काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ।। ३७ ।।

श्रीभगवानुवाच -

काम एष क्रोध एष रजोगुणसमुद्भवः ।

महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ।। ३७ ।।

भाष्यम्

यस्तु बलवान् प्रवर्तकः स एष कामः । क्रोधोऽप्येष एव । तज्जन्यत्वात् । ‘कामात् क्रोधोऽभिजायते’ (२.६२) इति ह्युक्तम् । यत्रापि गुरुनिन्दादि-निमित्तः क्रोधः, तत्रापि भक्तिनिमित्तानिन्दाकामनिमित्त एव ।।

भावप्रदीपिका

प्रश्नाभिप्रायानुसारेणाह– यस्त्विति ।।

भावप्रकाशिका

उत्तरवाक्यमप्यशुभप्रेरकबलवत्प्रकाशकत्वेन व्याचष्टे– यस्त्विति ।। ननूत्तरवाक्ये कामक्रोधयोरेकत्वमुच्यते । प्रश्नवाक्यं च साधारणम् । तथा ह्यन्ये वर्णयन्ति– काम एव केनचित्प्रतिहतः क्रोधत्वेन परिणमत इति । अतः कथं प्रश्नप्रतिवचनयोः पापप्रेरकबलवत्परता ? इत्यत आह– क्रोधोऽपीति ।। आत्मैव पुरुष इतिवदौपचारिक इत्यर्थः । अन्यथोक्तविरोध इत्याह– कामादिति ।। ननु कामजत्वनियमे क्रोधस्य क्रोधोऽप्येष एव इत्युपचारोऽपि घटेत । तस्य निमित्तान्तरादप्युपपत्तेः स एव कुतः ? इत्यत आह– यत्रापीति ।। भक्तिनिमित्तोऽयमनिन्दाकामः, तन्निमित्त एव क्रोध इत्यर्थः ।

प्रमेयदीपिका

बलवद्विषयश्चेद् प्रश्नस्तर्हि परिहारो न सङ्गच्छत इत्यतः परिहारं व्याचष्टे– यस्त्विति ।। प्रवर्तकः पापेषु पुरुषः ‘त्वया पृष्टः’ इति शेषः । एवं योजनायां क्रोधस्यापि कामसाम्यं स्यात् । तथाचोत्तरत्र कामस्यैवानुवृत्तिर्विरुध्येतेत्यतः ‘क्रोध एषः’ इत्येतदन्यथा व्याचष्टे– क्रोधोऽपीति ।।

किं काम एव मुख्यया वृत्त्या एवमुच्यते? नेति ब्रूमः । किन्तूपचारेणेति भावेनाऽह– तदिति ।। तदेव कुतः? इत्यत आह– कामादिति ।। नायमस्ति नियमः । यदा गुरु-निन्दादिश्रवणे निन्दकाय क्रुद्ध्यति तदा कामाभावेऽपि क्रोधोदयदर्शनादित्यत आह– यत्रापीति ।। भक्तिनिमित्तश्चासावनिन्दाकामश्चेति विग्रहः ।‘सङ्गात् सञ्जाजायते कामः’ (२.६२) इत्येतद् दर्शयितुं ‘भक्तिनिमित्त’ इत्युक्तम् ।।

भावदीपः

।। त्वयेति ।। प्रश्नकृतेत्यर्थः ।। उत्तरत्रेति ।। उत्तरार्धादावित्यर्थः ।।

वाक्यार्थप्रदीपः (पां.टि.)– ।। निन्दकाय क्रुध्यतीति ।। ‘हरये क्रुध्यति गोपी स्मरात्’ इत्यादाविव ‘क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोप’ इति सम्प्रदानत्वाच्चतुर्थी ।।

