प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते ।। २७ ।।

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।

अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते ।। २७ ।।

भाष्यम्

विद्वदविदुषोः कर्मभेदमाह– प्रकृतेरिति ।। प्रकृतेः गुणैः इन्द्रियादिभिः । प्रकृतिमपेक्ष्य गुणभूतानि हि तानि, तत्सम्बन्धीनि च । नहि प्रतिबिम्बस्य क्रिया ।। २७ ।।

भावप्रदीपिका

एवं तावज्ज्ञानाङ्गत्वेन कर्म विधाय, तस्याबन्धकत्वं विधाय, यज्ञार्थं मुक्तसङ्गः समाचरेद् इत्यविद्वत्कर्मणः सकाशात् भेदो यः प्रस्तुतः, तमिदानीं प्रकट-यतीति भावेनोत्तरं श्लोकचतुष्टयमवतार्य व्याचष्टे– विद्वदविदुषोरिति ।।  महत्तत्वाद्य-पेक्षयाऽपि गुणभूतानि किं विशिष्याभिधीयते प्राकृतगुणत्वमिति ? तत्राह– तदिति । सम्बन्धः उपचयः । कथं कर्ताऽहमिति मन्तुर्मूढत्वम् ? इत्यत आह– न हीति ।। २७ ।।

भावप्रकाशिका

सत्वादिशङ्कापनोदाय– प्रकृतेर्गुणैरिति ।। ननु कथ-मिन्द्रियाणां गुणत्वम् ? इत्याशङ्क्य, तदुपसर्जनत्वात् गुरु (?)णौति यैस्ते गुणा इति निरुक्त्या चेति भावेनाह– प्रकृतिमिति ।। ‘निरुक्तिगैः’ इति वक्ष्यति । ननु गुणत्वमेव निरुक्त्या प्रतीयते न प्रकृतिगुणत्वमित्यत आह– तत्सम्बन्धीनीति ।। प्राकृतभूतैरुपचीय-मानत्वात् प्रकृतिसम्बन्धित्वम् ।

एतेनैतदपि प्रत्युक्तम् । यदन्यत् प्रतीयते– ब्रह्मकरणत्वात् ब्रह्मगुणत्वमेवेन्द्रियाणां जीवापेक्षया क्रियमाणत्वात् जीवगुणत्वमेव वा, न प्रकृतिगुणत्वमिति । उक्तप्रकारेण प्रकृतिगुणत्वस्यापि सम्भवात् । ननु प्रत्यक्षं जीवकर्तृत्वम् । कथं मोहः ? इत्यत आह– न हीति ।। स्वतन्त्रकर्तृत्वज्ञानमेव मोहः, विकारकर्तृत्वज्ञानं वा जीवस्य, न परतन्त्र-कर्तृत्वज्ञानम् । प्रतिबिम्बे बिम्बाधीनकर्तृत्वदर्शनादिति भावः ।। २७ ।।

प्रमेयदीपिका

‘प्रकृतेः क्रियमाणानि’ इति श्लोकद्वयस्य सङ्गतेरस्फुटत्वात् तात्पर्यमाह– विद्वदिति ।। यथायोगं सम्बन्धो न यथाक्रमम् । कर्मभेदं कर्मवैलक्षण्यम् । आह प्रपञ्चयतीत्यर्थः । सक्ताः कर्मणि (३.२५) इत्यादिनोक्तत्वात् । व्यवहितत्वादन्वयं दर्शयन् गुणशब्दस्यानेकार्थत्वाद् विवक्षितमर्थमाह– प्रकृतेरिति ।। आदिपदेन शरीरमनसोर्ग्रहणम् । कथमिन्द्रियादीनां द्रव्याणां प्रकृतिगुणत्वम्? इत्यत आह– प्रकृति-मिति ।। गुणभूतानि अप्र्रधानानि । प्रकारान्तरेण व्याचष्टे– तदिति ।। प्रकृतिकार्याणि चेत्यर्थः । गुणशब्दः कार्यार्थ इत्युक्तं भवति ।। ननु जीवस्यापि कर्तृत्वात् ‘अहङ्कार-विमूढात्मा कर्ताहमिति मन्यते’ इति कथमुच्यते? इत्यत आह– न हीति ।। ‘स्वातन्त्र्येण’ इति शेषः ।। २७ ।।

भावदीपः

।। अस्फुटत्वादिति ।। प्राक्तनश्लोकद्वयार्थप्रपञ्चनरूपतया अस्फुट-त्वादित्यर्थः ।। प्रपञ्चयतीति कुतो व्याख्या? इत्यत आह– सक्ता इति ।। २७ ।।

