अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ।। ११ ।।

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।

परं भावमजानन्तो मम भूतमहेश्वरम् ।। ११ ।।

भाष्यम्

तर्हि केचित् कथं त्वामवजानन्ति । का च तेषां गतिः ? इत्यत आह– अवजानन्तीत्यादिना ।। मानुषीं तनुं मूढानां मानुषवत् प्रतीतां तनुम् । नतु मानुषरूपाम् ।। उक्तं च मोक्षधर्मे–

यत् किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशाम्पते ।

 सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ।।

 ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् ।

 भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च ।

 भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम’ इति ।।

भावप्रदीपिका

ननु यदि त्वं सर्वकर्ता निर्दोषः, तर्हि कथं त्वां केचि-द्द्विषन्ते ? निर्दोषद्वेषेण तेषां कथं नाशो गतिः स्यात् ? अतः सदोष एव त्वम् इत्या-शङ्कोत्तरत्वेनोत्तरश्लोकद्वयमवतारयति– तर्हीति ।। ननु मानुषीं तनुमाश्रितं द्विषन्तः कथं मूढा इत्यत आह– मानुषीमिति ।। मनुष्यरूपैव किं न स्यात् ? इत्यत आह– उक्तं चेति ।।

प्रमेयदीपिका

उत्तरवाक्यस्य सङ्गत्यप्रतीतेस्तामाह– तर्हीति ।। यदि त्वमेव जगतः सृष्टिस्थितिसंहाराणां कर्ता । कैश्चिदवज्ञानात् । तेषां चानर्थाभावादुक्त-मसदिति शङ्काभिप्रायः ‘मानुषीं तनुमाश्रितम्’ इत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे– मानुषीमिति ।। भ्रान्त्यनुवाद एवायमिति भावः । कुतो न? इत्यत आह– उक्तं चेति ।। चः हेतौ । शरीराणि हि भौतिकानि भवन्ति । भूतानि चेश्वरस्य बुद्धिजानि । तत्कथं तानि बध्नीयुरित्यर्थः ।। अत्रैव ‘ईश्वरो हि’ इत्यादिनाऽन्ये हेतवोऽभिधीयन्ते । विराट् नित्याभिव्यक्तरूपः । वरदः मोक्षप्रदः । सगुणः स्वातन्त्र्यादिगुणवान् । भूतानि प्रलीयन्ते यस्मिन् तत् । अव्यक्तं तदभिमानिनी देवता । तस्य शुश्रूषुः । लिङ्गव्यत्ययश्छान्दसः ।।

भावबोधः

।। नञा निर्दिष्टमनित्यमिति ।। ‘न लोक’ इति षष्ठीप्रतिषेधो न वर्तत इति भावः । नन्वव्यक्तं शुश्रूष्विति भवेत् । कथं पुल्लिङ्गमित्यत आह– लिङ्ग-व्यत्यय इति ।।

भावदीपः

तर्हीत्यस्याकाङ्क्षितमाह– यदीत्यादि ।। अध्याहारेण योजनामाह– तस्य शुश्रूषुरिति ।। नञा निर्दिष्टस्यानित्यत्वात् उप्रत्यययोगेपि ‘न लोकाव्ययनिष्ठा’ इति षष्ठीनिषेधो नेत्यर्थः ।।

वाक्यार्थप्रदीपः 

अव्यक्तं शुश्रूषुरित्यस्य ईश्वरविशेषणत्वपरिहारायाह– तस्य शुश्रूषुरिति ।। न च डप्रत्ययान्तशुश्रूषुपदयोगे कथं तस्य षष्ठीति वाच्यम् । तेन कारकषष्ठी-निषेधेपि शेषषष्ठ्या अनिषेधेन तदुपपत्तेः । यथा चैतत् तथोक्तमधस्तात् । विशेषणानां विशेष्यनिघ्नत्वात् नपुंसकलिङ्गाव्यक्तशब्दविशेषणशुश्रूषुशब्दस्यापि नपुंसकत्वे शुश्रूषु इति भवितव्यम् । शुश्रूषुरिति कथमित्यत आह– लिङ्गव्यत्ययः छान्दस इति ।।

