बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ।। १० ।।

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।

बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्  ।। १० ।।

भावरत्नकोशः

सर्वभूतानां बीजं कारणं मां विद्धि । ‘यतो वा इमानि भूतानि’ इति श्रुतेः बुद्धिमतां बुद्धिमत्सु, प्रस्थानान्तरे तथोक्तेः । तेजस्विनां तेजस्विषु तेजः प्रागल्भ्यम्

।। १० ।।