अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ।। २ ।।
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ।। २ ।।
भाष्यम्
पैशुनं परोपद्रवनिमित्तदोषाणां राजादेः कथनम् । ‘परोपद्रवहेतूनां दोषाणां पैशुनं वचः । राजादेस्तु मदाद्भीतेरदृष्टिर्दर्प उच्यते ।।’ इत्यभिधानात् । लौल्यं रागः । ‘रागो लौल्यं तथा रक्तिः’ इत्यभिधानात् । अचापलं स्थैर्यम् । ‘चपलश्चञ्चलोऽस्थिरः’ इत्यभिधानात् ।। २ ।।
भावप्रदीपिका
न दोषोद्भावनमात्रं पैशुनमित्याह– पैशुनमिति । राजा-देर्वचः । अलोलुत्वअचापलशब्दयोरर्थभेदमाह–लौल्यमिति ।। २ ।।
प्रमेयदीपिका
‘पैशुनाभावोपैशुनम् । पैशुनं च परस्यापराधवचनम्’ इति । तदसत् । शिष्यादिदोषानुवादस्य शिक्षार्थस्यापि तत्त्वप्राप्तेरित्याशयेनाह– पैशुन-मिति ।। राजादेस्तच्छ्रावणम् । परोपद्रवनिमित्त इति दोषेषूपचारः । अनेन परोप-द्रवायेति सूचयति । वचः कथनम् । मदात् कारणात् । भीतेरदृष्टिः अनुत्पत्तिरिति यावत् । भीतेः भीतिकारणस्य तथात्वेन अदृष्टिरिति वा । बालादीनां भीतेरदर्शनं व्यावर्तयितुं मदात् इत्युक्तम् । अनेन धात्वर्थोऽप्यनुगतः ।। एतेनासुरलक्षणं दर्पोऽपि व्याख्यातः । अलोलुत्वाचापलत्वयोर्भेदं क्रमेण सप्रमाणकं दर्शयति– लौल्यमिति ।। लोलुत्वपर्यायोऽयमित्यत एवमुक्तम् ।। २ ।।
भावबोधः
ननु राजादेर्दोषादिश्रवणमेव परोपद्रवनिमित्तं, न तु दोष इति कथं तन्निमित्तदोषाणामित्युक्तमित्यत आह– राजादेरिति ।। उपचार इति ।।..... इत्यादिश्रवणे दोषेषु चोपद्रवप्रयोजकरूपैकगुणयोगादित्यर्थः । ननु भीतेः सत्वात् कथमदृष्टिरित्यत आह– अनुत्पत्तिरिति ।। धात्वर्थोऽपीति ।। ‘हर्षविमोहनयोः’ इति धातोर्घञि कृते लघूपधगुणे दर्प इति रूपम् । विमोहनमदृष्टिरिति भावः । ननु गीतायामलोलुत्वोक्तेः भाष्ये लौल्यमिति कथमुक्तमित्यत आह– लोलुत्वपर्याय इति ।। २ ।।
भावदीपः
राजादेः परकीयदोषश्रवणस्यैव परोपद्रवहेतुत्वाद्दोेषेषु कथं तद्धेतु-त्वोक्तिरित्यत आह – राजादेस्तच्छ्रावणमिति ।। अदृष्टिपदस्यार्थमाह– अनुत्पत्तिरित्या-दिना ।। यथाश्रुते भीतेः मनोधर्मस्य ज्ञातैकसत्वेनादृष्टेरयोगादिति भावः ।। धात्वर्थोऽपीति ।। ‘मदात्’ इत्यादिना दर्पपदार्थव्याख्यानेनोक्तेऽर्थे ‘दर्पहर्ष विमोहनयोः’ इत्युक्तदृप्धात्वर्थानुगत इत्यर्थः ।। विमोहनस्यादृष्टिरूपत्वादिति भावः । गीतायां त्वप्रत्ययान्तश्रवणाद्भाष्ये लौल्यम् इति कथमुक्तम् इत्यत आह– लौल्यमितीति ।। २ ।।
वाक्यार्थप्रदीपः
दृप् हर्षविमोहनयोः इति धातोः घि कृते लघूपधगुणे दर्प इति रूपम् ।। विमोहनं चादृष्टिरिति भावः ।।