भावरत्नकोशः

‘का च’ इति भाष्यभावं सपरिकरमाह– कैश्चिदिति ।। तनुश्चेद् अमानुषी तर्हि ‘मानुषीम्’ इति कथं भगवतोऽभिलाप इत्यतो ‘मूढानाम्’ इति भाष्य-भावमाह– भ्रान्तीति ।। मनुष्यशब्दात् सम्बन्धार्थेऽणि, ङीपि ‘हलस्तद्धितस्य’ इति यकारलोपे ‘मानुषीम्’ इति रूपमिति भावः । कुत इति ।। मानुष्यरूपमिति कुतो नेत्यर्थः । ‘न’ इति साध्ये हेतुसम्पत्तय आह– चो हेताविति ।। ‘उक्तं च’ इत्यत्र चशब्दो हेतुसमर्पको व्याख्येय इत्यर्थः । ‘यत्किञ्चित्’ इत्यादित्रिपादीतात्पर्यमाह– शरीराणीति ।। तानि भूतानि, ‘तम्’ इति शेषः । अत्रैव ईश्वरस्य देहसम्बन्धाभाव एव । ईश्वरत्वं बन्धकदेहजिहासुत्वे सति तत्र शक्तत्वमत्र विवक्षितम् । ‘बाहुजः क्षत्रियो विराट्’ इत्यभिधानाद् विराट्शब्दः क्षत्रियवचन इति कथं तस्य देहाबद्धत्वे हेतुसमर्पकत्वम् इत्यतो व्याचष्टे– विराट् नित्याभिव्यक्तरूप इति ।। विशेषेण राजन्नित्याभिव्यक्तरूपात् निमित्ताद् विराट्शब्दो भगवति वर्तते । नित्यव्यक्तविग्रहस्य च प्रत्यग्रशरीरग्रहणमनुचितमिति भावः । वरदत्वं रुद्रादिसाधारणमित्यतो विवक्षितमर्थमाह– मोक्षद इति ।। निर्विशेषणवरशब्देन वरणीयमुख्यो मोक्षो ग्राह्यः । सर्वमोक्षप्रदानसमर्थस्य च स्वबन्धकदेहयोगो न युक्त इति भावः ।।

सगुणत्वं गुणत्रयवत्त्वं बन्धानुकूलमेवेति साध्यविपरीतव्याप्तम्, ‘सगुणो निर्गुणः’ इति विप्रतिषिद्धं चेत्यतो व्याचष्टे– सगुणः स्वातन्त्र्यादीति ।। निर्गुणोऽपि सत्त्वादिगुणहीनोऽपीति भाष्यार्थः । ‘प्रलीयन्तेऽस्मिन्’ इति प्रपूर्वात् लीङ् श्लेषणे इति धातोरधिकरणे ‘एरच्’ इत्यच्-प्रत्यये, अधिकरणेऽच्प्रत्ययान्तस्य च विशेष्यनिघ्नत्वान्नपुंसकत्वमिति भावः । शुश्रूषुत्व-मचेतनेऽव्यक्ते घटयितुमुक्तम्– तदभिमानिनीति ।। तस्य प्रस्तुतनारायणस्य । ‘जिज्ञासुरपि योगस्य’ इत्यत्रेवात्रापि षष्ठी निर्वाह्या । अव्यक्तविशेषणत्वात् ‘शुश्रूषु’ इति वाच्ये कथं लिङ्गान्तरमित्यत आह– लिङ्गव्यत्यय इति ।। ‘सुप्तिङुपग्रहलिङ्गनराणाम्’ इति शास्त्रादिति भावः ।

अंशो नानाव्यपदेशात्’ इत्यधिकरणे चन्द्रिकायां तु ‘शुश्रूषःु’ इत्यत्र जीवनिष्ठशुश्रूषां प्रति प्रकृतो नारायण एव विषयत्वेन सम्बध्यत इत्याह– शुश्रूषुस्तस्येति ।। एवं च भूत-सम्बन्धाधीनप्रलयादिमत्त्वाकार्यत्वप्रवृत्तिनिमित्तकाभ्यां भूतप्रलयाव्यक्तशब्दाभ्यामुक्तो जीवसमूहः, तस्य नारायणस्य शुश्रूषुर्मोक्षार्थं जिज्ञासुरिति योजनेति भावः इति व्याख्याय, तत्त्वप्रदीपे तु ‘भूतप्रलयस्थानभूता अव्यक्तशब्दिता श्रीः प्रकृतस्य नारायणस्य शुश्रूषुः, ‘ये चाप्यक्षरमव्यक्तम्’ इति स्मृतेः’ इति प्रकारान्तरेण योजितम्’ इत्युक्तम् ।

