इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।। २ ।।

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।। २ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु ‘ब्रह्मभावो मुक्तिः’ इत्यादिमिथ्याज्ञानादिनि-बर्हणाय मुक्तिस्वरूपं विवृण्वता उपदेष्टव्यज्ञानस्य तात्पर्यद्योतनाय मुक्तिसाधनत्वमुच्यते– इदं ज्ञानमिति ।। इदम् उपदेक्ष्यमाणार्थज्ञानम् उपाश्रित्य सम्पाद्य मम साधर्म्यम् ‘निर्दुःखत्वं परानन्दो लिङ्गभेदः समा मताः’ इति वचनोक्तनिर्दुखत्वादिना समानधर्मत्वम् आगताः । कर्तरि निष्ठा, प्राप्तवन्तः भवन्ति । एवंभूता अपि स्वर्गिण इव पुनः प्रत्यावृत्त्योत्पद्यन्ते, म्रियन्ते च किम् इत्यपेक्षायामुच्यते– सर्गेऽपीति ।। न व्यथन्ति मृत्यादिव्यथां न गच्छन्ति च ।। २ ।।