृत्तेः ब्रह्मवदिति वत्यन्तेन विग्रहे वत्यन्तस्याव्ययत्वेन सुपो लोपे सुबन्तोपपदत्वा-भावात् कथं क्यप्प्रत्यय इत्यत आह – सुबन्तमात्रस्येति ।। प्रत्ययलक्षणेन सुबन्तत्वाक्षतेरिति भावः । ननु तर्हि ‘ब्रह्मभूयाय’ इत्यस्य प्रकृतिभवनायेत्यर्थः स्यात् । तच्च विरुद्धमित्यत आह – वत्यर्थस्येति ।। समासवृत्तावित्यर्थः । तत्र दृष्टान्तमाह – मयूरव्यंसकादिवदिति ।। ‘मयूरव्यंसकादयश्च’ इति सूत्रेण मध्यमपदलोपसमासविधानान्मयूरवद्व्यंसको मयूरव्यंसक इतिवत् ब्रह्मवद्भूयो ब्रह्मभूयमिति भवतीत्यर्थः ।। २६ ।।
।। इति श्रीरघूत्तमतीर्थप्रणीता श्रीगीताभाष्ये भावबोधाभिधा टिप्पणी चतुर्दशोऽध्यायः ।।
भावदीपः
।। ब्रह्मशब्दमिति ।। ‘ब्रह्म’ इति शब्दो यस्य तद् ब्रह्मशब्दम्, ब्रह्मशब्दवाच्यमित्यर्थः । इति वचनादिति ।। तृतीयस्याद्यपादे ‘वदः सुपि क्यप् च’ इति सूत्रात् क्यप्प्रत्ययमनुवर्त्य ‘भुवो भावे’ इति सूत्रे ‘सुबन्त उपपदे भूधातोर्भवनरूपेऽर्थे क्यप्प्रत्ययो भवति’ इत्युक्तत्वात्, कित्वेन गुणाभावे ‘भूयः’ इति रूपसिद्धेरिति भावः ।।
ननु तत्र ‘वदः सुपि’ इत्यनुवृत्तेर्वत्यन्तस्य च सुबन्तत्वाभावात् कथमत्र क्यप््प्रत्यय इत्यत आह– सुबन्तेति ।। मात्रपदेन ‘तद्ब्रह्म’ इत्यादाविव भावकर्मरूपार्थविशेषो व्यावर्त्यते । नात्र वतिप्रत्ययोऽस्ति । किन्तु वत्यर्थ एव । स च समासेऽन्तर्भूत एव प्रतीयते । अतः सुबन्तोपपदत्वमस्त्येवात्रेति भावेनाऽह– वत्यर्थस्येति ।। वृत्ताविति ।। समास इत्यर्थः । मयूरवद् व्यंसको मयूरव्यंसक इति समासो यथा ‘मयूरव्यंसकादयश्च’इति सूत्रोक्तस्तथात्रापि समास इत्यर्थः । तदुक्तमिति ।। प्रकृतिवद् भगवत्प्रियत्वं ब्रह्मभूयपदेनोक्तमित्यर्थः ।। २६ ।।
वाक्यार्थप्रदीपः
ननु भवनं कथं भूयःशब्दार्थ इत्यत आह– भुवो भाव इति वचनादिति ।। भू इत्येतस्माद्धातोर्भावे भवनरूपेर्थे क्यप्प्रत्यये कित्वाद् गुणाभावे च भूय इति रूपसिद्धिरित्यर्थः ।।
ननु भुवो भाव इति सूत्रे सोपसर्गस्य सुपोनुवृत्त्या सोपसर्गे सुबन्त उपपद एव क्यप्विधायकत्वावगमात् प्रकृते च सोपसर्गस्य सुबन्तस्योपपदत्वाभावात् कथं क्यप् इत्यतः सत्सूद्विष इत्यत्रानुवर्तमानेपि उपसर्गे पुनः उपसर्गेपि इत्युपसर्गवचनं सुपीत्युपपदग्रहणस्थले उपसर्गाननुवृत्तिं दर्शयितुमिति वृत्तावुक्तत्वात् वदः सुपीत्यत्रापि सुपीत्युपपदोपादानेन उपसर्गानु-वृत्तेरभावात् भुवो भाव इत्यत्र च तन्मात्रस्यैवानुवृत्तेः उपसर्गाभावेपि अस्य युक्तः क्यप् इत्याशयेनाह– वदः सुपीत्यादि ।। ननु