भावदीपिका

।। भ्रान्तीति ।। भ्रान्तिसिद्धं यन्मानुषत्वं तदेव भगवताऽ-नूद्यते, नतु वास्तवमित्यर्थः । अत्रैवेति ।। ‘परमात्मनो भूतबन्धाभावे’ इत्यर्थः । हेतव इति ।। तथाच ‘ईश्वरो हि’ इत्यादि हेतुगर्भविशेषणमितिभावः ।। तस्य शुश्रूषुरिति ।। ननु ‘शुश्रूषु’ इत्यस्य सन्नन्तत्वेन ‘सनाशंसभिक्ष उः’ इत्यनेन उप्रत्ययान्तत्वात्, उप्रत्ययान्तस्य च ‘न लोक’ इति षष्ठ्या निषेधात्, ‘हरिं दिदृक्षुः’ इतिवत् ‘तं शुश्रूषुः’ इति वक्तव्ये ‘तस्य’ इति कथमुक्तम्? इति चेदुच्यते । ‘कर्तृकर्मणोः कृति’ इति प्राप्ता या कर्तरि कर्मणि च षष्ठी सैव ‘न लोक’ इति निषिध्यते, न तु ‘शेषे’ इत्यनेन प्राप्ता सम्बन्धमात्रे षष्ठी । प्रकृते च ‘कर्तृकर्मणोः’ इत्यनेन कर्तरि षष्ठी नोच्यते, येन निषेधावतारः स्यात्, किन्तु ‘शेषे’ इति सम्बन्धमात्र एव । न ह्यस्याः प्रतिषेधोऽस्तीति । नन्वत्रापि शुश्रूषायां भगवतः कर्मत्वं विवक्ष्यताम् । तथा च कर्मणि प्राप्तद्वितीयापवादकत्वेन ‘कर्तृकर्मणोः’ इत्यनेन प्राप्ता षष्ठी ‘न लोक’ इत्यनेनापोद्यते । एवं च ‘अपवादस्यापवादे पुनरुत्सर्गस्यैव स्थितिः’ इति न्यायेन कर्मणि द्वितीयैव प्राप्नोति । तथा च ‘तम्’ इत्येव वक्तव्यम् इति चेेत्, सत्यम् । तथात्वे साक्षाद्भगवत्कर्मकतत्पादसंवहनादिरूपैव सेवा प्राप्नोति, न तु तत्सम्बन्धिसेवा । अनया क्रियमाणा जगत्सर्जनादिरूपा सेवैव । सा च न भगवत्कर्मिका, भगवत्सम्बन्धिनी तु भवति । अतः सामान्यतो भगवत्सम्बन्धिसेवामात्रप्राप्त्यर्थं शेषे षष्ठीमाश्रित्य ‘तस्य’ इत्युक्तमिति गुरुचरणानां सम्प्रदायः । भावबोधे तु ‘नञा निर्दिष्टमनित्यम्’ इति ‘न लोक’ इति षष्ठीप्रतिषेधो न प्रवर्तत इत्युक्तम् । ननु ‘अव्यक्तं शुश्रूषु’ इति भवेत्, तत्कथं ‘शुश्रूषुः’ इति पुंलिङ्गम् ? इत्यत आह– लिङ्गव्यत्यय इति ।।

भावप्रकाशः

ननु तनोर्मानुषत्वाभावे सर्वज्ञस्य भगवतस्त्वज्ज्ञानाभावेन तदभिलापायोग इत्यत आह– भ्रान्त्यनुवाद इति ।। कृष्णेन लोकस्य यद्भ्रान्तिसिद्धं तदनूद्यत इत्यर्थः । अत्रैवेति ।। देहसम्बन्धाभाव इत्यर्थः । ननु बाहुजः क्षत्रियो विराडित्यमरोक्तेः क्षत्रियत्वं विराट्त्वम् । तत्कथं प्रवृद्धत्वे हेतुर्व्यभिचारादित्यत आह– नित्याभिव्यक्तेति ।। राजृ दीप्तावित्यस्माद्विशेषेण राजत इत्यर्थे ‘सत्सूद्विष’ इत्यादिना क्विप् । विशेषेण राजनं च नित्याभिव्यक्तरूपत्वेमेवेति भावः । रुद्रादौ व्यभिचाराद्वरप्रदत्वं नावृद्धत्वसाधकमित्यत आह– मोक्षद इति ।। सत्त्वादिगुणवत्त्वं न बद्धत्वे लिङ्गं विरोधादित्यत आह– स्वातन्त्र्यादीति ।। ननु तत्पुरुषत्वे तादात्म्यं क्लीबत्वं चाऽयुक्तम् । व्यधिकरणबहुव्रीहिस्त्वगतिकागतिरित्यत आह– भूतानीति ।। प्र पूर्वाल्लीयतेरधिकरणे एरजित्यच्, अधिकरणेऽजन्तस्य च विशेष्यलिङ्गत्वात् क्लीबत्वं युक्तम् । ‘क्तल्युट् नपुंसके भावे स्त्रियां क्तिन्नादयो मताः । अतो ‘घञजपः पुंसि’ इति भावे अजन्तस्य पुंस्त्वनियमोक्त्या परिशेषेणाधिकरणाद्यर्थाजन्तस्य विशेष्यलिङ्गत्वावगमात् । एवं च षष्ठीतत्पुरुषे नानुपपत्तिः । टीका तु तात्पर्यार्थप्रदर्शिकेति बोध्यम् । अव्यक्तस्य जडत्वात् कथं शुश्रूषुत्वमित्यत आह– तदभिमानिनीति ।। शुश्रूषुरित्यतः प्रागध्याहार्यमाह– तस्य शुश्रूषुरिति ।। यद्यपि कर्तृकर्मणोरिति प्राप्तषष्ठ्या न लोकेत्यनेन शुश्रूषुरित्युप्रत्यययोगे निषेधात्तमित्यध्याहर्तुमुचितम् । तथाऽपि न लोकेति कारकषष्ठ्या निषेधेऽपि शेषषष्ठ्या अनिषेधाच्छेषषष्ठी इयमिति भावेन तस्येत्युक्तम् । ननु शुश्रूषुशब्दस्य विशेष्यनिघ्नत्वा-द्विशेष्यानुसारेण क्लीबत्वावश्यभावात् कथं पुंस्त्वमित्यत आह– लिङ्गव्यत्यय इति ।।

 

Load More