रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ।। ७ ।।

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।

तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ।। ७ ।।

भाष्यम्

तृष्णासङ्गयोः समुद्भवं तयोः कारणम् ।। ७ ।।

भावप्रदीपिका

तृष्णासङ्गाभ्यामुद्भवो यस्येति प्रतीतिनिरासायाह– तृष्णेति ।। ६,७ ।।

प्रमेयदीपिका

अत्र रजः ‘तृष्णासङ्गसमुद्भवम्’ इत्यस्य तृष्णासङ्गाभ्यां समुद्भवो यस्य’ इत्यपव्याख्यानमिति भावेन विग्रहप्रदर्शनपूर्वकमर्थमाह– तृष्णेति ।। समुद्भवति अस्मादिति समुद्भवं कारणम् । अन्यथा ‘प्रकृतिसम्भवाः’ (१४.५) इत्युक्तविरोधात् । समुद्भवशब्देनाविर्भावो विवक्षित इति चेत् । तथाऽपि गुणकार्य-कथनप्रकरणविरोधात् ।। ७ ।।

भावबोधः

।। गुणकार्येति ।। सत्त्वादित्रिगुणकार्यकथनप्रकरणे तृष्णा-सङ्गकार्यकथनं विरुद्धमित्यर्थः ।। ७ ।।

भावरत्नकोशः

।। अत्र गुणैर्बन्धकथनप्रकरणे । समुद्भवत्यस्मादिति ।। संपूर्वाद् भवतेः ‘ॠदोरप्’ इति अप्प्रत्ययः । ‘सार्वधातुकार्धधातुकयोः’ इति गुणोऽवादेशश्च, न पुनर्घञ् प्रत्ययः । ‘श्रिणी भुवोऽनुपसर्गे’ इति उपसर्ग उपपदे भूधातोः घञः पर्युदासात् । न चैवं सति भाष्ये ‘समुद्भवम् इति नपुंसकप्रयोगो न युक्तः । लिङ्गानुशासने पुंसि इत्यधिकृत्य ‘घञबन्ताः’ इति अप्प्रत्ययान्तस्य पुंस्त्वानुशासनात्, इति वाच्यम् । भावार्थकघञबन्तस्य पुंस्त्वेऽपि कर्माद्यर्थकतदन्तस्य तदभावेन विशेष्यनिघ्नत्वात् । अत एव ‘सम्बन्धमनुवर्तिष्यते’ इति भाष्यप्रयोगः कैयटोक्तरीत्यैव निर्व्यूढः । केचित्तु समुद्भवत्यस्मात् इति टीकोक्त-व्युत्पत्तिरुपलक्षणम् । ‘सम्यग् उद्भवः उत्पत्तिः यस्मात् समुद्भवम् इत्यपि द्रष्टव्यम् । तथा च भाष्ये नपुंसकलिङ्गप्रयोग उपपन्न इत्याहुः । अन्यथा तृष्णासङ्गाभ्यां समुद्भवो यस्य’ इति परव्याख्याने । इत्युक्तेति ।। ‘सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः’ इत्युक्तत्वेन प्रकृतिकार्यस्य रजसः तृष्णासङ्गकार्यत्वाभ्युपगमे स्वोक्तिविरोधापत्तेरित्यर्थः । प्रकृतिकार्यत्वा-विघातेनैव तृष्णासङ्गाभ्यां रजसः समुद्भवं घटयितुमाह– समुद्भवशब्देनेति ।। गुणेति ।। गुणानां कार्यबन्धो ह्यत्र कथ्यते । तत्प्रकरणे चाविर्भावकथनस्यानुचितत्वेन तत्कथनस्य प्रकरणविरोधित्वादित्यर्थः ।।

गीताक्षरार्थस्तु– रजः रजोगुणं रागात्मकं रागः रञ्जनम्, आत्मा रूपं यस्य तत्तथा अनुरञ्जनरूपम् । ‘समुद्भवत्यस्मात् इति समुद्भवं कारणम् । तृष्णा नाम अप्राप्तार्थाभिलाषः, सङ्गस्तु प्राप्तार्थे ‘नाहमिमं त्यक्तुमुत्सहे इत्यासक्तिः विषयसम्बन्धः, तयोः समुद्भवं तृष्णा-सङ्गसमुद्भवं विद्धि । तद् रजः स्वर्गादिसाधनकर्मसम्बन्धेन देहिनं जीवं बध्नाति । रजोगुणाभि-मानिनी भूदेवी रजोगुणकार्येण कर्मसङ्गेन मानुषी जीवबन्धिका इति विशेष उत्तरप्रस्थानाद् अवगन्तव्यः ।। ७ ।।

भावदीपिका

।। अन्यथेति ।। रजोगुणस्य तृष्णासङ्गाभ्यां समुद्भव-व्याख्यान इत्यर्थः । आविर्भाव इति ।। तृष्णासङ्गाभ्यां रजोगुणस्याभिव्यक्तिमङ्गीकृत्य तत्परतया व्याख्यान इत्यर्थः । गुणकार्येति ।। सत्त्वादिगुणकार्यकथनप्रकरणे तृष्णासङ्गकार्य-कथनं विरुद्धमित्यर्थः ।। ७ ।।

भावप्रकाशः

।। समुद्भवत्यस्मादिति ।। नात्र घञ् । श्रिणी भुवोऽनुपसर्गे इत्युपसर्गे उपपदे तत्पर्युदासात् । किन्तु समुत्पूर्वाद्भवतेरपादाने ऋदोरबित्यप् । सार्वधातुकार्ध-धातुकयोरिति गुणोऽवादेशश्चेति भावः । नच पुंस्त्वापत्तिः पुमानित्यधिकृत्य घञबन्त इत्युक्ते-रिति वाच्यम् । भावार्थघञबन्तस्य पुंस्त्वेऽपि कर्माद्यर्थतदन्तस्य विशेष्यलिङ्गत्वात् । सम्बन्धमनुवर्तिष्यत इति महाभाष्यप्रयोगादिति । अन्यथेति ।। अपव्याख्यान इत्यर्थः ।।७।।