ब्रह्मशब्दस्योपपदत्वे ब्रह्मवद् भूय इति वतिश्रवणापत्तिरित्यत आह– वत्यर्थस्येति ।। वृत्तौ समास इत्यर्थः । अत्रैव सम्प्रतिपन्नं दृष्टान्तमाह– मयूरव्यंसकादिवदिति ।। मयूरव्यंसकादयश्च इति सूत्रेण मध्यमपदलोपसमास-विधानात् मयूरव्यद् व्यंसको मयूरव्यंसक इति वृत्तौ अन्तर्भाववदित्यर्थः ।। यद्वा ननु ब्रह्मभूय-मित्यस्य ब्रह्मत्वमिति प्रतिपदं वदता वृत्तिकारेण एतयोः पर्यायत्वं वदतता अभिधानकारेण च षष्ट्यन्त एवोपपदे प्रवृत्तिनिमित्ते द्योत्ये क्यपोभ्यनुज्ञानात् कथमेतदित्यतः कृत्प्रकरणे सूत्रगतभावशब्दस्य धात्वर्थमात्रपरत्वाश्रयणात् सुपीत्येवानुवर्तनात् युक्तमेतद्व्याख्यानमित्या-शयेनाह– भुवो भाव इति वचनादित्यादिना ।।
।। इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां श्रीविद्याधीशतीर्थतत्पूज्यचरणानां निजशिष्यकेशवेन विरचिते
व्याकरणस्पृष्टप्रमेयदीपिकावाक्यार्थप्रदीपे चतुर्दशोध्यायः ।।
भावरत्नकोशः
‘स्याद् ब्रह्मभूयं ब्रह्मत्वम्’ इत्यमरोक्तेराह– ब्रह्मत्वायेति ।। ‘इति भावेन’ इत्यनन्तरं ‘तत्पदम्’ इत्यध्याहार्यम् । ‘ब्रह्मशब्दम्’ इत्यत्र बहुब्रीहिः, ब्रह्मशब्दवाच्यमित्यर्थः । प्रकृतिरेव ब्रह्मशब्दा प्रतिष्ठा प्रतिष्ठापक इत्यर्थः । न ह्युत्सर्गतः स्वात्मा स्वस्य प्रतिष्ठापक इति भावः । तत्तादात्म्यं न तच्छब्दार्थ इत्यत्र युक्तिमाह– अन्यस्येति ।। आह प्रियत्वं भावशब्दस्य । ‘तस्य भावस्त्वतलौ’ इत्यत्रेव प्रवृत्तिनिमित्तधर्मार्थत्वे परव्याख्यानप्रत्याख्यानायोगः इत्यतोऽर्थमाह– भावो भवनमिति ।। कुतोऽयमर्थो ज्ञायते इत्यत उक्तम् – भुवो भाव इति ।। ‘सुबन्त उपपदे भूधातोः भवनरूपेऽर्थे क्यप् प्रत्ययो भवति इति पाणिनीयसूत्रादित्यर्थः । भूयशब्दस्य भवनार्थकत्वेऽपि प्रकृतिभवनमेव प्राप्तम्, न तु प्रकृतिवत् प्रियत्वम् इत्यतो भाष्यभावमाह– ब्रह्मवद् भाव इति ।। ननु ‘ब्रह्मवद्भावः’ इत्यर्थे ‘ब्रह्मभूयम् इति न रूपम् उपपद्यते । ‘वदः सुपि’ इति पूर्वसूत्राद् ‘भुवो भावे’ इति सूत्रे ‘सुबन्ते उपपदे’ इत्यनुवृत्तेरिष्टत्वाद्, वत्यन्तस्य ब्रह्मशब्दस्य सुबन्तत्वाभावात्, इत्यत आह– वदः सुपीत्यत इति ।। सुबन्तमेवोपपदं विवक्षितम्, न तु वत्यन्तमपि । ब्रह्मशब्दश्चात्र सुबन्त एवोपादीयते ।
