नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ।। २५ ।।
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ।। २५ ।।
भाष्यम्
अज्ञानं च मदिच्छयेत्याह– नाहमिति ।। योगेन सामर्थ्योपायेन । मायया च । मयैव मूढो नाभिजानाति । तथा हि पाद्मे–
‘आत्मनः प्रावृतिं चैव लोकचित्तस्य बन्धनम् ।
स्वसामर्थ्येन देव्या च कुरुते स महेश्वरः’ इति च ।। २५ ।।
भावप्रदीपिका
ननु त्वामविजानताम् अज्ञानमाहर्तुमसामर्थ्यात् कथमव्यक्तत्वं तव? इत्याशङ्कोत्तरत्वेनोत्तरश्लोकमवतार्य सप्रमाणकं व्याचष्टे– अज्ञानमिति ।। २५ ।।
भावप्रकाशिका
ननु स्वकार्यं देहं मन्यमानानामज्ञानं निवर्तयितुमशक्तः कथमानन्ददेहः स्यात् ? इत्याशङ्कापरिहारायोत्तरं श्लोकमवतार्य सप्रमाणकं व्याचष्टे– अज्ञानं चेति । ‘युज्यते येन योगोऽसावुपायः शक्तिरेव च’ इत्यभिधानात् सामर्थ्योपायौ योग-शब्दार्थौ । अत्र तु सामर्थ्यमेवोपायः ।। २५ ।।
प्रमेयदीपिका
तथाऽपि ‘नाहं प्रकाशः’ इति पुनरुक्तिरित्यतः तात्पर्यमाह– अज्ञानं चेति ।। येनाज्ञानेन मामन्यथा मन्यन्ते तदज्ञानं च मदिच्छाधीनमेव, न स्वतन्त्रम् । येन तया निन्दया मम खेदः स्यादिति भावः । ‘योग एव माया’ इति व्याख्यानमसदिति भावेनाऽह– योगेनेति ।। सामर्थ्यमेवोपायः ।।
‘युज्यते येन योगोऽसावुपायश्शक्तिरेव च’ इति वचनाद्योगशब्दस्योभयार्थत्वेन द्वन्द्वैक-वद्भावः किं न स्यात्? इति चेन्न । मायया च इत्यस्य वैयर्थ्यापत्तेः । तस्या अप्युपाय-विशेषत्वात् । अत एवोपायार्थत्वं गृहीत्वा सामार्थ्येति तद्व्याख्यानं कृतम् । इदं तात्पर्यं श्लोेके न प्रतीयते? इत्यत आह– मयैवेति ।। उक्तार्थस्थापनाय पुराणसम्मतिमाह– तथेति ।।
भावबोधः
‘सामर्थ्यमेवोपाय इति’ स्वकृतभाष्यव्याख्यानमेवाक्षिप्य समाधत्ते– युज्यते येनेत्यादिना । अत एवेति । यतः ‘उपायेन’ इत्येवोक्ते मायाया अप्युपायत्वेन योगशब्देनैव तद्ग्रहणप्राप्तौ ‘माया’ इति व्यर्थं स्यात् । अतोऽनेन योगशब्देन भगवत्सामर्थ्यरूपोपायविशेषस्यैव ग्रहणम् । न देव्याख्यानायासामर्थ्याद्युप•यमात्रग्रहणमिति दर्शयितुं सामर्थ्येति व्याख्यानं कृत-मित्यर्थः ।। २५ ।।
भावदीपः
।। उपायार्थत्वं योगपदस्येति योज्यम् ।। शङ्कते– युज्यत इत्यादिना ।। उभयेति ।। शक्त्युपायरूपोभयेत्यर्थः ।। द्वन्द्वैकवद्भाव इति ।। सामर्थ्योपायेनेति भाष्य इति योज्यम्
।। २५ ।।
भावरत्नकोशः
।। पुनरुक्तिरिति ।। ‘त्रिभिर्गुणमयैर्भावैर्मोहितं जगन्नाभिजानाति’ इति भगवतो जगदज्ञेयत्वस्य पूर्वमुक्तत्वादिति भावः । अज्ञानस्य भगवदधीनत्वोक्तेः प्रकृतासङ्गतत्वं परिहर्तुं भाष्यभावमाह– येनाज्ञानेनेति ।। चशब्दोऽवधारणार्थोऽपि इति भावेन तद्व्यावर्त्यमुक्तम्– न स्वतन्त्रमिति । ‘योगो युक्तिः, सैव माया योगमाया’ इति सङ्कङ्करोक्तेराह– इति व्याख्यान-मिति ।। सामर्थ्यमेवोपाय इत्युक्तिसमर्थनायाह– युज्यते येनेति ।। इति वचनाद्योगशब्दस्य सामर्थ्यमुपायश्चेत्युभयार्थत्वाद् भाष्ये एकवचनं द्वन्द्वैकवद्भावाभिप्रायेणेत्यस्त्विति शङ्कते– ‘युज्यत इति’ वा ।। ननु मायायाः समावरणत्वं च वक्तुं तदुक्तिरित्यत आह– तस्या अपीति ।। मायाया
