कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।। जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्।। ५१ ।।
भाष्यम्
तदुपायमाह– कर्मजमिति ।। कर्मजं फलं त्यक्त्वा । अकामनयेश्वराय समर्प्य ।।
भावप्रदीपिका
किं तत्तत्कर्मकौशलं तत्त्वज्ञानोपायः ? इत्याशङ्क्य, उत्तरश्लोकमवतार्य व्याचष्टे– तदिति ।। ५१ ।।
भावप्रकाशिका
किं तत्कर्मसु कुशलत्वम् ? इत्याकाङ्क्षोत्तरत्वेनोत्तर-श्लोकमवतार्य व्याचष्टे– तदुपायमिति ।। मोक्षसाधनज्ञानोपायम् । कार्याकार्यादि-निश्चयात्मिका मनीषा । भगवत्तत्त्वज्ञानं बुद्धिः । मनीषित्वादेव ‘कर्मजं फलं त्यक्त्वा’ इत्यादि ।। ५१ ।।
प्रमेयदीपिका
ननु कर्मजमिति श्लोेकः पूर्वोक्ततान्न विशिष्यत इत्यत आह– तदुपायमिति ।। तस्य ज्ञानस्योपायं योगं, तज्ज्ञानमुपायो यस्य तं मोक्षं च आह विवृणोतीत्यर्थः । व्यवहितत्वाद् अन्वयमाह– कर्मजमिति ।। अप्राप्तस्य फलस्य कथं त्यागः? इत्यतो व्याचष्टे– अकामनयेति ।। प्रकृत्यादिभ्य उपसङ्ख्यानात् तृतीया । एतत् प्रागुक्तमित्यतः प्रकारान्तरेण व्याचष्टे– ईश्वरायेति ।।
भावबोधः
कर्मजमिति पूर्वार्धेन ज्ञानज्ञानसाधनोक्तेः जन्मबन्धेत्युत्तरार्धे ज्ञान-फलोक्तेः तदुपायमित्येतत् द्वेधा व्याख्याति तस्य ज्ञानस्येत्यादिना ।। नन्वकामनायाः त्यागे करणत्वाद्यभावात् कथं तृतीयेत्यत आह– प्रकृत्यादिभ्य इति ।। अत्रादिपदेनैतस्यापि ग्रहणं प्रकृत्या करोति इत्यादिवदिति भावः । प्रागुक्तमिति ।। ‘सङ्गं त्यक्त्वा फलानि च’ इत्यनेनेत्यर्थः ।
भावदीपः
आहेत्यनुवादः, विवृणोतीति व्याख्या ।। ‘समत्वं योग उच्यते’ (२.४८) इत्यनेन ‘यया पार्थ कर्मबन्धं प्रहास्यति’ (२.३९) इत्यनेन चापौनरुक्त्याय पूर्वार्धेन ज्ञानोपायम्, उत्तरार्धेन तत्फलं विवृणोतीत्यर्थः ।। कर्तृत्वाद्यर्थे तृतीयानुपयोगादाह– प्रकृत्यादिभ्य इति ।। ‘प्रकृत्या चारुः प्रायेण समः गोत्रेण गार्ग्यः’ इत्यादाविव तृतीयेत्यर्थः ।। कामनाहीनं कर्मेत्यर्थः ।। एतत्प्रागुक्तमिति ।। फलकामनाहीनकर्मानुष्टानं ‘कर्मण्येव’(२.४७) इति श्लोके तद्विवरणपरे ‘योगस्थः’(२.४८) इति श्लोके चोक्तमित्यर्थः ।। प्रकारान्तरेणेति ।। ‘कर्मजं फलं त्यक्त्वा’ इत्यस्य निष्कामकर्मकरणं नार्थः । किन्तु ईश्वरसमर्पणं तस्यार्थः । अतो न पौनरुक्त्यमिति भावः ।।
वाक्यार्थप्रदीपः
क्रियापदाश्रवणात् अकामनायाः कर्तृत्वकरणत्वयोरभावेन तत्र कर्तृकरणयोस्तृतीयेति तृतीयाऽसम्भवात् कथमकामनयेति तृतीयेत्यतस्तत्सूत्रीयोपसङ्ख्यानात् तृतीयेत्याह– प्रकृत्यादिभ्य उपसङ्ख्यानादिति ।। यद्यपि स्वभावेनैवायं चारुः कृतः नालङ्कारादिनेति करणान्तरव्यावृत्तिपरतया प्रयोगदशायां गम्यमानकरोतिक्रियापेक्षया तत्र करणत्वेन, तत्र करणे तृतीयावत् अत्राप्यकामनयैव कर्मफलत्यागः, नतु कर्माकरणेनेति करणान्तरव्यावृत्तिपरतयाप्रयोगाभिप्रायकत्वकल्पनया गम्यमानत्यागलक्षणक्रियापेक्षया करण-त्वादेव कर्तृकरणयोरिति तृतीयासिद्धेर्व्यर्थमुपसङ्ख्यानाश्रयणम् । तथाऽपि श्रुतक्रियाकर्तृ-करणयोरेव तृतीयाविधायकत्वं कर्तृकरणयोरिति सूत्रस्य अभ्युपगम्य तदाश्रयणमिति द्रष्टव्यम् ।।
भावरत्नकोशः