भावरत्नकोशः

।। सङ्गतेरिति । ‘सक्ताः कर्मणि’ (३.२५) इति, ‘न बुद्धि-भेदम्’ (३.२६) इति चानन्तरातीतश्लोकद्वयोक्तार्थस्य प्रपञ्चनार्था उत्तरश्लोकद्वयीति सङ्गते-रित्यर्थः । ‘श्लोकद्वयस्यास्फुटत्वात््’ इति बहुकोशेषु पाठः । ‘श्लोकत्रयस्य तात्पर्यमाह’ इति वक्तव्येऽपि तृतीयस्याज्ञानिज्ञानिविषयस्यात्रैवार्थे पर्यवसन्नतया न पृथगर्थान्तरप्रत्यायकत्वमिति भावेन ‘श्लोकद्वयस्य’ इत्युक्तम् । गीतायां ‘प्रकृतेः क्रियमाणानि’ इत्यत्र ‘विमूढात्मा’ इत्यज्ञकर्मणः ‘तत्त्ववित्तु’ इति च ज्ञानिकर्मवैलक्षण्यस्य प्रतीत्या ‘विद्वदविदुषोः’ भाषितक्रमो न विवक्षित इत्याह– यथायोगमिति ।। यथासम्भवमित्यर्थः । ‘आह’ इत्यनुक्तार्थवचनमेव किं न स्यात् ? इत्यत आह– सक्ता इति ।। ‘सक्ताः कर्मणि’, ‘न बुद्धिभेदम्’ इति श्लोकद्वये-नोक्तत्वात् ‘आह’ इत्यस्य ‘प्रपञ्चयति’ इत्येवार्थ इत्यर्थः ।

।। अनेकार्थत्वादिति । ‘शब्दाद्या इन्द्रियाद्याश्च’ इति वक्ष्यमाणाभिधाने तथोक्तेरिति भावः । बहुवचनोपपत्त्यर्थमिन्द्रियशब्देन सम्भवग्रहणस्यापि मनसः कुरुपाण्डवन्यायेन पृथग्ग्रहणं कृतम्– शरीरमनसोरिति ।। दृश्यते च ‘मनः सर्वेन्द्रियाणि च’ इति पृथग्ग्रहणम् । अनेन ‘इन्द्रियाणामिन्द्रियत्वेन क्रोडीकरणे इन्द्रियमादिर्येषु प्रकृतिगुणेषु इन्द्रियशरीरमनस्सु तैरिन्द्रियादिभिः’ इति विग्रहोऽभिमत इति भाति । गुणत्वाभाव उपपत्तिप्रदर्शनाय ‘द्रव्याणाम्’ इत्युक्तम् । द्रव्यत्वगुणत्वयोरेकत्रावस्थानायोगादिति भावः । अप्रधानानि ज्ञातव्यानि । भाष्ये हिशब्दो ‘यस्मात्’ इत्यर्थे । यतोऽत्राप्रधानान्येव गुणशब्देन विवक्षितानि, न पुनर्वैशेषि-काद्यभिमतरूपरसादीनि । तस्मादेकत्र द्रव्यत्वगुणत्वयोर्दण्ड इव सामानाधिकरण्यमुपपद्यत इति भावः । प्रकारान्तरेणेति ।। अप्रधानत्वापेक्षया प्रकारान्तरेण कार्यत्वेनेत्यर्थः ।।

नन्विन्द्रियादीनां प्रकृतिं प्रत्यप्रधानत्वं प्रकृत्युपचितत्वेनैव वक्तव्यम् । तत्सम्बन्धित्वं च तदेव वक्तव्यमिति कथं प्रकारभेदः? इति चेत्– प्रकृत्या कार्ये निष्पादनीये इन्द्रियादीनाम् उपसर्जनत्वापरपर्यायम् अप्रधानत्वं गुणत्वं विवक्षितम् । तत्सम्बन्धित्वं तु प्रकृतिकार्यत्वम् इति भेदात् ‘प्रकारान्तरेण’ इत्युक्तमित्याहुः । गुणत्वं परमाणुरूपादौ कार्यत्वं विनाऽप्यस्तीति गुणत्वादन्यत् कार्यत्वं घटादिसाधारणमिति विवक्षितमिति द्रष्टव्यम् । ‘प्रकृतेरुपचीयमानत्ववत् प्रकृतिसम्बन्धित्वम्’ इति प्राचीनटीका । भावप्रदीपिका