इत्यर्थः । उपायविशेषत्वात् अप्रकाशोपायविशेषत्वाद् भाष्ये पुनः ‘मायया’ इति वचनं व्यर्थमेवेत्यर्थः ।
अत एव यतः ‘उपायेन’ इत्युक्तौ ‘मायया’ इत्यस्य वैयर्थ्यम्, अत एव योगशब्द-स्योपायार्थत्वग्र्रहणेन मायाया अप्युपायत्वेन प्राप्तिसम्भवात् तद्व्युदासस्फोरणाय ‘सामर्थ्यम्’ इत्यनेनोपायो विवृत इत्यर्थः । इदम् ‘अज्ञानं च मदिच्छया’ इति भाषितम् । उत्तरार्धसङ्गतये ‘मयैव’ इति वदता भाष्यकृता अहमेव मोहने, तत्कृतानभिज्ञाने च कर्तेत्यतो अज्ञानिकृतनिन्दया न मम खेदप्रसक्तिरिति तात्पर्यमस्मिन्नेव श्लोके प्रत्याहतमिति भावः । भाष्ये आत्मनः स्वात्मनः प्रावृतिं प्रावरणं स्वसामर्थ्येन लोकचित्तस्य बन्धनं याथात्म्यावगाहनशक्तिकुण्ठनं मायाऽभि-मानिन्या दुर्गादेव्या च स महेश्वरः कुरुत इति वचनेनैव ‘योग एव माया’ इति व्याख्यानमपि निरस्तमिति भावः ।।
येनाज्ञानेन मामन्यथा मन्यन्ते तदज्ञानं तदिच्छाधीनमेव, न स्वतन्त्रम्, येन तया निन्दया मम खेदः स्यादिति भावेनोच्यते– नाहमिति । योगः स्वसामर्थ्यलक्षण उपायः, माया देवी च ताभ्यां समावृतः सञ्छन्नः अहं सर्वस्य लोकस्य न प्रकाशः काशतेः कर्मणि घञ् । कस्यचिदेव भक्तस्य प्रकाशो भवामीति ‘न सर्वस्य’ इत्युक्तम् । स्वसामर्थ्येन स्वात्मनः प्रावरणं मायादेव्या च लोकचित्तस्य बन्धनं यतोऽहमेव करोमि, अतो मयैव मूढोऽयं लोको अजमव्ययं जन्मापायहीनं मां नाभिजानाति ।। २५ ।।
भावदीपिका
।। येन तथेति ।। तथा च मदधीनाज्ञानमूलकतन्निन्दया न मम खेद इति भावः ।। सामर्थ्यमेवोपाय इति ।। द्वन्द्वाभिप्राये ‘सामर्थ्योपायाभ्याम्’ इति स्यादिति भावः। ‘सामर्थ्यमेवोपाय’ इति व्याख्यानमेवाक्षिप्य समाधत्ते– युज्यत इत्यादिना ।। इति वचनादिति ।। गीतातात्पर्योदाहृतवचनादित्यर्थः । युज्यते उपेयं सम्भवतीत्युपायो योगः ।। शक्तिश्च युज्यते शक्यमनयेति योग इत्यर्थः । उभयार्थत्वेनेति ।। उपायसामर्थ्योभयार्थत्वेनेत्यर्थः । तर्ह्येक-वचनानुपपत्तिरित्यत आह– द्वन्द्वैकवद्भाव इति ।। कुत इत्यत आह– तस्या अपीति ।। मायाया अपीत्यर्थः । तथा चोपायशब्देनैव तस्याः प्राप्तत्वात् पुनः ‘मायया च’ इति भाष्यमयुक्तं स्यादिति भावः । अत एवेति ।। ‘उपायेन’ इत्येवोक्तौ मायाया अप्युपायत्वेन योगशब्दैनैव गृहीतत्वात् पुनः ‘मायया’ इति व्यर्थं स्यादिति यतः, अत एव योगशब्दस्य सामान्येनोपायमात्रवाचित्वमुक्त्वा, स एवोपायो भगवत्सामर्थ्यरूपविशेषपरतया व्याख्यातमित्यर्थः । इदं तात्पर्यमिति ।। ‘अज्ञानं च मदिच्छया’ इति तात्पर्यमित्यर्थः । प्रमाणे ‘देव्या च’ इत्युक्त्या ‘मायया’ इति भाष्यस्य ‘दुर्गा-देव्या’ इत्यर्थो द्रष्टव्यः । गीतायां योगमायासमावृतत्वं मूढलोकविशेषणमिति ज्ञातव्यम् ।। २५ ।।
भावप्रकाशः
पूर्वेण सङ्गतिमाह– येन ज्ञानेनेति ।। सामर्थ्यमेवोपाय इति स्वव्याख्यां समर्थयितुमाह– युज्यत इति ।। एकवचनोपपत्त्यर्थम् ‘एकवद्भाव’ इत्युक्तम् । अत एवेति । यत ‘उपायेन’ इत्येवोक्तौ ‘मायया’ इत्यस्य वैयर्थ्यमत एवेत्यर्थः । इदं तात्पर्यमिति । ‘अज्ञानं च मदिच्छया’ इति तात्पर्यमित्यर्थः ।। २५ ।।