शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ।। २८ ।।

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।

सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ।। २८ ।।

भावरत्नकोशः

गीताक्षराप्थस्तु विहितकरणादेः त्वय्यर्पणेन किं स्यात् ? इत्यत उच्यते– शुभाशुभफलैरिति ।। एवं मयि समर्पयन्, सर्वसमर्पणे सतीति वा शुभाशुभानि इष्टानि अनिष्टानि फलानि येषां तानि शुभाशुभफलानि तैः कर्मबन्धनैः, कर्माख्यबन्धनैः, शुभफलकानामपि कर्मणां बन्धनत्वं मोक्षविरोधितयाऽनिष्टत्वाभिप्रायेण । मोक्ष्यसे मुक्तो भविष्यसि । तद्विशदीक्रियते– सन्न्यासेति ।। सन्न्यासः कर्मफलानभिसन्धानं योगः भगव-दर्पणपूर्वकं कर्मानुष्ठानं ताभ्यां युक्त आत्मा मनो यस्य स तथा । विमुक्तः संसारात् मामुपैष्यसि इति ।। २८ ।।