भावरत्नकोशः
।। अपैशुनम् अपिशुनता । परस्मै पररन्ध्रप्रकटीकरणं पैशुनम्, तदभावोऽपैशुनम्’ इति शङ्करभाष्ये दूष्यभागमनुवदति– पैशुनाभाव इत्यादिना ।। अपैशुनशब्दार्थः – पैशुनाभाव इति ।। इतरस्तु परभाष्यानुवाद इति वा । तत्त्वप्राप्तेः पैशुनत्वप्राप्तेः । ननु कथनं नाम वाक्यरचनं वक्तृव्यापारः । तत्र ‘राजादेः’ इति षष्ठ्यन्तपदस्य कर्तृसमर्पकत्वं कर्मसमर्पकत्वं वा न सम्भवति, असाङ्गत्यापत्तेरित्याशङ्क्य नात्र कथनं वचनमात्रं विवक्षितम्; किन्नाम राजादिकर्तृकश्रवणानुकूलप्रेरणात्मकं श्रावणमेव । तत्र च राजादेः श्रवणकर्तृत्वेनान्वयस्याभिसंहितत्वात् श्रोतृत्वसम्बन्धे षष्ठी इति भावेन ‘राजादेः कथनम् इत्यत्र ‘कथनम् इत्यस्य तात्पर्यविषयीभूतार्थं दर्शयति– राजादेस्तच्छ्रावणमिति ।। परोपद्रवनिमित्त-दोषश्रावणम् ।
नन्वेवं राजादेः शिष्यादिदोषश्रावणं शिक्षार्थमपि पैशुनं स्यात् इत्यत आह– परोप-द्रवेति ।। उपचारः दोषतच्छ्रावणयोः परोपद्रवप्रयोजकत्वधर्मसाम्येन परोपद्रवनिमित्तशब्दस्य गौणी वृत्तिरित्यर्थ इति आहुः । कथनशब्दस्य दोषश्रावणतात्पर्यकस्य श्रावणकर्मदोषेषु लक्षणाऽत्रोपचारशब्दार्थ इत्यपि अपरे । भावप्रदीपे तु राजादेस्तच्छ्रावणं परोपद्रवनिमित्तमिति ‘दोषेषु उपचारः’ इति पाठानुसारेण व्याख्यातम् । नन्वेवं शिष्यादिदोषानुवादस्य शिक्षार्थस्यापि पैशुनत्वप्रसङ्ग इति शङ्कितदोषः कथं परिहृत इत्यत आह– अनेनेति ।। ‘परोपद्रवनिमित्तेन’ इति भाषणेन । तथा च ‘परोपद्रवोद्देश्यकं राजादेः परदोषश्रावणं पैशुनम् इति लक्षणं विवक्षित-मिति शिष्यादिदोषानुवादे नातिव्याप्तिः । तस्य शिष्यादिशिक्षामात्रपर्यवसायितया उपद्रवो-द्देश्यकत्वाभावादिति भावः । ननु प्रमाणे वचो नाम वाक्यम्; तथा च परोपद्रवहेतूनां दोषाणां राजादेर्वाक्यं पैशुनम् इत्यनन्वितम् इत्यतोऽर्थमाह– वचः कथनमिति ।। एवं च न नान्वयः, नापि भाष्यविसंवाद इति भावः ।।
भावप्रदीपिकायां तु ‘स्वाध्यायादेरपि तपस्त्वात् कथं तपसः पृथगुक्तिः इत्यत आह– तप इति ।। न दोषोद्भावनमात्रं पैशुनमित्याह– पैशुनमिति ।। राजादेः राजादिकं प्रति वचः’ इति व्याख्यातम् । ‘मदात्’ इति पञ्चमी भयहेताविति प्रतीतिनिरासायाह– मदात् कारणादिति ।। ‘विभाषा गुणेऽस्त्रियाम्’ इति पञ्चमीति भावः । ‘ह्रीर्भीरित्येतत् सर्वं मन एव’ इति श्रुतेः भीतेः मनोवृत्तिविशेषस्य साक्षिगोचरस्य ज्ञातैकसत्त्वात्् ‘अदृष्टिः’ इत्यनुपपन्नम् इत्यतो दृष्टिशब्द-तात्पर्यार्थमाह– अनुत्पत्तिरिति ।। ‘ञिभी भये’ इत्यतः करणे क्तिनि