मूढग्राहेणाऽत्मनो यत् पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत् तामसमुदाहृतम् ।। १९ ।।

मूढग्राहेणाऽत्मनो यत् पीडया क्रियते तपः ।

परस्योत्सादनार्थं वा तत् तामसमुदाहृतम् ।। १९ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु मूढेति ।। मूढग्राहेण अविवेककृतेन दुराग्रहेण, मूढोपदेशेनेति एके । आत्मनः पीडया कायस्य कर्शनेन केशोल्लुण्ठनादिरूपेण यत् तपः क्रियते परस्योत्सादनार्थं नाशार्थम् आभिचारादिरूपं वा तत्तामसमुदाहृतम् ।। १९ ।।