कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि।। २० ।।

कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।

लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि।। २० ।।

भाष्यम्

आचारोऽप्यस्तीत्याह– कर्मणैवेति ।। कर्मणा सहैव कर्म कुर्वन्त एवेत्यर्थः । कर्म कृत्वैव, ततः ज्ञानं प्राप्य इति वा ।।

भावप्रदीपिका

हेत्वन्तरेण कर्मविधायकप्रघट्टकमवतारयति– आचारोऽ-पीति ।। ननु ज्ञानान्मोक्षं वदता भगवता कथं कर्मणो मोक्षसाधनत्वमुच्यते ? इत्यत आह– कर्मणेति ।। तृतीयायाः सहार्थत्वेऽवधारणान्वयः क्व ? इत्यत आह– कर्मेति ।। करणार्थेऽपि तृतीया युक्तेत्याह– कर्मेति ।।

भावप्रकाशिका

इतोऽप्यसम्प्रज्ञातसमाधेरेव कार्याभावो न तु ज्ञानि-मात्राणाम् । तेषामपि कर्माचरणदर्शनादिति भावेनोत्तरं प्रघट्टकमवतारयति– आचार इति ।। यतो हि ज्ञाननिष्ठा अपि जनकादयः कर्म कुर्वन्ति लोकसङ्ग्रहाय, लोकसङ्ग्रहेण च भगवत्तुष्ट्या मुक्तावानन्दवृद्धिः । अतः सिद्धत्वान्मुक्तेः ज्ञाननिष्ठस्य मम न कर्मफलमिति न मन्तव्यम् । सर्वथा स्वप्रयोजनाभावस्तु भगवत एव सदा स्वत एवाप्तकामस्य । तथाऽप्यसौ जगद्रक्षादिकर्मणि प्रवर्तते । अतस्तदिच्छानुसारिणाऽऽधिकारिकेण कर्म विशेषतः कर्तव्यम्, युद्धादिकमपीति भावः ।

ननु न कर्मैव मुक्तिसाधनं प्रतीयते । तत्कथं ज्ञानिनां कर्माप्यनुष्ठेयमिति वर्ण्यते ? इत्याशङ्क्य सहार्थेयं तृतीया न करणार्थेति तावदाह– कर्मणा सहैवेति ।। तर्ह्यव-धारणान्वयः क्व ? इत्यत आह– कर्म कुर्वन्त एवेति ।। ज्ञाननिष्ठा अपि कर्मणा सहैव मुक्तिं गता इति कर्म कुर्वन्त एव, न तु परित्यज्येत्यर्थः । ज्ञानकरणत्वात् कर्मणः, करणे वेयं तृतीया, न साक्षात् मोक्षकरणत्वेनेत्याह– कर्म कृत्वेति ।।

प्रमेयदीपिका

‘कर्मण एव मुक्तिसाधनत्वमुच्यते’ इत्यन्यथाप्रतीति-निरासाय ‘कर्मणैव हि’ इत्यस्य तात्पर्यं तावदाह– आचारोऽपीति ।। ‘विहितस्य कर्मणः कर्तव्यतायां प्रमाणम्’ इति शेषः । अपिः पूर्वोक्तहेतुसमुच्चये । कर्मण एव ‘मोक्षकारणत्वं तृतीययोच्यते’ इति प्रतीतिनिरासाय व्याचष्टे– कर्मणेति ।।

नन्वेवं सहयोगे तृतीयायां व्याख्यायमानायां जनकादयः कर्मणा सहैव मुक्तिमास्थिता इति वाक्यार्थः स्यात् । न चायं युक्तः । ‘पुत्रेण सहैवागतः पिता’ इत्यत्र यथा पुत्रस्याप्यागमनान्वयः प्रतीयते तथा कर्मणोऽपि मुक्तिमास्थितत्वप्रसङ्गादित्यत आह– कर्मेति ।।