तर्हि ‘ब्रह्मणो भूयम् भवनम् इत्येव प्रतीयते, न तु ‘ब्रह्मवद् भवनम् इति इत्यत उक्तम्– वत्यर्थस्य चेति ।। वृत्तौ ब्रह्मभूयम् इति समासवृत्तौ । अन्तर्भावात् अन्तर्भूततया प्रतीतेरिष्टत्वात् । तच्छब्दाभावेऽपि तदर्थस्य समासवृत्तौ अन्तर्भावेनावभासे दृष्टान्तमाह– मयूर-व्यंसकादिवदिति ।। ‘मयूर इव व्यंसकः मयूरव्यंसकः’ इत्युपमानपूर्वपदकर्मधारय इति मते यथा ‘मयूरव्यंसकः’ इति समासे इवशब्दाभावेऽपि समासशक्त्यैव तदर्थः प्रतीयते, ‘मयूरव्यंसका-दयश्च’ इति सूत्रेण तदर्थे समासनिपातनात् तथा ब्रह्मभूयसमासेऽपि वत्यर्थः प्रत्येतुं युक्त इति भावः । एवं ब्रह्मभूयशब्दसमुदायार्थमुक्त्वा प्रकृतमाह– वत्यर्थश्चेति ।। वत्यर्थो हि सादृश्यम् । तच्च तद्भिन्नत्वे सति तद्गतधर्मयोगित्वम् । प्रकृते प्रियत्वमेव तद्गतधर्म इति भावेन । तदुक्तम् प्रकृतिवत् भगवत्प्रियत्वमेव ब्रह्मभूयपदेनोक्तमित्यर्थः ।।
गीताक्षरार्थस्तु– एवं गुणातीतस्याचारमुक्त्वा केनोपायेन गुणानतीत्यैति इति प्रश्नस्योत्तरमुच्यते– मां चेति ।। प्रश्नोत्तरसमुच्चये चशब्दः, एवार्थो वा । अव्यभिचारेण न विद्यते व्यभिचारः अन्यगामित्वं यस्य स तथा तेन अनन्यविषयेण भक्तियोगेन भक्तिलक्षणो-पायेन सेवते उपास्ते सः अपरोक्षज्ञानी सन् एतान् बन्धकत्वेनोक्तान् त्रीन् गुणान् समतीत्य ‘ब्रह्मभूयाय’ इत्यत्र ब्रह्मशब्दः अत्र ‘मम योनिर्महद् ब्रह्म’ इति प्रकृतमहालक्ष्मीवचनः । ब्रह्मणो हि प्रतिष्ठाऽहम् इति वक्ष्यमाणत्वाच्च । भूयशब्दश्च ‘भुवो भावे’ इति पाणिनिवचनाद् भावशब्दार्थः । भावश्च भवनम् । अन्यस्य अन्यभवनायोगाद् महालक्ष्मीवत् स्वयोग्यतापेक्षया भगवत्प्रियत्वमेव व्याख्येयमिति ‘ब्रह्मभूयाय’ इत्यस्य महालक्ष्मीवत् ‘भगवत्प्रियत्वाय’ इत्यर्थो भवति । कल्पते ‘क्लृपू सामर्थ्ये’ समर्थो भवति मुक्तो भवतीति यावत् ।। २६ ।।
भावदीपिका
।। ब्रह्मशब्दम् ब्रह्मशब्दवाच्यम् । प्रतिष्ठाऽहमिति ।। ‘प्रतिष्ठा धारकः पुमान्’ इति वचनाद् धारकत्वं प्रतिष्ठाशब्दार्थः । नहि स्वयं स्वस्य प्रतिष्ठापक इति भावः । ‘परब्रह्मत्वाय’ इति व्याख्याने बाधकमाह– अन्यस्येति ।। ‘भुवो भावे’ इति भुवो धातोर्भावे भवनरूपधात्वर्थविवक्षायां क्यप् प्रत्ययः स्यादिति सूत्रार्थः । तथा च ‘भू सत्तायाम्’ अस्मात् भावे क्यप्प्रत्यये ककारलोपे ‘भूय’ इति रूपम् । कित्त्वाद् गुणाभावः । अन्यथा ‘भोय’ इति स्यादिति द्रष्टव्यम् ।
ननु ‘भुवो भावे’ इत्यत्र ‘वदः सुपि क्यप् च’ इति पूर्वसूत्रात् ‘सुपि’ इत्यनुवृत्तेः ब्रह्मवत् इति वत्यन्तेन ब्रह्मशब्देन विग्रहे वत्यन्तस्याव्ययत्वेन ‘अव्ययादाप्सुपः.’ इति अव्ययात्परस्य सुपो लोपे, सुबन्तत्वाभावात् कथं तस्मिन् सुबन्ते उपपदे सति विहितः ‘भुवो भावे’ इति सूत्रेण क्यप्प्रत्ययः इत्यत आह– सुबन्तमात्रस्येति ।। सुबन्तत्वस्य श्रूयमाणत्वमपि न विवक्षितम्, किं नाम, सुबन्तत्वमात्रम् । तच्च प्रत्ययलोपे प्रत्ययलक्षणम्’ प्रत्यये लुप्तेऽपि तदाश्रितं कार्यं स्यात् इति विधानेन प्रत्यये लुप्तेऽपि सुबन्तत्वाक्षतेः युक्तस्तस्मिन्नुपपदे तेन क्यप्प्रत्यय इति भावः ।