निष्पन्नो भीतिशब्दो भीतिकारणमाह । ‘अदृष्टिरदर्शनमेव’ इति सोपस्कारमाह– भीतेर्भीतिकारणस्येत्यादि ।। ‘मदात्’ इत्यस्य प्रयोजनं दर्शयति– बालादीनामिति ।। अनेन ‘मदाद्भीतेरदृष्टिः’ इत्यनेन । धात्वर्थः ‘दृप हर्षविमोहनयोः’ इति धात्वर्थः विमोहनरूप इत्यर्थः । विमोहनमत्रादृष्टिरूपमिति भावः । दर्पः ‘दम्भो दर्पोऽभिमानश्च’ इत्यत्रासुरलक्षणतया वक्ष्यमाणः । ‘मदाद्भीतेः अदृष्टिः’ इति व्याख्यातः । अलोलुत्वशब्दे व्याख्यातव्ये गीतायामविद्यमानो लौल्यशब्दः किमिति व्याख्यायत इत्यत आह– लोलुत्वपर्याय इति ।। लोलुपत्वपर्यायो लोलुत्वशब्दः; पकारलोपस्त्वार्षः । लौल्यमेव च लोलुत्वम् इति भाष्ये एवं व्याख्यानं कृतमिति भावः ।।
गीताक्षरार्थस्तु– अहिंसा मनोवाक्कायैः सर्वभूतेषु सर्वदाऽपि क्लेशाजननम्, प्राणिनां पीडावर्जनं वा । सत्यं भूतहितयथार्थभाषणम्, अप्रियानृतवर्जितभाषणमिति एके । अक्रोधः प्रतिहतस्यापि चित्ते क्षोभानुत्पत्तिः । त्यागः कर्मफलाभिसन्धिवर्जनम्, औदार्यम् इति एके । शान्तिः शमो भगवन्निष्ठता । अपैशुनम् पैशुनाभावः, पैशुनं च परोपद्रवोद्देश्यकं राजादेः परदोषश्रावणम् । भूतेषु प्राणिषु कृपा दया अलोलुत्वम् ‘लुप विमोहने’ इत्यस्य हि इदं रूपम्, पकारलोप आर्षः । पुत्रकलत्रादिषु अभिषङ्गाभावः । इन्द्रियाणां विषयसन्निधावपि अविक्रिया इति एके । मार्दवम् मृदुता अक्रौर्यं ह्रीः निषिद्धाचरणे लज्जा अचापलं स्थैर्यम् ।। २ ।।
भावदीपिका
।। तत्त्वप्राप्तेरिति ।। पैशुनत्वप्राप्तेरित्यर्थः । ननु राजादे-र्दोषादिश्रावणमेव परोपद्रवनिमित्तम्, न तु दोष इति ‘परोपद्रवनिमित्त’ इति कथमवादीत्? इत्यत आह– परोपद्रवेति ।। राजादिश्रावणे दोषेषु चोपद्रवप्रयोजकत्वरूपैकगुणयोगादित्यर्थः । अनेन ‘परोपद्रवनिमित्त’ इति वचनेन । परोपद्रवायेति ।। राजादेः कथनमित्यर्थः । ननु भीतेः साक्षिवेद्यत्वेन ज्ञातैकसत्त्वात् कथमदृष्टिः इत्यत आह– अनुत्पत्तिरिति ।। तथात्वेन भीतिकारणत्वेन । बालादीनामिति । तथाच तेष्वपि दर्पसद्भावव्यवहारः स्यादिति भावः । अनेनेति । अदृष्टिः इत्यनेनेत्यर्थः । धात्वर्थ इति ।। ‘दृप हर्षविमोहनयोः’ इति विमोहन-रूपदृप्धात्वर्थ इत्यर्थः । विमोहनशब्देन सम्यग् ज्ञानाभावरूपादृष्टेर्विवक्षितत्वादित्याशयः । ‘दृप्’ अस्मात् घञि, लघूपधगुणे च ‘दर्पः’ इति रूपं द्रष्टव्यम् । एतेनेति ।। पैशुनस्वरूप-कथनायोदाहृताभिधानशेषे दर्पस्वरूपकथनेनेत्यर्थः । भेदमिति ।। चञ्चलस्यैव लोलत्वेन लौल्यचापलयोरभेदशङ्कायामित्यर्थः । ननु गीतायाम् ‘अलोलुत्वम्’ इत्युक्ते लौल्यमिति कथं भाषितम्? इत्यत आह– लोलुत्वेति ।। एवमुक्तं ‘लौल्यम्’ इत्युक्तम् ।। २ ।।