यद्यपि श्रूयमाणक्रियायां सहयोगो नोपपद्यते । तथाप्यध्याहृतावान्तरक्रियायामुपपद्यत एव। ततश्च यथा ‘सहैव दशभिः पुत्रैर्भारं वहति गर्दभी’ इत्यत्र दशभिः पुत्रैः सहैव वर्तमानाप्येकैव भारं वहतीत्यर्थः, तथाऽत्रापि कर्मणा सहैव वर्तमानाः कर्म कुर्वन्त एव इत्यर्थ उपपद्यत इति भावः । द्विधा अपि सहयोगमभिप्रेत्य समासविधौ पाणिनिरपि विशेषणमभाणीत् ‘तेन सहेति तुल्ययोगे’ (पा.सू.२.२.२८) इति ।।

भावबोधः

ननु ‘सहयुक्तेऽप्रधाने’ इत्यत्राप्रधानं द्विविधम् । विशेषणमुपलक्षणं चेति । तत्र विशेषणस्य क्रियायां सहयोगनियमेऽपि नोपलक्षणस्य तन्नियमः । तथा च पुत्रोपलक्षिता गर्दभी भारं वहतीतिवत् कर्मोपलक्षिता मुक्तिमास्थिता इति व्याख्यातुं शक्यत्वात् किमिति ‘कर्म कुर्वन्त एव’ इत्यध्याहृतावान्तरक्रियायां सहयोगोपपादनम्? इत्यत आह– द्विधाऽपीति ।। उपलक्षणत्वेन क्रियायां सहयोगाभावे सपुत्र आगत इतिवत् सपुत्रा गर्दभी वहतीति समासो न स्यादिति भावः । विशेषणमिति । प्रधानक्रियाया अवान्तरक्रियाया वा तुल्ययोग इति विशेषणमित्यर्थः ।।

भावदीपः

पूर्वोक्तहेत्विति ।। ‘तस्मात्’ इति श्लोकोक्तहेत्वित्यर्थः ।। श्रूयमाणक्रियायामिति ।। संसिद्धिशब्दितमुक्तिप्राप्तिरूपक्रियायामित्यर्थः ।। अध्याहृतेति ।। वर्तमानत्वरूपावान्तरक्रियायामित्यर्थः । ‘सहयुक्तेऽप्रधाने’ (पा.सू.२.३.१९) इत्यत्र सहयोगः प्रधानक्रियायामवान्तरक्रियायां च द्वेधा विवक्षित इत्यत्र ज्ञापकमाह– द्विधा अपीत्यादिना ।। कुत्र विशेषणमवादीत्? इत्यत आह– तेन सहेति तुल्ययोग इतीति ।। द्वितीयाध्याय-द्वितीयपादे ‘तेन सह’ इति बहुव्रीहिसमासविधायकं सूत्रम् । तुल्ययोगः समानसम्बन्धः सहेत्येतच्छब्दरूपं तुल्ययोगे वर्तमानं तेनेति तृतीयान्तेन समस्यते । ‘सपुत्र आगतः’ इति । तुल्ययोग इति किम्? ‘सहैव दशभिः पुत्रैः’ इत्यादौ ‘सपुत्रा गर्दभी’ इति न भवति । भारवहनक्रियायां सहभावाभावात् । वर्तमानक्रियायामेव सहभावात्’ इति वृत्त्यादावुक्तेः । अतः ‘तुल्ययोग’ इति विशेषणं वदन् पाणिनिः ‘अतुल्ययोगेऽप्यस्ति सहयोगः’ इत्यभिप्रैतीति भावः ।।

