सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ।। ५० ।।
सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ।। ५० ।।
भाष्यम्
यथा येनोपायेन सिद्धिं प्राप्तो ब्रह्म (प्रा)आप्नोति तथा निबोध । या सिद्धिः ज्ञानस्य परा निष्ठा ।। ५० ।।
भावप्रदीपिका
बुद्ध्या विशुद्धया इति ज्ञानसाधनस्योक्तेः, यथा इति ज्ञानोपाय एव ब्रह्मप्राप्त्युपाय इत्याह– यथेति । या इति ब्रह्मप्राप्तिपरामर्श इत्याह– येति ।। ५० ।।
प्रमेयदीपिका
‘सिद्धिं प्राप्तः’ इति योगसिद्धिप्राप्त्यनन्तरं ब्रह्मप्राप्ता-वुपायकथनं प्रतिज्ञायते’ इत्यन्यथाप्रतीतिनिरासार्थं व्याचष्टे– यथेति ।। ब्रह्माऽप्नोति इत्यनुवादमात्रम् । तथा तमुपायम् । प्रतीत एवार्थः किं न स्यात्? इति चेन्न । सिद्धेः ज्ञाननिष्ठाऽत्मकत्वेन अभिधानात् । ज्ञानस्य च ब्रह्मप्राप्तावनपेक्षत्वादिति भावेन ‘निष्ठा’ इत्येतद् व्याचष्टे– येति ।। ५० ।।
भावदीपः
तमिति शेषः, उपायम् इति व्याख्या, उपायमिति वा शेषः ।। अनपेक्षत्वादिति ।। अन्यानपेक्षतया स्वस्यैवाहेतुत्वादित्यर्थः ।। येतीति ।। या सिद्धिः ज्ञानस्य परिनिष्ठा नितरां स्थितिस्तां सिद्धिं प्राप्तः इति भाष्ये गीतायां चान्वय इति भावः ।।
भावरत्नकोशः
यथा येन’ इति भाषणानुसारेण ‘तथा’ इति पदमनूद्यार्थमाह– तथा तमुपायमिति ।। प्रतीत एवार्थः ब्रह्मप्राप्तौ उपायकथनप्रतिज्ञारूपः । ज्ञाननिष्ठेति ।। निश्चलापरोक्षज्ञानत्वेनेत्यर्थः । ज्ञानस्य अपरोक्षस्य अनपेक्षत्वादिति ज्ञानेन ब्रह्मप्राप्तौ जनयितव्यायां साधकनिष्ठसाधनान्तरानपेक्षत्वादित्यर्थः । ‘न किश्चिदन्तराधाय निर्वाणाया-परोक्षदृक्’ इति वचनादिति भावः ।। ५० ।।
गीताक्षरार्थस्तु- प्रतिज्ञापूर्वकं नैष्कर्म्यसिद्धिसाधनं विवृण्वता तदनन्तरभावि फलमुच्यते– सिद्धिमिति ।। हे कौन्तेय यया येनोपायेन सिद्धि प्राप्तो ब्रह्म आप्रोति तथा तमुपायं समासेन सङ्क्षेपेण मे सकाशात् निबोध नितरामवधारय । या सिद्धिः ज्ञानस्य परा निष्ठा पर्यवसितिः तां सिद्धि नैष्कर्म्यसिद्धिमित्यन्वयः ।। ५० ।।
भावदीपिका
‘सिद्धिं प्राप्तो यथा तथा निबोध’ इत्येव वक्तव्यत्वाद् ‘ब्रह्माप्नोति’ इति व्यर्थम् इत्यत आह– ब्रह्माप्नोतीति ।। तमुपायम् अपरोक्षज्ञानोपायम् । प्रतीत एवार्थः ब्रह्मप्राप्तावुपायकथनरूपः । ज्ञाननिष्ठात्मकत्वेनेति । निश्चलापरोक्ष-ज्ञानात्मकत्वेनेति यावत् । अनपेक्षत्वादिति ।। ‘सिद्धिम् अपरोक्षज्ञानं प्राप्तो यथा येनोपायेन ब्रह्माप्नोति तथा निबोध’ इत्युक्ते, अपरोक्षज्ञानस्य ब्रह्मप्राप्तौ पुनः साधनान्तरसापेक्षता प्रतीयेत । तदयुक्तम् ।
‘सर्वं तदन्तराधाय मुक्तये साधनं भवेत् ।
न किञ्चिदन्तराधाय निर्वाणायापरोक्षदृक् ।।’ इति वचनविरोधापत्तेरिति भावः ।। ५० ।।
भावप्रकाशः
।। ब्रह्मप्राप्तावनपेक्षत्वादिति ।। ब्रह्मप्राप्तौ जनयितव्याया-मधिकारिनिष्ठकारणान्तरानपेक्षत्वादित्यर्थः ।। ५० ।।