भावप्रकाशः
ननु कथनं नाम वचनव्यापारः । परार्थं वचनम् । तच्च श्रवणानुकूलव्यापारः । तत्र राजादेरिति न कर्तरि षष्ठी । राजादिकर्तृकदोषवचनस्य निन्दा-रूपत्वेन पैशुनत्वाभावात् । नापि कर्मणि, दोषाणां वचनकर्मत्वेन राजादेरस्तदभावात् । वचनक्रियाया द्विकर्मकत्वाभावाच्चेत्याशङ्क्य कथनं नाम न वचनमात्रं किन्तु परार्थं वचनम् । तच्च श्रवणानुकूलप्रेरणात्मकं श्रावणमेव । तत्र च राजादेः श्रोतृत्वरूपसम्बन्धे षष्ठी शेष इति सूत्रेण षष्ठी इति भावेन दोषाणां राजादेः कथनमित्यस्य फलितार्थमाह– राजादेस्तच्छ्रा-वणमिति ।। नन्वेवं राजादेः शिष्यादिदोषश्रावणस्य शिक्षार्थस्य पैशुनत्वप्रसङ्ग इत्यत उक्तम्– परोपद्रवनिमित्तेति ।। तदयुक्तम् । दोषाणां स्वरूपेण परोपद्रवनिमित्तत्वाभावादित्यत आह– परोपद्रवनिमित्तेतीति उपचार इति ।। परोपद्रवनिमित्तशब्दस्य तादृशश्रवणविषयत्वे लक्षणा । दोषतच्छ्रवणयोः परोपद्रवप्रयोजकत्वसाम्येन गौणी वेत्यर्थः ।
ननु दोषाणां पुरुषान्तरेषूपद्रवप्रयोजकत्वस्य फलोपहितस्य दर्शनेन शिष्यादिदोषेष्वपि स्वरूपयोग्यम् उपद्रवप्रयोजकत्वमस्त्येव । तेन नोक्तातिव्याप्तिपरिहार इत्यत आह– अनेनेति ।। तथा च परोपद्रवोद्देशेन राजादेः परदोषश्रावणं पैशुनमिति लक्षणं विवक्षितम् । न च शिक्षार्थं राजादेः शिष्यादिदोषश्रावणं तथा । शिक्षार्थत्वविरोधात् । अतो नातिप्रसङ्ग इति भावः । भावबोधे तु । राजादेः तच्छ्रवणं परोपद्रवनिमित्तमिति दोषेषूपचार इति पाठमाश्रित्य व्याख्यातमिति बोध्यम् ।
ननु वचो वाक्यम् । तस्य कथं पुरुषधर्मपैशुनत्वम् । वाक्यस्य पुरुषधर्मत्वाभावादित्यत आह– वचः कथनमिति ।। ननु भीतेर्ज्ञातैकसत्वात् कथमदृष्टिरित्यत आह– अनुत्पत्तिरिति यावदिति ।। धात्वर्थ इति ।। ‘दृप हर्षविमोहनयोः’ इत्युक्तो विमोहनरूपो धात्वर्थ इत्यर्थः । दर्पशब्दस्य दृप्प्रकृतिकत्वादिति भावः । अनुगत इति ।। विमोहनस्यादृष्टिरूपत्वादिति भावः । अलोलुत्वाचापलयोर्भेद इति ।। ‘लोलः चपलतृष्णयोः’ इत्यमरोक्तेः लोलशब्दस्य चपलशब्दपर्यायचलशब्दसमानार्थत्वात् तद्घटितालोलत्वाचापलशब्दयोरन्यतरवैयर्थ्यप्रसक्तावर्थभेदं दर्शयतीत्यर्थः ।
ननु रागो लौल्यमित्यसङ्गतम् । व्याख्येयस्य लोलुत्वशब्दस्याव्याख्यानादित्यत आह– लोलुत्वपर्याय इति ।। यद्वा ननु लोलुत्वशब्द उकारान्तप्रकृतिकः। लौल्यशब्दस्तु अकारान्त-प्रकृतिकः । ततो रागो लौल्यमिति व्याख्यानमयुक्तमित्यत आह– लोलुत्वपर्याय इति ।।२।।