वाक्यार्थप्रदीपः (पां.टि.)– ननु ‘सहयुक्तेऽप्रधाने’ इत्यत्राप्रधानं द्विविधम् । विशेषण-मुपलक्षणञ्चेति ।। तत्र विशेषणस्य क्रियायां सहयोगे नियमेऽपि नोपलक्षणस्य तन्नियमः । तथा च पुत्रोपलक्षिता गर्दभी भारं वहतीतिवत् कर्मोपलक्षिता मुक्तिमास्थिता इति व्याख्यातुं शक्यत्वात्  किमिति ‘कर्म कुर्वन्त एव’ इत्यध्याहृतावान्तरक्रियायां सहयोगोपपादनम्? इत्यत आह– द्विधा अपीति ।। विशेषणमिति ।। प्रधानक्रियया अवान्तरक्रियया वा तुल्ययोग इति विशेषणमित्यर्थः । उपलक्षणत्वेन क्रियायां सहयोगाभावे सपुत्र आगत इतिवत् सपुत्रा गर्दभी वहति इति समासो न स्यादिति भावः । विशेषणमिति ।। अन्यथा द्विधासहयोगाभावे व्यावृत्त्यभावात् ‘सह’ इत्यस्य ‘तुल्ययोग’ इति विशेषणं नोपादीयेतेति भावः । ‘सह’ इत्ये-तच्छब्दरूपं तुल्ययोगे वर्तमानं ‘तेन’ इति तृतीयान्तेन समस्यते बहुव्रीहिश्च समासो भवतीति सूत्रार्थः ।

भावरत्नकोशः

।। अपिरिति ।। ‘आचारोऽपि’ इति भाष्यगतापिशब्दः विहितस्य कर्मणः कर्तव्यत्वे स्तुत्याद्यात्मकार्थवादः, ‘जगच्चक्रप्रवर्तकत्वरूपहेत्वन्तरं च’ इति ‘सहयज्ञाः’ (३.१०) इति ‘अन्नाद् भवन्ति भूतानि’ (३.१४) इत्यादिना चोक्तं यद्धेतुद्वयं तत्समुच्चये वर्तत इत्यर्थः । ‘अपि शब्दः’ इति वाच्येऽपि ‘अपिः’ इत्युक्तिः ‘अपिः पदार्थ-सम्भावनअन्ववसर्गगर्हासमुच्चयेषु’ इति पाणिनिवचनम् ‘अपिशब्दः समुच्चये वर्तते’ इत्यत्र प्रमाणमिति दर्शयितुम् । तेन च ‘अपिशब्दस्याव्ययत्वात् ‘अव्ययादाप्सुपः’ इति सुपो लुकि ‘अपि’ इत्येव निर्देष्टव्यम्’ इति चोद्यं परिहृतम् । शब्दपरस्वरूपत्वेऽव्ययत्वाभावात् । अत एव ‘अपिः पदार्थ’ इत्यादि पाणिन्युक्तिरिति । तृतीययोच्यत इति ।। ‘कर्तृकरणयोस्तृतीया’ इति स्मरणादिति भावः । सहयोग इति ।। सहशब्दयोग इत्यर्थः । ‘सहयुक्तेऽप्रधाने’ सहार्थेन युक्तेऽप्रधाने तृतीयाविभक्तिर्भवतीति पाणिनीयवचनं मनसि निधायैवमुक्तम् । यद्यप्यत्र सहशब्दो न गीतायामस्ति । तथाऽपि ‘विनाऽपि सहशब्देन तृतीया भवति ‘वृद्धो यूना’ इति निपातनात्’ इति वृत्तिवचनाद् भवत्येवात्र तृतीयेति भावः । संसिद्धिपदार्थोक्तिः– मुक्तिमिति ।।

।। आगमनान्वय इति । पितुरागमनक्रियाऽन्वयः शाब्दः । पुत्रस्य तु सहार्थान्यथाऽनु-पपत्त्येति हरदत्तवचनाद् आगमनक्रियाऽन्वयोऽप्रधानत्वाद् आर्थ इति भावः । ‘नन्वेवम्’ इति कृतचोद्यमनूद्य परिहरति– यद्यपीत्यादिना ।। श्रूयमाणक्रियायाम् ‘आस्थिताः’ इति शब्दोप-स्थापितास्थानक्रियायाम् । अध्याहृतावान्तरक्रियायामिति ।। ‘वर्तमाना’ इत्यध्याहृतावान्तर-क्रियायाम्, उपपद्यते कर्मणा सहयोगः । अवान्तरक्रियामध्याहृत्य दर्शयति– सहैव वर्तमाना इति ।। अत्र भाष्यं तात्पर्यरूपमिति भावेन तद् घटयति– कर्म कुर्वन्त एवेतीति ।। ‘सहयुक्तेऽप्रधाने’ इत्यत्र सहयोगः श्रूयमाणक्रियायाम् अवान्तरक्रियायां चान्वेतीत्येतत् पाणिनिसम्मत्याऽप्याह– द्विधाऽपि सहयोगमिति ।। ‘द्विविधं हि’ इत्यपि क्वचित् पाठः । अभाणीत् अवादीत् ।