यां तु ‘महत्तत्त्वाद्यपेक्षयाऽपि गुण-भूतानीन्द्रियाणीति किं विशिष्याभिधीयते प्रकृतिं प्रति गुणभूतानि ? इत्यत आह– तत्सम्ब-न्धीनीति।।’ इतीदं भाष्यमवतारितम् । ‘गुणशब्दः’ इत्यतः पूर्वम् ‘अनेन’ इति पूरणीयम् । प्रकृतेर्गुणैः कार्यभूतैरित्यनेनैव देहेन्द्रियान्तःकरणानां विशेष्यभूतानां योग्यतया तत्सम्बन्ध इति ‘इन्द्रियादिभिः’ इति भाष्यं प्रवृत्तमिति हृदयम् । कर्तृत्वात् कर्तृत्वेनानुभवसिद्धत्वात् । कथमिति ।। कर्तृत्वावबोधस्य मिथ्याज्ञानरूपत्वमयुक्तमित्यर्थः । प्रतिबिम्बभूतस्यापि जीवस्य ‘स हि बिम्बाधीनक्रिययैव क्रियावान्’  इति द्वितीये भाष्यकृतैव क्रियावत्त्वाभिधानादत्र कथं क्रियाप्रतिषेध इति शङ्कां शेषोक्त्या परिहरति– स्वातन्त्र्येणेति ।। २७ ।।

प्रकृतेः क्रियमाणानि’ इत्यादित्रिश्लोक्यक्षरार्थस्तु– अत्र हि, ‘सक्ताः’ इत्यादिश्लोक-द्वयोक्तमविदुषो विदुषश्च कर्मवैलक्षण्यं प्रपञ्चते ।

क्वचित्स्वभावः प्रकृतिः क्वचिच्च त्रिगुणात्मिका ।

 क्वचित् प्रकृष्टकर्तृत्वात् भगवान् प्रकृतिर्हरिः ।।’ (शब्दनिर्णये)

इति वचनाद् ईश्वरजीवस्वभावजडप्रकृतिरूपमर्थत्रयमपि प्रकृतिशब्दार्थः । ‘शब्दाद्या इन्द्रियाद्याश्च’ इति भाष्योक्तप्रमाणेन गुणशब्देनापीशेच्छादयो जीवराशिसम्यग्ज्ञानादयः प्रकृतिं जडरूपां प्रत्यप्रधानभूताः, कार्यभूता वा सत्त्वरजस्तमोगुणाः, देहेन्द्रियान्तःकरणानि, शब्दादि-विषयाश्च, गृह्यन्ते । प्रकृतेर्गुणैः हरेरिच्छादिभिः स्वतन्त्रैः, प्रकृतेः उत्तममध्यमाधमजीवराशि-स्वभावस्य गुणैः तत्त्वज्ञानमिश्रज्ञानमिथ्याज्ञानरूपधर्मैः ईशाधीनैः, प्रकृतेः कार्यभूतैः सत्त्वादिभिः प्रकृतेरुपसर्जनभूतैर्देहेन्द्रियान्तःकरणरूपगुणैर्वा क्रियमाणानि कर्माणि प्रति अहङ्कारविमूढात्मा अहङ्कारशब्देन महत्तत्त्वकार्यं तामसाहङ्कारो गृह्यते । तेन आवृतमनाः पुरुषः अहं कर्ता स्वतन्त्रः कर्तेति मन्यत इत्यविद्वत्कर्मोक्तम् ।। २७ ।।

भावदीपिका

ननु गीतोक्तक्रमेण ‘अविद्वद्विदुषोः कर्मभेदमाह’ इति वक्तव्य-मित्यत आह– यथायोगमिति ।। अर्थाबाधरूपयोग्यताऽनुसारेणेत्यर्थः । कुत एवं व्याख्येयम्? इत्यत आह– सक्ता इति ।। अनेकार्थत्वादिति ।। धर्मसत्तादिगुण-अप्रधानाद्यनेकार्थत्वा-दित्यर्थः ।। कार्यार्थ इति ।। अस्मिन् व्याख्यान इत्यर्थः । तथा च प्रकृतेर्गुणैस्तदपेक्षयोपसर्जन-भूतैस्तत्कार्यैः देहेन्द्रियमनोभिः क्रियमाणानि सर्वाण्यपि कर्माणि ‘अहं कर्ता, तानि स्वातन्त्र्येण कर्तंु मम शीलमस्ति’ इत्यहङ्कारविमूढात्मा सन् अज्ञानी मन्यत इति श्लोकार्थो द्रष्टव्यः । प्रतिबिम्बस्य क्रियाऽभावे शास्त्रवैयर्थ्यप्रसङ्गादाह– स्वातन्त्र्येणेति ।। २७ ।।

भावप्रकाशः

 ।। अनेकार्थत्वादिति ।। ‘शब्दाद्या इन्द्रियाद्याश्च’ इति वक्ष्यमाणाभिधानादिति भावः । शरीरमनसोरिति ।। इन्द्रियपदेन मनसो ग्रहणसम्भवेऽपि कुरुपाण्डवन्यायेन पृथग्ग्रहणं बहुवचनोपपत्त्यर्थमिति बोध्यम् । दृष्टञ्च पृथग्ग्रहणं ‘मनः सर्वेन्द्रियाणि च । इन्द्रियाणि मनो बुद्धिः’ इत्यादौ । द्रव्याणामिति ।। इदञ्च हेत्वर्थगर्भ-विशेषणम् ।। २७ ।।