भावरत्नकोशः

‘प्रवर्तकः’ इत्यतः परं प्रकृतोपयोगाय भाष्ये शेषमाह– प्रवर्तक इति ।। एवमिति । पुरुषस्य पापे बलवान् प्रवर्तको यस्तु त्वया पृष्टः स एष काम इत्येवं परिहारवाक्ययोजनायामित्यर्थः । उत्तरत्र ‘महाशनो महापाप्मा’ इत्युत्तरार्धादौ । अनुवृत्तिः बलवत्त्वेन । मुख्यया वृत्त्या क्रोधशब्दमुख्यवृत्त्या । एवं कामः क्रोध इति सामानाधिकरण्येनोच्यत इत्यर्थः । तदेव क्रोधस्य कामजन्यत्वमेव । निन्दकाय क्रुध्यतीति ।। ‘क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः’ इति सम्प्रदानत्वे चतुर्थी । भक्तिनिमित्ता या अनिन्दा कामनिमित्त एवेत्यनन्वितम्, असङ्गतं चेत्यतो भाष्ये प्रकृतसङ्गतये विग्रहं दर्शयति भक्तीति । सङ्गादिति ।। ‘सङ्गस्तु गुणसम्प्रीतिः’ इत्येकादशतात्पर्ये गुणसम्प्रीतिशब्दितसङ्गात् कामः अनिन्दाकामः इत्येतद् दर्शयितुमित्यर्थः । भक्तिनिमित्तो योऽयमनिन्दाकामस्तन्निमित्तक एव क्रोध इत्यर्थ इति भावः ।

भावदीपिका

।। एवं योजनायामिति ।। यस्तु बलवान् पापप्रवर्तकः पृष्टः स एष काम इति योजनायां यस्तु बलवान् प्रवर्तकः पृष्टः स एष क्रोध इत्यपि योजनाप्रसङ्गेन क्रोधस्यापि कामसाम्यं स्यादित्यर्थः । अस्त्विति चेत्, तत्राऽह– तथा चेति ।। उत्तरत्रेति ।। ‘कामरूपेण कौन्तेय’ (३-३९), ‘कामरूपं दुरासदम्’ (३-४३) इत्युत्तरत्रेत्यर्थः । ‘एष एव’ इत्यस्यार्थानुवादः– काम एवेति ।। एवमुच्यत इति ।। क्रोधाभेदेनोच्यत इत्यर्थः । तदितीति ।। कामजन्यत्वात् तदभेदोक्तिर्युज्यते । कार्यकारणयोरभेदव्यपदेशस्य ‘पातालमेतस्य हि पादमूलम्’ ‘ब्राह्मणोऽस्य मुखमासीत्’ इत्यादौ दर्शनादित्यर्थः । नियमः क्रोधस्य कामजन्यत्वनयमः । निन्दकाय क्रुध्यतीति ।। ‘क्रुध-द्रुह-ईर्ष्या-असूयार्थानां यं प्रति कोपः’ इति सूत्रेण क्रुधाद्यर्थानां धातूनां योगे यं प्रति कोपो विवक्षितस्तत्र सम्प्रदानसञ्ज्ञाया विहितत्वात्, प्रकृते च क्रुध्धातुयोगात् निन्दके कोपस्य विवक्षितत्वाच्च सम्प्रदानसञ्ज्ञायाम्, ‘सम्प्रदाने चतुर्थी’ इति सूत्रेण ‘निन्दकाय’ इति चतुर्थी युक्तेति द्रष्टव्यम् ।। भक्तीति ।। तथा च तत्रापि गुरूणाम् अनिन्दाकामनयैव निन्दके क्रोधो जायत इति न नियमभङ्ग इति भावः ।।

ननु पूर्वं कामस्य सङ्गजन्यत्वोक्तेरत्र च भक्तिनिमित्तकत्वकथनविरोध इत्यत आह– सङ्गादिति ।। विषयस्नेहापरपर्यायसङ्गात् कामजननस्य पूर्वाध्याये उक्तत्वादत्रापि गुर्वनिन्दाकाम-स्यापि गुर्वादिविषयसङ्गजन्यत्वं दर्शयितुं ‘भक्तिनिमित्त’ इत्युक्तम् । भक्तेरपि गुर्वादिविषये माहात्म्यज्ञानपूर्वकस्नेहापरपर्यायसङ्गरूपत्वादिति भावः ।।

भावप्रकाशः

।। निन्दकाय क्रुद्ध्यतीति ।।‘क्रुध-द्रुह-ईर्ष्या-असूयार्थानां यं प्रति कोपः’ इति सम्प्रदानत्वाच्चतुर्थी ।। ३६ ।। 

Load More