केचित्तु, प्रथमप्रतीतार्थत्यागपूर्वकं गृहीतत्वम् अध्याहृतत्वमत्र विवक्षितम् । सहशब्द-बोध्याया अध्याहारायोगात् । अश्रुतपदकल्पनं ह्यध्याहारः । वर्तमानक्रिया चात्र तादृशीति तस्यामुपपद्यत एवान्वय इत्यर्थः । प्रकृतं दर्शयति– ततश्चेति ।। सहैव वर्तमानाऽपीति । वर्तमानैरेव दशभिः पुत्रैर्भारं वहतीत्यर्थो वक्तव्यः । ‘विद्यमानैरेव पुत्रैर्भारं वहतीत्यर्थः’ इति वृत्तिकारवचनात् । ‘कर्मणा सहैव’ इत्यत्रापि वर्तमानेन कर्मणेत्यर्थः । तस्य तात्पर्यकथनरूपं ‘कर्म कुर्वन्तः’ इति भाष्यमिति ।

अयमिह ‘यद्यपि’ इत्यादिघट्टस्य निर्गलितोऽत्यर्थः । सहशब्दो ह्यर्थद्वये वर्तते । तत्र ‘तुल्ययोगः’ एकोऽर्थः । ‘तुल्ययोगे वर्तमानम्’ इति वृत्तिवचनात् । विद्यमानशब्दितं ‘वर्तमानत्वम्’ अपरोऽर्थः । ‘विद्यमानतावाची सहशब्दः’ इति कौस्तुभकारवचनात् । तथा च प्रकृते यद्यपि सहशब्दस्तुल्ययोगार्थो न भवति । ‘कर्मणो मुक्तिमास्थितत्वप्रसङ्गः’ इत्युक्त-दोषात् । तथाऽपि वर्तमानक्रियाघटितवर्तमानतार्थः सम्भवत्येव । ततश्च यथा ‘सहैव दशभिः’ इत्यत्र वर्तमानेष्वेव पुत्रेषु स्वयमेकैव भारं वहतीत्यर्थः, तथा कर्मणा वर्तमानेन कर्मणि वर्तमान एवेत्यर्थः सम्पद्यते । अतो नोक्तदोषावकाशः । भाष्यमप्युक्तार्थतात्पर्यकमिति । सहशब्दस्यार्थ-द्वयवाचित्वे पाणिनीयमुपष्टम्भकं दर्शयति– द्विविधं हीति ।। उक्तार्थयोर्द्वयोरपि सहशब्द-वाच्यत्वमस्तीत्यभिप्रेत्येत्यर्थः । समासविधौ समासविधिप्रकरणे । विशेषणं सहशब्दस्य क्व ? इत्यत आह– तेन सहेति तुल्ययोग इतीति ।। सहेति पदं तुल्ययोगे वर्तमानं तृतीयान्तेन समस्यते स बहुव्रीहिः । सपुत्र आगतः । ‘तुल्ययोगे वर्तमानम्’ इति विशेषणात् । ‘सहैव दशभिः पुत्रैर्भारं वहति गर्दभी’ इत्यत्र ‘सपुत्रा’ इति न समास इति सूत्रं व्याख्यातं वृत्तौ । तथा च ‘तेन सहेति तुल्ययोगे’ इति विशिंषन् पाणिनिस्तस्य तुल्ययोगं वर्तमानतां चार्थ-मभिसन्धत्त इति ज्ञायत इति विभावितं भवति’ इति व्याचक्षते ।।

