प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ।। १० ।।
प्रयाणकाले मनसाऽचलेन
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम् ।। १० ।।
भाष्यम्
वायुजयादियोगयुक्तानां मृतिकाले कर्तव्यमाह– विशेषतः प्रयाणकाल इति ।।
भावप्रदीपिका
उत्तरश्लोकमवतारयति– वाय्विति ।
प्रमेयदीपिका
‘उत्तरश्लोकोक्तं सर्वं सर्वोच्चिक्रमिषुसाधारणम्’ इति प्रतीति-निरासार्थमाह– वायुजयादीति ।। साधकाः द्विविधाः भक्त्यादिप्रधाना वायुजयादि-प्रधाना-श्चेत्यतो विशेषणम् । विशेषतः इत्यनेन भक्त्यादीनां साधारण्यमाह ।।
भावबोधः
।। विशेषणमिति । वायुजयादियुक्तानामितीत्यर्थः ।।
भावदीपः
।। विशेषणमिति ।। ‘योगयुक्तानाम्’ इत्यस्य ‘वायुजयादि’ इति विशेषणमिति । ‘विशेषतो मृतिकाले कर्तव्यम्’ इत्युक्तिलब्धार्थमाह– भक्त्यादीनामिति ।। साधारण्यमिति ।। ‘द्विविधसाधकानाम्’ इति योज्यम् ।।
भावरत्नकोशः
।। उच्चिक्रमिषुसाधारणम् उत्क्रमणेच्छुसाधारणं कथं सर्व-साधारणं न भवति ? इत्यतस्तद्वक्तुमाह– साधका इति । ‘मोक्षस्य’ इति संयोज्यम् । विशेषणं ‘वायुजयादि’ इति योगविशेषणम् । भक्त्यादीनाम् भक्तिज्ञानवैराग्यादीनाम् ।
भावदीपिका
।। सर्वोच्चिक्रमिषुसाधारणमिति ।। उत्क्रान्तिमिच्छन्ति उच्चि-क्रमिषन्ति, उच्चिक्रमिषन्तीति उच्चिक्रमिषवः, सर्वे च त उच्चिक्रमिषवश्च सर्वोच्चिक्रमिषवः, तेषां साधारणमिति विग्रहः । आहेति ।। उत्तरश्लोकोक्तं किञ्चित्साधारणम्, किञ्चिदसाधारण-मित्या-हेत्यर्थः । विशेषणमिति ।। ‘वायुजयादियुक्तानाम्’ इति विशेषणमित्यर्थः । ‘भक्त्यादीनाम्’ इत्यत्रादिपदेन ज्ञानवैराग्यादीनां ग्रहणम् ।
भावप्रकाशः
वायुजयादियुक्तानामिति विशेषणं किमर्थमित्यत आह– साधका इति । न सर्वविषयमिति । द्विविधसाधकविषयं नेत्यर्थः । वायुजयादिप्रधानसाधकमात्रविषय-त्वादिति भावः । किञ्चित्साधारणमिति । सर्ववर्णाश्रमसाधारणमित्यर्थः । किञ्चिदसाधारण-मिति । अथ सन्ध्यामुपासीत वेदानावर्तयीतेत्यादिकं त्रैवर्णिकानामेवाग्निहोत्रमुपासीतेत्यादिकं गृहस्थानामेवासाधारणमित्यर्थः ।