ननु ‘ब्रह्मवद्भूयाय’ इति वतिः श्रूयेत इति चेत्तत्राह– वत्यर्थस्य चेति ।। वृत्ताविति ।। ‘ब्रह्मभूयाय’ इति समासवाक्य इत्यर्थः । वत्यर्थस्य समासवाक्येऽन्तर्भावे दृष्टान्तमाह– मयूर-व्यंसकादिवदिति ।। ‘मयूरव्यंसकादयश्च’ इति सूत्रेण मध्यमपदलोपविधानात् ‘मयूरवत् व्यंसको मयूरव्यंसकः’ इतिवत् ‘ब्रह्मवद्भावो ब्रह्मभूयम्’ इति मध्यमपदलोपसमासोऽयमिति भावः । ननु तर्हि ‘ब्रह्मभूयाय’ इत्यस्य ‘प्रकृतिवद्भवनाय’ इत्यर्थः स्यात् स चायुक्त इति चेत्, तत्राह– वत्यर्थश्चेति । प्रियत्वमिति ।। प्रियत्वमात्रम्, न तु तावत्प्रियत्वमित्यर्थः ।।२६।।
भावप्रकाशः
।। परब्रह्मत्वायेति ।। ‘स्याद्ब्रह्मभूयं ब्रह्मत्वम्’ इत्यमरोक्ते-रिति भावः । ब्रह्मशब्दमिति ।। बहुव्रीहिरयम् । ब्रह्मशब्दवाच्यमित्यर्थः । तद्द्वयं चेति ।। अत्र भाष्यटीकयोः नपुसंकलिङ्गपाठः साधुः । अन्यादृशस्तु प्रामादिकः । ‘भावे नण-कचिद्भ्योऽन्यः’ इति अमरेण ‘स्वपो नन् नौण च’ इत्याद्युक्तनणादिभिन्नानां भावार्थकृतां नपुंसकोक्तेरिति ज्ञातव्यम् । ‘तस्य भावस्त्वतलौ’ इत्यादाविव भावशब्दो धर्मार्थ इति प्रतीतिनिरासायाह– भावो भवनमिति ।। प्रतीत एवार्थः किं न स्यादित्यत आह– भुवो भाव इतीति ।। अनुपसर्गे सुप्युपपदे भूधातोर्भावे क्यबिति सूत्रार्थः । नात्र भावो धर्मः । क्यपः कृत्त्वेन तदर्थत्वायोगात् । तद्धितस्यैव तथात्वादिति भावः । ननु प्रियत्वप्रतिपादक-शब्दाभावात् कथं प्रियत्वमित्युक्तमिति चोद्यं तदवस्थमेवेत्याशङ्कां परिहर्तुं ब्रह्मभूयशब्दसमुदायार्थं तावदाह– ब्रह्मवद्भाव इति ।।
ननु अमरटीकादौ ब्रह्मभूयशब्दस्य ब्रह्मणो भाव इति विग्रहप्रदर्शनात् अनव्यय एव षष्ठ्यन्त एव ब्रह्मशब्द एव चोपपदे भुवः क्यप्प्रत्ययो भवतीति ज्ञायते । ततश्च ब्रह्मभूयशब्दस्य ब्रह्मवद्भावः कथमर्थः स्यादित्यत आह– वदः सुपीत्यत इति ।। सुबन्तमात्रस्येति ।। मात्रशब्दः कार्त्स्न्यवाची तेन नियमत्रयस्यापि व्यवच्छेदः । तदयमर्थः । ‘भुवो भाव’ इति सूत्रे ‘वदः सुपि’ इति सूत्रात् सुपीत्यनुवर्तते । तस्य च ‘प्रत्ययग्रहणे तदन्तग्रहणम्’ इति न्यायेन सुबन्त इत्यर्थः । ततश्च सुबन्ते इत्यर्थः । ततश्च सुबन्ते उपपदे भूधातोः क्यप् प्रत्ययः स्यात् भाव इति सूत्रार्थः । ‘न त्वनव्यये’ इत्यादिनियमो विवक्षितः । तत्प्रत्यायकाभावात् । सुपीत्यस्य च सुबन्तमात्रप्रत्यायकत्वात् ।