भावदीपिका

।। पूर्वोक्तेति ।। अर्थवादस्य, तथाऽसम्प्रज्ञातसमाधिस्थस्यैव कार्याभावात् तव च सम्प्रज्ञातसमाधिस्थत्वात् त्वया विहितं कर्म कर्तव्यम् इत्येव न । किन्तु विहितस्य कर्मणः कर्तव्यत्वे जनकाद्याचारोऽपि प्रमाणमस्तीति ‘तस्मादसक्तः’ इति पूर्वोक्त-हेतुसमुच्चय इत्यर्थः ।। तृतीययेति ।। ‘कर्मणा’ इति करणत्वार्थकतृतीययेत्यर्थः । कारण-विशेषत्वात् करणत्वस्येति द्रष्टव्यम् ।। सहयोगे तृतीयायामिति ।। ‘सहयुक्तेऽप्रधाने’ सहार्थेन साहित्येन युक्तेऽप्रधाने तृतीया स्यात् । ‘पुत्रेण सहाऽगतः पिता’ इत्युदाहरणम् । एवं चानेन सूत्रेण तृतीयायां व्याख्यायमानायामिति भावः । श्रूयमाणक्रियायाम् ‘आस्थिताः’ इत्युक्ता-स्थानरूपक्रियायाम् । नोपपद्यते ‘कर्मणः’ इति शेषः । उपपद्यत एवेति ।। ‘कर्मणः’ ‘सहयोगः’ इति वर्तते । तथा च तत्र तृतीया युक्तेति भावः ।

नन्वध्याहृतावान्तरक्रियायां सहयोगेन तृतीया कुत्र दृष्टा? इत्यतस्तां दर्शयन् प्रकृतेऽ-प्यध्याहृतावान्तरक्रियायां कर्मणः सहयोगेन तृतीयामुपपादयति– ततश्चेयादिना ।। वर्तमानाऽ-पीति ।। वर्तमानक्रियायां पुत्रैः सहयोगो गर्दभ्या अस्तीत्यप्रधाने पुत्रपदे ‘पुत्रैः’ इति तृतीया युक्तेत्यर्थः । ‘सहैव वर्तमानाः’ इत्यनन्तरमपि ‘स्वयमेव मुक्तिमास्थिताः’ इति शेषः । ‘सहैव वर्तमानाः’ इत्यस्य तात्पर्यकथनम्– कर्म कुर्वन्त एवेति ।। एवं चात्राप्यध्याहृतवर्तन-रूपावान्तरक्रियायां कर्मणः सहयोगोऽस्तीति युक्ता तृतीयेति भावः । ननु सहयोगः प्रधानक्रिययैव विवक्षितः, न त्वध्याहृतावान्तरक्रिययाऽपि । ज्ञापकाभावात् । अतः कर्मणोऽपि मुक्तिमास्थितत्वप्रसङ्गस्तदवस्थ एवेत्यत आह– द्विधाऽपीति ।।