पूर्वोक्तान्न विशिष्यत इति ।। ‘योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा’ इत्यत्र, ‘बुद्धियुक्तः’ इत्यत्र च यदुक्तं तावत एवात्र कथनादिति भावः । ‘पदं गच्छन्त्यनामयम्’ इत्यधिकमत्रोच्यत इति चेन्न । पूर्वश्लोकेऽपि ‘सुकृतदुष्कृते जहाति तस्मात्’ इत्यत्राखिलक्लेशनिवृत्तिविशिष्टपरमानन्दावाप्तिहेतुत्वादित्यभिमतत्वेन अनामयपदप्राप्तेरप्युक्त-त्वादिति ।। तस्मिन् श्लोके पूर्वार्धेन ज्ञानसाधनोक्तेरुत्तरार्धेन ज्ञानफलोक्तेस्तदुभयानुगुणतया ‘तदुपायम्’ इति भाष्यं द्वेधा व्याचष्टे– तस्य ज्ञानस्येत्यादिना ।। ‘पूर्वोक्तान्न विशिष्यते’ इति शङ्कां परिहरति– विवृणोतीति ।। बुद्धियुक्ता इत्यस्य कर्मजं फलं त्यक्त्वा बुद्धियुक्ता इतीतिकर्तव्यताविशेषसमर्पणेन विवरणात्, सुकृतदृष्कृते जहातीत्यस्य ‘जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्’ इति विवरणाच्च न पूर्वोक्ताविशेषशङ्केति भावः । अकामनयेति कथं तृतीया ? त्यागे तस्याः करणात्वाद्ययोगेन ‘कर्तृकरणयोस्तृतीया’ इत्यादिशास्त्रानवतारादित्यत आह–प्रकृत्यादिभ्य उपसङ्ख्यानादिति ।। ‘प्रकृत्यादिभ्य उपसङ्ख्यानम्’ इति वार्तिकादित्यर्थः । प्रकृत्यादिराकृतिगण इति भावः । न चैवमनन्वयः । अकामनारूपत्यागकर्म कृत्वेत्यन्वयो-पपत्तेः । तथा च कर्मजन्यफलत्यागोऽत्र फलकामनायाः प्राप्तत्वात् तत्त्याग एव गीताभिप्रेत इति भाष्यभाव इत्युक्तं भवति ।।
भावदीपिका
पूर्वार्धेन ज्ञानसाधनोक्तेरुत्तरार्धेन ज्ञानफलोक्तेस्तदुपायमित्येतद् द्वेधा व्याचष्टे– तस्येत्यादिना ।। व्याचष्ट इति ।। कामनात्याग एव फलत्याग इत्याशये-नेत्यर्थः । नन्वकामनायास्त्यागे कर्तृत्वकरणत्वयोरभावात् कथं कर्तृकरणयोस्तृतीया इति सूत्रेण तृतीया । नापीत्थम्भूतलक्षणतृतीयाऽत्रोपपद्यत इत्यत आह– प्रकृत्यादिभ्य इति ।। कर्तृ-करणयोस्तृतीया इति सूत्रे वार्तिकं प्रकृत्यादिभ्य उपसङ्ख्यानम् इति । प्रकृत्या चारु, इत्या-द्युदाहरणम् । एवञ्च प्रकृत्यादेराकृतिगणत्वादकामनाशब्दस्यापि तद्गणान्तपठितव्यत्वादनेन वार्तिकेन तृतीयोपपद्यत इत्यर्थः ।। एतत् कामनात्यागरूपफलत्यागस्वरूपम् ।। प्रागुक्तमिति ।। सङ्गं त्यक्त्वा इत्यादावित्यर्थः ।।
भावप्रकाशः
पूर्वोक्तान्न विशिष्यत इति ।। सङ्गं त्यक्त्वेत्यत्र बुद्धियुक्त इत्यादौ च यदुक्तं तावत एवात्रोक्तत्वादिति भावः । कर्मजमिति श्लोके पूर्वार्धे ज्ञानसाधनोक्ते-रुत्तरर्धे ज्ञानफलोक्तेस्तदुभयानुगुण्याय तदुपायमित्येतत् द्वेधा व्याचष्टे– तस्य ज्ञान-स्येत्यादिना ।। पूर्वोक्ताविशेषं परिहरति– विवृणोतीत्यर्थ इति ।। न च कामनायास्त्यागे करणत्वाद्यभावात् कथं तृतीयेत्यत आह– प्रकृत्यादिभ्य इति ।। प्रकृत्यादेराकृतिगणत्वादिति भावः । न चानन्वयः । अकामनारूपत्यागं कृत्वेत्यकामनात्यागयोरभेदान्वयोपपत्तेः । यथोक्तं ‘नाम्नोर्द्विधैव सम्बन्धः सर्ववाक्ये व्यवस्थितः । सामानाधिकरण्येन षष्ठ्या वाऽपि क्वचिद्भवेद्’ इति । नामपदं च शब्दमात्रपरम् । अन्यथा सर्ववाक्ये व्यवस्थित इत्युक्त्ययोगात् । तेन प्रकृतसङ्गतिरिति बोध्यम् । प्रागिति ।। सङ्गं त्यक्त्वेत्यत्रेत्यर्थः ।।