अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ।। १५ ।।

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।

स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ।। १५ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु अनुद्वेगेति ।। उद्वेगं भयं न कर्तुं शीलमस्येति अनुद्वेगकरम् । करोतेः ताच्छील्ये टः । सत्यं यथा श्रोतुः प्रियं हितं च परिणामे सुखकरं च वाक्यं स्वाध्यायाभ्यसनं च वाङ्मयं वाचा निर्वर्त्यं तप उच्यते ।। १५ ।।