यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वाऽपि न निबद्ध्यते ।। २२ ।।

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।

समः सिद्धावसिद्धौ च कृत्वाऽपि न निबद्ध्यते ।। २२ ।।

भाष्यम्

यतचित्तात्मनो लक्षणमाह– यदृच्छालाभेति ।। कथं द्वन्द्वातीतत्वम्? इत्याह– समस्सिद्धाविति ।। २२ ।।

भावप्रदीपिका

यतचित्तात्मैव कीदृशः येन कामादिक्षयः ? इत्याशङ्क्य, उत्तरं श्लोकमवतारयति– यतेति ।। कामाद्यभावे कथं चित्त्वम् ? अतो द्वन्द्वत्यागो युक्त इत्या-शङ्क्य, तृतीयपादमवतारयति– कथमिति ।। न साक्षाद्द्वन्द्वत्यागः, किन्तु सिद्ध्यसिद्ध्यो-र्दुःखदोषाभाव एवेत्यर्थः ।। २२ ।।

भावप्रकाशिका

ननूत्तरश्लोके ‘कर्मण्यकर्म’ इति श्लोकार्थलेशस्याप्यप्रतीतेः कथं तत्प्रपञ्चात्मकत्वमित्यत आह– यतेति ।। ‘कर्मण्यकर्म’ इति श्लोकोक्तो यः कर्माहङ्कारादिः, तदुपायभूतयतचित्तात्मक-त्वलक्षणोक्तेस्तत्प्रपञ्चात्मकत्वमिति भावः ।।

ननु कामक्रोधादिराहित्यं द्वन्द्वातीतत्वम् । तत्र कामाभावे घटादिवज्जडत्वापत्तेः न कस्यापि कामत्यागः । क्रोधोऽपि न सर्वात्मना त्यक्तुं शक्यः । कामादेव क्रोधदर्शनात् । ‘कामं दहन्ति कृतिनो ननु रोषदृष्ट्या’ इति वचनादिति भावेनाशङ्कते– कथमिति ।। तामाशङ्कां ‘द्वन्द्वातीत’ पदं व्याचक्षाणो भगवानेव परिहरतीति भावेन तृतीयं पादमवतार-यति– आहेति ।। यथा यदृच्छया यत्किञ्चिदाहारादिसिद्धौ नाधिकं वाञ्छति, नाल्पदातारं कुप्यति । तथा कदाचिदाहारादेरसिद्धावपि नान्यतो वाञ्छति, अदातारं च न कुप्यतीत्येतदेव च द्वन्द्वातीतत्वम् । न तु सर्वथा कामक्रोधादिराहित्यमिति भावः ।। २२ ।।

प्रमेयदीपिका

 कामादिवर्जने यदृच्छालाभसन्तुष्टत्वादिकमर्थात् सिद्धम् । तत् किमर्थमुच्यत इत्यत आह– यतेति ।। द्वन्द्वातीतः इत्युक्तमेव ‘समस्सिद्धावसिद्धौ च’ इत्यनेनोच्यत इत्यत आह– कथमिति ।। किंप्रकारकमित्यर्थः । इति ‘जिज्ञासायाम्’ इति शेषः । व्याख्यानव्याख्येयत्वे न पुनरुक्तिदोष इत्यर्थः ।। २२ ।।

भावदीपः

।। न पुनरुक्तीति पदविभागः ।। २२ ।।

भावरत्नकोशः

।। ‘कामादिवर्जने’ इत्यत्रादिपदेन सङ्कल्पफलस्नेहौ ग्राह्यौ । यतेतीति ।। यतचित्तात्मा भूत्वा निराशीस्त्यक्तसर्वपरिग्रहश्च भवतीत्युक्तम्। तत्र चित्तात्म-नियमनस्यान्तरत्वेन तत्त्वं केन लक्षणेन ज्ञातव्यमिति जिज्ञासायां यदृच्छालाभसन्तुष्टः’ इत्यादिना तस्य लक्षणमत्रोच्यत इत्यर्थवदेव तद्वचनमिति भावः ।। उच्यते इत्यनन्तरम् ‘इति पुनरुक्तिः’ इति शेषः । अनेन पुनरुक्तिदोषः कथं परिहृत इत्यत आह– व्याख्यानेति ।। ‘द्वन्द्वातीतः’ इति व्याख्येयम्, ‘समः सिद्धावसिद्धौ च’ इति व्याख्यानमित्यभ्युपगमे पुनरुक्तिदोषो नेत्यर्थ इति भावः ।

प्राचीनटीकायां तु ‘कामक्रोधादिराहित्यं द्वन्द्वातीतत्वम् । तत्र कामाभावे घटादिवज्जडतापत्तेर्न कस्यापि कामत्यागः । क्रोधोऽपि न सर्वात्मना त्यक्तुं शक्यः । कामादेव क्रोधदर्शनात् । ‘कामं दहन्ति कृतिनो ननु रोषदृष्ट्या’ इति वचनादिति भावेन शङ्कते– कथमिति ।। इमामाशङ्कां द्वन्द्वातीतपदं व्याचक्षाणो भगवानेव परिहरतीति भावेन तृतीयपादमवतारयति– आहेति ।। यथा यदृच्छया यत्किञ्चिदाहारादिसिद्धौ नाधिकं वाञ्छति नाल्पदातारं कुप्यति, तथा कदाचिदाहारादेर-सिद्धावपि नान्यद्वाञ्छति अदातारं च न कुप्यतीत्येतदेव द्वन्द्वातीतत्वम्, न तु सर्वथा कामक्रोधादिराहित्यमिति भाव इति ‘कथम्’ इत्यादिभाष्यं व्याख्यातम् ।। २२ ।।

गीताक्षरार्थस्तु - यतचित्तात्मनो लक्षणमुच्यते– यदृच्छेति ।। भगवदिच्छाप्राप्तेन लाभेन तुष्टिमान् तृप्तिमान् सुखदुःखशीतोष्णादिद्वन्द्वान्यतीतः विमत्सरः स्वानधीनत्वनिमित्तचित्ततोदहीनः । किंप्रकारं द्वन्द्वातीतत्वमिति जिज्ञासायां व्याख्यायते– सम इति ।। विषयसिद्ध्यसिद्ध्यो-रुत्सेकानुत्सेकहीनत्वमेव तदिति । एवंविधः कर्म कृत्वाऽपि न निबध्यते कर्मपाशेन ।। २२ ।।

भावप्रकाशः

।। कामादिवर्जनमिति ।। फलस्नेहवर्जनमादिपदार्थः । अत एव फलस्नेहरहितस्येति भाष्ये कामवर्जितस्येत्यपि गतसङ्गपदेन ग्राह्यम् । अन्यथैतद्वाक्यास्वारस्यात् ।।