किं च ‘अनव्यय एव’ इति नियमे ‘पुनर्भूयम्’ इत्यादि न स्यात् । षष्ठ्यन्त एवेति नियमेऽष्टादशाध्याये ब्रह्मणि भावो ब्रह्मभूयमिति व्याख्यानं न स्यात् । ब्रह्मशब्द एवेति नियमे ‘देवभूयम्’ इत्यादि न स्यात् । तस्मात् सुबन्तमात्रमुपपदमित्यङ्गीकर्तव्यम् । तथा च ब्रह्मवच्छब्दस्य ‘अव्ययादाप्सुपः’ इति सुप्लोपेऽपि प्रत्ययलोपे प्रत्यलक्षणमिति न्यायेन सुबन्तत्वात् तदुपपदब्रह्मभूयशब्दाद् ब्रह्मवद्भावः प्रतीयेतैवेति । ननु ब्रह्मवच्छब्दस्य भूयशब्देन समासो ब्रह्मशब्दस्य वा । आद्ये समासे वतिश्रवणापत्तिः । अन्त्ये वत्यर्थप्रतीतिः न स्यादित्यत आह– वत्यर्थस्य चेति ।। वृत्तिशब्दः समासशक्तिपरः । अन्तर्भावादित्यस्य समासार्थभूततया प्रतीतेरित्यर्थः । ततश्च पक्षद्वयेऽपि समासशक्त्या वर्त्यर्थप्रतीतेः नानुपपत्तिः । इयांस्तु विशेषः । आद्ये पक्षे वतिप्रत्ययो लुप्यते । अन्त्ये तु स्वरूपेणैव स नास्तीति भावः । ननु शब्दाभावेऽपि तदर्थप्रतीतिः समुदायशक्त्या भवतीत्यनुपपन्नम् । अदर्शनात् । वतिप्रत्यय-लोपश्च कथम् । तद्विधायकाभावात् । किञ्च वत्यर्थव्यवधानेन समस्यमानपदार्थयोरसामर्थ्येन समासानुपपत्तिरित्यत आह– मयूरव्यंसकादिवदिति ।। ‘मयूर इव व्यंसको मयूरव्यंसकः’ इति उपमानपूर्वपदकर्मधारयवादिमतेनेदम् । आदिपदेन अकुतोभयादिशब्दसङ्ग्रहः । अयमर्थः । यथा मयूरव्यंसक इति प्रयोगे इवशब्दाभावेऽपि समासशक्त्यैव तदर्थप्रतीतिः इवशब्दार्थेन व्यवधानात् सामर्थ्याभावेऽपि समासः इवशब्दलोपश्च । ‘मयूरव्यंसकादयश्च’ इति समासादिनिपातानात् । तथा च ब्रह्मभूयशब्देऽपि वत्यर्थप्रतीतेः समासो वतिप्रत्ययलोपश्चोपपद्यते । मयूरव्यंसकादेरा-कृतिगणत्वात् । नच व्यंसको धूर्तः मयूरो व्यंसकः । मयूरव्यंसकादीत्यादिपदेन तस्मात् ब्रह्मवद्भाव इत्येव समासः पूर्वनिपातनियमार्थं च सूत्रमिति यन्मतं तत्र का गतिरिति वाच्यम् । तन्मतेऽपि नास्ति कुतो भयं यस्य सोऽकुतोभय इत्यादिवत् सर्वस्याप्युपपन्नत्वात् । तदिदमुक्तं मयूरव्यंसकादिवदित्यादिपदेन । तस्माद्ब्रह्मवद्भावो ब्रह्मभूयशब्दार्थ इत्यङ्गीकारे न कश्चि-त्क्षुद्रोपद्रवः ।
एवमुपोद्घातेन ब्रह्मभूयशब्दसमुदायार्थमुक्त्वा प्रकृतमाह– वत्यर्थश्चेति ।। वत्यर्थो हि सादृश्यम् । तच्च तद्भिन्नत्वे सति तद्गतधर्मवत्त्वम् । प्रकृते च प्रियत्वमेव तद्गतधर्म इति तदुक्तमित्यर्थः ।। २६ ।।