प्रधानक्रिययाऽध्याहृतावान्तरक्रियया चेति द्विधाऽपीत्यर्थः । समासविधौ बहुव्रीहिसमास-विधौ । तेन सहेति तुल्ययोग इतीति ।। सहेत्येतत् तृतीयान्तेन समस्यते । तुल्ययोगे प्रधानक्रिययाऽध्याहृतावन्तरक्रियया च योगः तुल्ययोगः, तस्मिन् विवक्षिते सति बहुव्रीसमासो भवतीति सूत्रार्थः । पुत्रेण सहाऽगतः सपुत्र आगत इत्युदाहरणम् । अत्र सहस्य सो द्रष्टव्यः । यद्यत्र सूत्रे प्रधानक्रिययैव योगस्तुल्ययोगशब्दार्थो विवक्षितः, न त्वध्याहृतावान्तरक्रिययेति स्यात् तदा ‘सपुत्र आगतः पिता’ इति यथाऽऽगमनरूपप्रधानक्रियया पुत्रस्य योगात् ‘सह’ इत्यस्य तृतीयान्तपुत्रपदेन बहुव्रीसमासोऽनेन सूत्रेण जातः, तथा ‘सपुत्रा गर्दभी वहति’ इति समासो न स्यात् । वहनरूपप्रधानक्रियया पुत्राणां योगाभावेन ‘सह’ इत्यस्य तृतीयान्तपुत्रपदेन समासो न सम्भवति । ‘तेन सह’ इति सूत्रेणात्र समासायोगात् । सूत्रान्तरस्य चाभावात् । दृश्यते च समासः सपुत्रा गर्दभी वहतीति । तेन ज्ञायतेऽध्याहृतावान्तरक्रिययाऽपि योगस्तुल्य-योगशब्दार्थ इति । तथा च सति ‘सपुत्रा गर्दभी’ इत्यत्र पुत्रैः सह वर्तनाऽपीत्यध्याहृत-वर्तमानरूपावान्तरक्रियया तुल्ययोगाद् युक्तः समासः । एवमेव प्रकृतेऽपीति भावः । एतत्सूचयितुमेव ‘समासविधौ’ इत्युक्तम् । सपुत्र आगतः, सपुत्रा गर्दभीत्यादिः सहपूर्वपद-बहुव्रीहिः । बहुव्रीहेर्द्विपद-बहुपद-सहपूर्वपदादिभेदेन सप्तविधत्वोक्तेरित्यवधेयम् ।

भावप्रकाशः

 ।। पूर्वोक्तहेतुसमुच्चय इति ।। असम्प्रज्ञातसमाधिस्थस्यैव कार्याभावोक्त्याऽन्यस्य प्रयोजनसत्वसूचनं कर्माकरणे पूर्वोक्तजगच्चक्रव्याघातप्रसङ्ग इत्यादि-हेतुसमुच्चय इत्यर्थः । सहयोग इति ।। सहशब्दयोग इत्यर्थः । श्रूयमाणक्रियायां सहयोग इति ।। श्रूयमाणक्रियया तुल्ययोगे सहशब्दप्रयोगोऽनुपपन्न इत्यर्थः ।। अध्याहृतेति ।। प्रथम-प्रतीतार्थं परित्यज्य गृहीतत्वमध्याहृतत्वं प्रधानक्रियापेक्षयावान्तरा वर्तनक्रिया तस्यां तद्घटिते वर्तमानत्व इति यावत् । पुत्रैः सहैव वर्तमानपीऽति ।। पुत्रेषु वर्तमानेष्वेवेत्यर्थः ।। कर्मणा सहैवेति ।। कर्मणि वर्तमाने सत्येवेत्यर्थः । ततश्च यद्यपीत्यादेरयमर्थः । सहशब्दस्य द्वावर्थौ तुल्ययोगो वर्तमानता च । तत्र प्रकृते यद्यपि सहशब्दस्तुल्ययोगार्थो न भवति । उक्तदोषात् । तथाऽपि वर्तमानातार्थः सम्भवत्येव । ततश्च यथा ‘सहैव’ इत्यत्र दशपुत्रेषु वर्तमानेष्वपि स्वयमेकैव भारं वहतीत्यर्थः । तथा कर्मणा वर्तमाना एवेत्यर्थः  सम्पद्यते । तत्तात्पर्यार्थः– कर्म कुर्वन्त एवेतीति ।। वृत्त्यादिबहुशाब्दिकग्रन्थानुसारायैवं व्याख्यातमिति मन्तव्यम् । सहशब्द-स्यार्थद्वयवाचिवत्वे पाणिनिज्ञापकमाह– द्विधाऽपीति ।। द्वयोरपि सहशब्दवाच्यत्वमभि-प्रेत्येत्यर्थः । विशेषणमिति ।। वर्तमानताव्यावर्तनायेति शेषः । तुल्ययोगवाचिसहशब्दस्तृतीया-न्तेन समस्यत इति सूत्रार्थः । ‘सहैव दशभिः’ इत्यत्र वर्तमानतार्थकसहशब्दस्य समासव्यावृत्त्यै तुल्ययोग इति विशेषणमित्यर्थः ।

Load More