पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ।। ३१ ।।

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।

झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ।। ३१ ।।

भाष्यम्

आनन्दरूपत्वात् लोकरमणत्वाच्च रामः । ‘आनन्दरूपो निष्परीमाण एष लोकश्चैतस्माद्रमते तेन रामः’ इति शाण्डिल्यशाखायाम् । रश्च अमश्चेति व्युत्पत्तिः ।। ३१ ।।

भावप्रदीपिका लोकरमणाच्चेति राम इति व्युत्पत्तिः ।।

प्रमेयदीपिका

‘रामः शस्त्रभृतामहम्’ इति रामशब्दं व्याख्याति– आनन्देति ।। आनन्दरूपत्वात् पूर्णत्वात् इत्येकोऽर्थः । रमत इति रः । ‘रमु क्राडायाम्’ इत्यतो ‘ञमन्ताड्डः’ इति डः । न विद्यते मा प्रमा परिच्छेदो अस्येति अमः । ‘लोक’ इत्यपरोऽर्थः । रमतेः घञ् । अत्र श्रुतिमाह– आनन्देति ।। आद्येऽर्थे विग्रहं दर्शयति– रश्चेति ।। रश्चासावमश्चेत्यर्थः ।। ३१ ।।

भावबोधः

।। ञमन्तमिति ।। यद्यप्यस्य ङित्वाभावेन टिलोपो न भवति । अन्यथा रण्डेत्यादिरूपनिष्पत्त्यनुपपत्तेः । तथाऽपि उणादयो बहुलमित्युपपदलोप इति सुधोक्तरीत्याऽत्र टिलोप इति ज्ञेयम् । घञिति ।। रमतेरन्तर्णीतण्यर्थात् घञ्प्रत्यये ञित्वादुप-धावृद्धौ राम इति रूपमित्यर्थः ।

भावदीपः

।। ञमन्तादिति ।। ञमिति ञमङणन इति पञ्चवर्णाः उच्यन्ते । ‘ञमन्तात् शब्दात् डप्रत्ययः’ इति सूत्रार्थः । डित्त्वात् टिलोपः ।। घञिति ।। ‘अकर्तरि च कारके सञ्ज्ञायाम्’ इति करणे घञि सति ‘अत उपधायाः’ इति वृद्धौ रामेति रूपमिति भावः

।। ३१ ।।

वाक्यार्थप्रदीपः

।। ञमन्ताड्ड इति ।। अत्र ञमिति प्रत्याहारग्रहणं ञमङणनमिति । तथाच ञमन्ताद् डप्रत्ययो भवतीति सूत्रार्थः । ननु च नायं डित्, उत्तरत्र कित्करणात् । तत्र गुणप्रतिषेधार्थः, अन्यथा कित्करणमनर्थकं स्यात् । तस्मात् श्रवणार्थत्वमेव डकारस्य नलोपः । अत एव ‘वदन्त्यनेनोद्धता जनाः’ इति दण्डः’ इत्यादि व्युत्पादनमुप-पाद्यते । अन्यथा दण्डः चण्डः रण्डः इत्यादि रूपनिष्पत्त्यनुपपत्तिप्रसङ्गादिति चेन्न । बाहुलकादेव हि तस्य इत्सञ्ज्ञाभावस्याश्रयणीयत्वात् । तदनाश्रयणेनैव डित्त्वस्याप्युपपन्नत्वा-दित्यभिप्रायात् ।। घञिति ।। रमतेरन्तर्णीतण्यर्थात् घञ्प्रत्यये ञित्वाद् अत उपधाया इति उपधावृद्धौ राम इति रूपनिष्पत्तिरिति भावः ।।

भावरत्नकोशः

गीतागतं प्रवृत्तिनिमित्तं त्रिविधमुच्यत इति प्रतीयते । तन्निरासायोक्तम्– इत्येक इति ।। ‘रश्च अमश्च’ इति भाविभाष्यादिति भावः । ञमन्ताड्ड इति ।। ‘ञम््’ इति ञ, , ,णनानां सञ्ज्ञा । तदन्तात्् धातोः डप्रत्ययो भवतीति सूत्रार्थः । ‘चुटू’ इति डकारलोपे, ‘टेः’ इति टिलोपे च ‘रः’ इति रूपमिति भावः । यद्यप्यत्र डप्रत्यये डकारस्येत्संज्ञा बाहुलकान्न भवति । ‘दण्डः’ ‘गण्डः’ इत्युदाहरणम् इत्युक्तं वैयाकरणैः, इति अत्रापि डप्रत्यये ‘रण्डः’ इत्यनभिमतरूपं स्यात्् । तथापि–

क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव ।

 विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ।।’

इति वचनादत्र डकारेत्संज्ञाशास्त्रप्रवृत्तिरिति भावेनैवमुक्तम् । परिच्छेदः देशतः कालतो गुणतश्च । उपसर्जनत्वात् माशब्दस्य ह्रस्व इति भावेनोक्तम्– ‘अमः’ इति । लोकेतीति ।। ‘लोकरमणाच्च’ इति भाष्यं रामशब्दस्यार्थान्तरं प्रतिपादयितुं प्रवृत्तमित्यर्थः । रमतेर्घञिति ।। ‘रमु क्रीडायाम्’ इत्यतो ‘लोको रमते अनेन’ इति करणे घञ्प्रत्यये ‘अत उपधायाः’ इति वृद्धौ च ‘रामः’ इति रूपम्् । तथा च वक्ष्यति ‘लोकश्चैतस्माद् रमते’ इति । तेन ‘कर्तरि घञ्प्रत्ययः ‘अकर्तरि’ इति प्रतिषिद्ध इति कथं राम इति रूपम्’ इति चोद्यानवकाशः । अत्र उक्ते अर्थद्वये । ‘निष्परीमाणः’ इति श्रुतौ ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ इति परिशब्दे दीर्घः । ‘रश्चामश्च’ इति भाष्ये द्वन्द्वभ्रमं वारयितुमाह– रश्चासावमश्चेत्यर्थ इति ।।

पवन इति ।। पवतां पावयितॄणां पवनः वायुरस्मि । रामः ‘रमु क्रीडायाम्’ इत्यतः ‘ञमन्तात् डः’ इति कर्तरि डः । रमत इति रः । न विद्यते मा प्रमा परिच्छेदो यस्येति अमः । ‘रश्चासावमश्च’ इति विग्रहः । यद्वा ‘रमते लोकोऽनेन’ इति करणे रमेर्घञ् रामः । शस्त्रभृतां धानुष्काणां राम इति प्रत्यक्षविभूतिः । झषाणां मत्स्यानां मध्ये मकरः मत्स्यराजः । ‘मकरो मत्स्यराजः’ इति यादवः । मत्स्यविशेषो मकरः किल मकरो भवति । तद्विशेषश्चेति हलायुधश्च । स्रोतसां स्रवन्तीनां जाह्नवी गङ्गाऽस्मि । भगवति स्त्रीलिङ्गशब्दश्च प्रकृत्यधिकरणे समर्थितः ।। ३१ ।।

भावदीपिका

‘रः’ इत्यस्यार्थः– आनन्दरूपत्वादिति ।। ‘अम’ इत्यस्यार्थः– पूर्णत्वादिति ।। एकोऽर्थः रामशब्दस्य । तदुभयं क्रमेणोपपादयति– रमत इत्यादिना ।। ञमन्ताड्ड इति ।। अत्र ‘ञम्’ इति ‘ञमङणनम्’ इति प्रत्याहारग्रहणम् । ञमन्ताद्धातोः डप्रत्ययो भवतीत्युणादिसूत्रार्थः । तथा च ‘रम्’ इत्यत्र मकारस्य ञम्प्रत्याहारा-न्तर्गतत्वेन तदन्ताद्धातोर्डप्रत्यये, टीभूतस्य ‘अम्’ इत्यस्य लोपे, प्रत्ययाकारसम्बन्धे ‘रः’ इति रूपम् । ननु ‘ञमन्तात्’ इत्युणादिसूत्रविहितस्य डप्रत्ययस्य न डित्त्वं वैयाकारणानामभिप्रेतम् । ‘डकारस्यानुबन्धसंज्ञा नास्ति’ इत्युणादिवृत्तावेवोक्तत्वात् । अन्यथा ‘दण्डः’ ‘रण्डः’ इत्यादि-रूपनिष्पत्तिर्न स्यात् । सति चैवं प्रकृते ‘रण्डः’ इत्येव स्यात् । कथं ‘रः’ इति रूपमिति चेत् । सत्यम् । ‘उणादयो बहुलम्’ इति बहुलग्रहणादेवैतत्सूत्रविहितस्यापि डस्य क्वचित् डित्त्वमपि प्रयोगवशादङ्गीकार्यम् । अत एवोणादिवृत्तौ ‘सति प्रयोजने डकारस्यानुबन्धसंज्ञा नास्ति’ इत्युक्तम् । अन्यथा ‘प्रयोजनाभावादनुबन्धसंज्ञा नास्ति’ इत्येवावक्ष्यत् । तेन ज्ञायतेऽनुबन्धसंज्ञाभावे डित्त्वं प्रायिकम्, क्वचित्प्रयोजने सत्यनुबन्धसंज्ञा, ततश्च डित्त्वमपि भवतीति तद्वाक्यार्थः । अतो न काऽप्यनुपपत्तिरित्यस्मदाचार्यकृतलिङ्गपादीयसुधाटिप्पण्यनुसारेण अत्रालोचनीयम् । परिच्छेद इति ।। ‘माङ् माने’ ‘मानं ज्ञानं लयश्चैव मर्यादा चापि कथ्यते’ इति वचनादित्यर्थः । घञिति ।। ‘रम्’ इत्यस्मात् घञ्प्रत्यये अकारमात्रं विहाय सर्वस्यापि लोपे, ञित्त्वाद् उपधावृद्धौ प्रत्ययाकारसम्बन्धे ‘राम’ इति रूपम् । द्वन्द्वसमासभ्रान्तिवारणाय कर्मधारयोऽयमित्याह– रश्चसाविति ।। ३१-३६ ।।

भावप्रकाशः

 ।। ञमन्ताड्ड इति ड इति ।। यद्यपि शाब्दिकैर्डस्य बाहुलकाच्चुटू इति नेत्सञ्ज्ञेत्युक्तम् । तथा च दण्ड इतिवत् रण्ड इत्येव रूपं स्यात् । तथाऽपि बाहुलकाश्रयणं विना वास्तवेत्सञ्ज्ञाप्राप्तिमभिप्रेत्यैतदुक्तम् । यद्वा क्वचित्प्रवृत्तिरित्यादिना बाहुलकस्य चतुर्विधत्वोक्तेः यदेत्सञ्ज्ञाप्रवृत्तिस्तदभिप्रायेणेदम् इति ज्ञातव्यम् । रमतेर्घञिति ।। रमतेऽनेन इति राम इति करणे घञ्, अत उपधाया इति वृद्धिश्चेति भावः अतो न घञः कर्तृभिन्नकारकार्थत्वविरोध इति बोध्यम् ।। ३१ ।।